chevron_left वन पर्व अध्याय १३५
लोमश उवाच:
एषा मधुविला राजन्समङ्गा सम्प्रकाशते |
१ क
लोमश उवाच:
एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ||
१ ख
लोमश उवाच:
अलक्ष्म्या किल संय़ुक्तो वृत्रं हत्वा शचीपतिः |
२ क
लोमश उवाच:
आप्लुतः सर्वपापेभ्यः समङ्गाय़ां व्यमुच्यत ||
२ ख
लोमश उवाच:
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ |
३ क
लोमश उवाच:
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ||
३ ख
लोमश उवाच:
एनं पर्वतराजानमारुह्य पुरुषर्षभ |
४ क
लोमश उवाच:
अय़शस्यामसंशव्द्यामलक्ष्मीं व्यपनोत्स्यथ ||
४ ख
लोमश उवाच:
एते कनखला राजनृषीणां दय़िता नगाः |
५ क
लोमश उवाच:
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी ||
५ ख
लोमश उवाच:
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् |
६ क
लोमश उवाच:
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ||
६ ख
लोमश उवाच:
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् |
७ क
लोमश उवाच:
तूष्णीं गङ्गां च कौन्तेय़ सामात्यः समुपस्पृश ||
७ ख
लोमश उवाच:
आश्रमः स्थूलशिरसो रमणीय़ः प्रकाशते |
८ क
लोमश उवाच:
अत्र मानं च कौन्तेय़ क्रोधं चैव विवर्जय़ ||
८ ख
लोमश उवाच:
एष रैभ्याश्रमः श्रीमान्पाण्डवेय़ प्रकाशते |
९ क
लोमश उवाच:
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ||
९ ख
युधिष्ठिर उवाच:
कथंय़ुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् |
१० क
युधिष्ठिर उवाच:
किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ||
१० ख
युधिष्ठिर उवाच:
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश |
११ क
युधिष्ठिर उवाच:
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ||
११ ख
लोमश उवाच:
भरद्वाजश्च रैभ्यश्च सखाय़ौ सम्वभूवतुः |
१२ क
लोमश उवाच:
तावूषतुरिहात्यन्तं प्रीय़माणौ वनान्तरे ||
१२ ख
लोमश उवाच:
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू |
१३ क
लोमश उवाच:
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ||
१३ ख
लोमश उवाच:
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् |
१४ क
लोमश उवाच:
तय़ोश्चाप्यतुला प्रीतिर्वाल्यात्प्रभृति भारत ||
१४ ख
लोमश उवाच:
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् |
१५ क
लोमश उवाच:
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ||
१५ ख
लोमश उवाच:
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः |
१६ क
लोमश उवाच:
तपस्तेपे ततो घोरं वेदज्ञानाय़ पाण्डव ||
१६ ख
लोमश उवाच:
सुसमिद्धे महत्यग्नौ शरीरमुपतापय़न् |
१७ क
लोमश उवाच:
जनय़ामास सन्तापमिन्द्रस्य सुमहातपाः ||
१७ ख
लोमश उवाच:
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर |
१८ क
लोमश उवाच:
अव्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ||
१८ ख
यवक्रीरु उवाच:
द्विजानामनधीता वै वेदाः सुरगणार्चित |
१९ क
यवक्रीरु उवाच:
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ||
१९ ख
यवक्रीरु उवाच:
स्वाध्याय़ार्थे समारम्भो ममाय़ं पाकशासन |
२० क
यवक्रीरु उवाच:
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ||
२० ख
यवक्रीरु उवाच:
कालेन महता वेदाः शक्या गुरुमुखाद्विभो |
२१ क
यवक्रीरु उवाच:
प्राप्तुं तस्मादय़ं यत्नः परमो मे समास्थितः ||
