chevron_left शान्ति पर्व अध्याय २८
अश्मो उवाच:
पथि सङ्गतमेवेदं दारैरन्यैश्च वन्धुभिः ||
५० ख
अश्मो उवाच:
नाय़मत्यन्तसंवासो लभ्यते जातु केनचित् |
५१ क
अश्मो उवाच:
अपि स्वेन शरीरेण किमुतान्येन केनचित् ||
५१ ख
अश्मो उवाच:
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः |
५२ क
अश्मो उवाच:
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ||
५२ ख
अश्मो उवाच:
न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा |
५३ क
अश्मो उवाच:
आगमस्तु सतां चक्षुर्नृपते तमिहाचर ||
५३ ख
अश्मो उवाच:
चरितव्रह्मचर्यो हि प्रजाय़ेत यजेत च |
५४ क
अश्मो उवाच:
पितृदेवमहर्षीणामानृण्याय़ानसूय़कः ||
५४ ख
अश्मो उवाच:
स यज्ञशीलः प्रजने निविष्टः; प्राग्व्रह्मचारी प्रविभक्तपक्षः |
५५ क
अश्मो उवाच:
आराधय़न्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदय़व्यलीकम् ||
५५ ख
अश्मो उवाच:
सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत् |
५६ क
अश्मो उवाच:
प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु ||
५६ ख
व्यास उवाच:
इत्येवमाज्ञाय़ विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः |
५७ क
व्यास उवाच:
अश्मानमामन्त्र्य विशुद्धवुद्धि; र्ययौ गृहं स्वं प्रति शान्तशोकः ||
५७ ख
व्यास उवाच:
तथा त्वमप्यच्युत मुञ्च शोक; मुत्तिष्ठ शक्रोपम हर्षमेहि |
५८ क
व्यास उवाच:
क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ||
५८ ख