chevron_left शल्य पर्व अध्याय २८
सञ्जय़ उवाच:
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ||
४९ ख
सञ्जय़ उवाच:
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च |
५० क
सञ्जय़ उवाच:
पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः ||
५० ख
सञ्जय़ उवाच:
आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् |
५१ क
सञ्जय़ उवाच:
अस्मिंस्तोय़ह्रदे सुप्तं जीवन्तं भृशविक्षतम् ||
५१ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः |
५२ क
सञ्जय़ उवाच:
अस्तम्भय़त तोय़ं च माय़या मनुजाधिपः ||
५२ ख
सञ्जय़ उवाच:
तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् |
५३ क
सञ्जय़ उवाच:
अपश्यं सहितानेकस्तं देशं समुपेय़ुषः ||
५३ ख
सञ्जय़ उवाच:
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् |
५४ क
सञ्जय़ उवाच:
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ||
५४ ख
सञ्जय़ उवाच:
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदय़न् |
५५ क
सञ्जय़ उवाच:
उपय़ाय़ च मामूचुर्दिष्ट्या जीवसि सञ्जय़ ||
५५ ख
सञ्जय़ उवाच:
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् |
५६ क
सञ्जय़ उवाच:
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय़ ||
५६ ख
सञ्जय़ उवाच:
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् |
५७ क
सञ्जय़ उवाच:
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽव्रवीत् |
५७ ख
सञ्जय़ उवाच:
ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ||
५७ ग
सञ्जय़ उवाच:
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम |
५८ क
सञ्जय़ उवाच:
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवय़त् ||
५८ ख
सञ्जय़ उवाच:
अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः |
५९ क
सञ्जय़ उवाच:
पर्याप्ता हि वय़ं तेन सह योधय़ितुं परान् ||
५९ ख
सञ्जय़ उवाच:
ते तु तत्र चिरं कालं विलप्य च महारथाः |
६० क
सञ्जय़ उवाच:
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ||
६० ख
सञ्जय़ उवाच:
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् |
६१ क
सञ्जय़ उवाच:
सेनानिवेशमाजग्मुर्हतशेषास्त्रय़ो रथाः ||
६१ ख
सञ्जय़ उवाच:
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति |
६२ क
सञ्जय़ उवाच:
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव सङ्क्षय़म् ||
६२ ख
सञ्जय़ उवाच:
ततो वृद्धा महाराज योषितां रक्षणो नराः |
६३ क
सञ्जय़ उवाच:
राजदारानुपादाय़ प्रय़युर्नगरं प्रति ||
६३ ख
सञ्जय़ उवाच:
तत्र विक्रोशतीनां च रुदतीनां च सर्वशः |
६४ क
सञ्जय़ उवाच:
प्रादुरासीन्महाञ्शव्दः श्रुत्वा तद्वलसङ्क्षय़म् ||
६४ ख
सञ्जय़ उवाच:
ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः |
६५ क
सञ्जय़ उवाच:
कुरर्य इव शव्देन नादय़न्त्यो महीतलम् ||
६५ ख
सञ्जय़ उवाच:
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत |
६६ क
सञ्जय़ उवाच:
लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह ||
६६ ख
सञ्जय़ उवाच:
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च |
६७ क
सञ्जय़ उवाच:
क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते ||
६७ ख
सञ्जय़ उवाच:
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः |
६८ क
सञ्जय़ उवाच:
राजदारानुपादाय़ प्रय़युर्नगरं प्रति ||
६८ ख
सञ्जय़ उवाच:
वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते |
६९ क
सञ्जय़ उवाच:
शय़नीय़ानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च |
६९ ख
सञ्जय़ उवाच:
समादाय़ यय़ुस्तूर्णं नगरं दाररक्षिणः ||
६९ ग
सञ्जय़ उवाच:
आस्थाय़ाश्वतरीय़ुक्तान्स्यन्दनानपरे जनाः |
७० क
सञ्जय़ उवाच:
स्वान्स्वान्दारानुपादाय़ प्रय़युर्नगरं प्रति ||
७० ख
सञ्जय़ उवाच:
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु |
७१ क
सञ्जय़ उवाच:
ददृशुस्ता महाराज जना यान्तीः पुरं प्रति ||
७१ ख
सञ्जय़ उवाच:
ताः स्त्रिय़ो भरतश्रेष्ठ सौकुमार्यसमन्विताः |
७२ क
सञ्जय़ उवाच:
प्रय़युर्नगरं तूर्णं हतस्वजनवान्धवाः ||
७२ ख
सञ्जय़ उवाच:
आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति |
७३ क
सञ्जय़ उवाच:
यय़ुर्मनुष्याः सम्भ्रान्ता भीमसेनभय़ार्दिताः ||
७३ ख
सञ्जय़ उवाच:
अपि चैषां भय़ं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् |
७४ क
सञ्जय़ उवाच:
प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति ||
७४ ख
सञ्जय़ उवाच:
तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे |
७५ क
सञ्जय़ उवाच:
युय़ुत्सुः शोकसंमूढः प्राप्तकालमचिन्तय़त् ||
७५ ख
सञ्जय़ उवाच:
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः |
७६ क
सञ्जय़ उवाच:
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः |
७६ ख
सञ्जय़ उवाच:
हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ||
७६ ग
सञ्जय़ उवाच:
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छय़ा |
७७ क
सञ्जय़ उवाच:
विद्रुतानि च सर्वाणि शिविराणि समन्ततः ||
७७ ख
सञ्जय़ उवाच:
दुर्योधनस्य सचिवा ये केचिदवशेषिताः |
७८ क
सञ्जय़ उवाच:
राजदारानुपादाय़ व्यधावन्नगरं प्रति ||
७८ ख
सञ्जय़ उवाच:
प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो |
७९ क
सञ्जय़ उवाच:
युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च ||
७९ ख
सञ्जय़ उवाच:
एतमर्थं महावाहुरुभय़ोः स न्यवेदय़त् |
८० क
सञ्जय़ उवाच:
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता |
८० ख
सञ्जय़ उवाच:
परिष्वज्य महावाहुर्वैश्यापुत्रं व्यसर्जय़त् ||
८० ग
सञ्जय़ उवाच:
ततः स रथमास्थाय़ द्रुतमश्वानचोदय़त् |
८१ क
सञ्जय़ उवाच:
असम्भावितवांश्चापि राजदारान्पुरं प्रति ||
८१ ख
सञ्जय़ उवाच:
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे |
८२ क
सञ्जय़ उवाच:
प्रविष्टो हास्तिनपुरं वाष्पकण्ठोऽश्रुलोचनः ||
८२ ख
सञ्जय़ उवाच:
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् |
८३ क
सञ्जय़ उवाच:
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ||
८३ ख
सञ्जय़ उवाच:
तमव्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् |
८४ क
सञ्जय़ उवाच:
अस्मिन्कुरुक्षय़े वृत्ते दिष्ट्या त्वं पुत्र जीवसि ||
८४ ख
सञ्जय़ उवाच:
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः |
८५ क
सञ्जय़ उवाच:
एतन्मे कारणं सर्वं विस्तरेण निवेदय़ ||
८५ ख
युय़ुत्सुरु उवाच:
निहते शकुनौ तात सज्ञातिसुतवान्धवे |
८६ क
युय़ुत्सुरु उवाच:
हतशेषपरीवारो राजा दुर्योधनस्ततः |
८६ ख
युय़ुत्सुरु उवाच:
स्वकं स हय़मुत्सृज्य प्राङ्मुखः प्राद्रवद्भय़ात् ||
८६ ग
युय़ुत्सुरु उवाच:
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् |
८७ क
युय़ुत्सुरु उवाच:
भय़व्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ||
८७ ख
युय़ुत्सुरु उवाच:
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः |
८८ क
युय़ुत्सुरु उवाच:
वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भय़ात् ||
८८ ख
युय़ुत्सुरु उवाच:
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् |
८९ क
युय़ुत्सुरु उवाच:
प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम् ||
८९ ख
युय़ुत्सुरु उवाच:
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् |
९० क
युय़ुत्सुरु उवाच:
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् |
९० ख
युय़ुत्सुरु उवाच:
अपूजय़दमेय़ात्मा युय़ुत्सुं वाक्यकोविदम् ||
९० ग
युय़ुत्सुरु उवाच:
प्राप्तकालमिदं सर्वं भवतो भरतक्षय़े |
९१ क
युय़ुत्सुरु उवाच:
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ||
९१ ख
युय़ुत्सुरु उवाच:
एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् |
९२ क
युय़ुत्सुरु उवाच:
युय़ुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षय़म् |
९२ ख
युय़ुत्सुरु उवाच:
युय़ुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ||
९२ ग