२१ ख
इन्द्र उवाच:
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि |
२२ क
इन्द्र उवाच:
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ||
२२ ख
लोमश उवाच:
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत |
२३ क
लोमश उवाच:
भूय़ एवाकरोद्यत्नं तपस्यमितविक्रम ||
२३ ख
लोमश उवाच:
घोरेण तपसा राजंस्तप्यमानो महातपाः |
२४ क
लोमश उवाच:
सन्तापय़ामास भृशं देवेन्द्रमिति नः श्रुतम् ||
२४ ख
लोमश उवाच:
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् |
२५ क
लोमश उवाच:
उपेत्य वलभिद्देवो वारय़ामास वै पुनः ||
२५ ख
लोमश उवाच:
अशक्योऽर्थः समारव्धो नैतद्वुद्धिकृतं तव |
२६ क
लोमश उवाच:
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ||
२६ ख
यवक्रीरु उवाच:
न चैतदेवं क्रिय़ते देवराज ममेप्सितम् |
२७ क
यवक्रीरु उवाच:
महता निय़मेनाहं तप्स्ये घोरतरं तपः ||
२७ ख
यवक्रीरु उवाच:
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निवोध |
२८ क
यवक्रीरु उवाच:
यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् ||
२८ ख
लोमश उवाच:
निश्चय़ं तमभिज्ञाय़ मुनेस्तस्य महात्मनः |
२९ क
लोमश उवाच:
प्रतिवारणहेत्वर्थं वुद्ध्या सञ्चिन्त्य वुद्धिमान् ||
२९ ख
लोमश उवाच:
तत इन्द्रोऽकरोद्रूपं व्राह्मणस्य तपस्विनः |
३० क
लोमश उवाच:
अनेकशतवर्षस्य दुर्वलस्य सय़क्ष्मणः ||
३० ख
लोमश उवाच:
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि |
३१ क
लोमश उवाच:
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ||
३१ ख
लोमश उवाच:
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः |
३२ क
लोमश उवाच:
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरय़न् ||
३२ ख
लोमश उवाच:
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जय़त् |
३३ क
लोमश उवाच:
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शय़न् ||
३३ ख
लोमश उवाच:
तं ददर्श यवक्रीस्तु यत्नवन्तं निवन्धने |
३४ क
लोमश उवाच:
प्रहसंश्चाव्रवीद्वाक्यमिदं स मुनिपुङ्गवः ||
३४ ख
लोमश उवाच:
किमिदं वर्तते व्रह्मन्किं च ते ह चिकीर्षितम् |
३५ क
लोमश उवाच:
अतीव हि महान्यत्नः क्रिय़तेऽय़ं निरर्थकः ||
३५ ख
इन्द्र उवाच:
वन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति |
३६ क
इन्द्र उवाच:
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ||
३६ ख
यवक्रीरु उवाच:
नाय़ं शक्यस्त्वय़ा वद्धुं महानोघः कथञ्चन |
३७ क
यवक्रीरु उवाच:
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ||
३७ ख
इन्द्र उवाच:
यथैव भवता चेदं तपो वेदार्थमुद्यतम् |
३८ क
इन्द्र उवाच:
अशक्यं तद्वदस्माभिरय़ं भारः समुद्यतः ||
३८ ख
यवक्रीरु उवाच:
यथा तव निरर्थोऽय़मारम्भस्त्रिदशेश्वर |
३९ क
यवक्रीरु उवाच:
तथा यदि ममापीदं मन्यसे पाकशासन ||
३९ ख
यवक्रीरु उवाच:
क्रिय़तां यद्भवेच्छक्यं मय़ा सुरगणेश्वर |
४० क
यवक्रीरु उवाच:
वरांश्च मे प्रय़च्छान्यान्यैरन्यान्भवितास्म्यति ||
४० ख
लोमश उवाच:
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः |
४१ क
लोमश उवाच:
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ||
४१ ख
लोमश उवाच:
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति |
४२ क
लोमश उवाच:
स लव्धकामः पितरमुपेत्याथ ततोऽव्रवीत् ||
४२ ख