मार्कण्डेय़ उवाच:
अथ मद्राधिपो राजा नारदेन समागतः |
१ क
मार्कण्डेय़ उवाच:
उपविष्टः सभामध्ये कथाय़ोगेन भारत ||
१ ख
मार्कण्डेय़ उवाच:
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा |
२ क
मार्कण्डेय़ उवाच:
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ||
२ ख
मार्कण्डेय़ उवाच:
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा |
३ क
मार्कण्डेय़ उवाच:
उभय़ोरेव शिरसा चक्रे पादाभिवन्दनम् ||
३ ख
नारद उवाच:
क्व गताभूत्सुतेय़ं ते कुतश्चैवागता नृप |
४ क
नारद उवाच:
किमर्थं युवतीं भर्त्रे न चैनां सम्प्रय़च्छसि ||
४ ख
अश्वपतिरु उवाच:
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता |
५ क
अश्वपतिरु उवाच:
तदस्याः शृणु देवर्षे भर्तारं योऽनय़ा वृतः ||
५ ख
मार्कण्डेय़ उवाच:
सा व्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा |
६ क
मार्कण्डेय़ उवाच:
दैवतस्येव वचनं प्रतिगृह्येदमव्रवीत् ||
६ ख
मार्कण्डेय़ उवाच:
आसीच्छाल्वेषु धर्मात्मा क्षत्रिय़ः पृथिवीपतिः |
७ क
मार्कण्डेय़ उवाच:
द्युमत्सेन इति ख्यातः पश्चादन्धो वभूव ह ||
७ ख
मार्कण्डेय़ उवाच:
विनष्टचक्षुषस्तस्य वालपुत्रस्य धीमतः |
८ क
मार्कण्डेय़ उवाच:
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ||
८ ख
मार्कण्डेय़ उवाच:
स वालवत्सय़ा सार्धं भार्यया प्रस्थितो वनम् |
९ क
मार्कण्डेय़ उवाच:
महारण्यगतश्चापि तपस्तेपे महाव्रतः ||
९ ख
मार्कण्डेय़ उवाच:
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने |
१० क
मार्कण्डेय़ उवाच:
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ||
१० ख
नारद उवाच:
अहो वत महत्पापं सावित्र्या नृपते कृतम् |
११ क
नारद उवाच:
अजानन्त्या यदनय़ा गुणवान्सत्यवान्वृतः ||
११ ख
नारद उवाच:
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते |
१२ क
नारद उवाच:
ततोऽस्य व्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ||
१२ ख
नारद उवाच:
वालस्याश्वाः प्रिय़ाश्चास्य करोत्यश्वांश्च मृन्मय़ान् |
१३ क
नारद उवाच:
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ||
१३ ख
राजो उवाच:
अपीदानीं स तेजस्वी वुद्धिमान्वा नृपात्मजः |
१४ क
राजो उवाच:
क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ||
१४ ख
नारद उवाच:
विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ |
१५ क
नारद उवाच:
महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ||
१५ ख
अश्वपतिरु उवाच:
अपि राजात्मजो दाता व्रह्मण्यो वापि सत्यवान् |
१६ क
अश्वपतिरु उवाच:
रूपवानप्युदारो वाप्यथ वा प्रिय़दर्शनः ||
१६ ख
नारद उवाच:
साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः |
१७ क
नारद उवाच:
व्रह्मण्यः सत्यवादी च शिविरौशीनरो यथा ||
१७ ख
नारद उवाच:
यय़ातिरिव चोदारः सोमवत्प्रिय़दर्शनः |
१८ क
नारद उवाच:
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो वली ||
१८ ख
नारद उवाच:
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रिय़ः |
१९ क
नारद उवाच:
स मैत्रः सोऽनसूय़श्च स ह्रीमान्धृतिमांश्च सः ||
१९ ख
नारद उवाच:
नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा |
२० क
नारद उवाच:
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ||
२० ख
अश्वपतिरु उवाच:
गुणैरुपेतं सर्वैस्तं भगवन्प्रव्रवीषि मे |
२१ क
अश्वपतिरु उवाच:
दोषानप्यस्य मे व्रूहि यदि सन्तीह केचन ||
२१ ख
नारद उवाच:
एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् |
२२ क
नारद उवाच:
संवत्सरेण क्षीणाय़ुर्देहन्यासं करिष्यति ||
२२ ख
राजो उवाच:
एहि सावित्रि गच्छ त्वमन्यं वरय़ शोभने |
२३ क
राजो उवाच:
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ||
२३ ख
राजो उवाच:
यथा मे भगवानाह नारदो देवसत्कृतः |
२४ क
राजो उवाच:
संवत्सरेण सोऽल्पाय़ुर्देहन्यासं करिष्यति ||
२४ ख
सावित्र्यु उवाच:
सकृदंशो निपतति सकृत्कन्या प्रदीय़ते |
२५ क
सावित्र्यु उवाच:
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ||
२५ ख
सावित्र्यु उवाच:
दीर्घाय़ुरथ वाल्पाय़ुः सगुणो निर्गुणोऽपि वा |
२६ क
सावित्र्यु उवाच:
सकृद्वृतो मय़ा भर्ता न द्वितीय़ं वृणोम्यहम् ||
२६ ख
सावित्र्यु उवाच:
मनसा निश्चय़ं कृत्वा ततो वाचाभिधीय़ते |
२७ क
सावित्र्यु उवाच:
क्रिय़ते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ||
२७ ख
नारद उवाच:
स्थिरा वुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव |
२८ क
नारद उवाच:
नैषा चालय़ितुं शक्या धर्मादस्मात्कथञ्चन ||
२८ ख
नारद उवाच:
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः |
२९ क
नारद उवाच:
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ||
२९ ख
राजो उवाच:
अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः |
३० क
राजो उवाच:
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ||
३० ख
नारद उवाच:
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव |
३१ क
नारद उवाच:
साधय़िष्यामहे तावत्सर्वेषां भद्रमस्तु वः ||
३१ ख
मार्कण्डेय़ उवाच:
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः |
३२ क
मार्कण्डेय़ उवाच:
राजापि दुहितुः सर्वं वैवाहिकमकारय़त् ||
३२ ख