वैशम्पाय़न उवाच:
ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः |
१ क
वैशम्पाय़न उवाच:
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ||
१ ख
व्यास उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
व्यास उवाच:
अश्मगीतं नरव्याघ्र तन्निवोध युधिष्ठिर ||
२ ख
व्यास उवाच:
अश्मानं व्राह्मणं प्राज्ञं वैदेहो जनको नृपः |
३ क
व्यास उवाच:
संशय़ं परिपप्रच्छ दुःखशोकपरिप्लुतः ||
३ ख
जनक उवाच:
आगमे यदि वापाय़े ज्ञातीनां द्रविणस्य च |
४ क
जनक उवाच:
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ||
४ ख
अश्मो उवाच:
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः |
५ क
अश्मो उवाच:
तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ||
५ ख
अश्मो उवाच:
तेषामन्यतरापत्तौ यद्यदेवोपसेवते |
६ क
अश्मो उवाच:
तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ||
६ ख
अश्मो उवाच:
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः |
७ क
अश्मो उवाच:
इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ||
७ ख
अश्मो उवाच:
स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् |
८ क
अश्मो उवाच:
परिक्षीणः परस्वानामादानं साधु मन्यते ||
८ ख
अश्मो उवाच:
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् |
९ क
अश्मो उवाच:
प्रतिषेधन्ति राजानो लुव्धा मृगमिवेषुभिः ||
९ ख
अश्मो उवाच:
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः |
१० क
अश्मो उवाच:
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ||
१० ख
अश्मो उवाच:
तेषां परमदुःखानां वुद्ध्या भेषजमादिशेत् |
११ क
अश्मो उवाच:
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ||
११ ख
अश्मो उवाच:
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः |
१२ क
अश्मो उवाच:
अनिष्टोपनिपातो वा तृतीय़ं नोपपद्यते ||
१२ ख
अश्मो उवाच:
एवमेतानि दुःखानि तानि तानीह मानवम् |
१३ क
अश्मो उवाच:
विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ||
१३ ख
अश्मो उवाच:
जरामृत्यू ह भूतानि खादितारौ वृकाविव |
१४ क
अश्मो उवाच:
वलिनां दुर्वलानां च ह्रस्वानां महतामपि ||
१४ ख
अश्मो उवाच:
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः |
१५ क
अश्मो उवाच:
अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ||
१५ ख
अश्मो उवाच:
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् |
१६ क
अश्मो उवाच:
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ||
१६ ख
अश्मो उवाच:
पूर्वे वय़सि मध्ये वाप्युत्तमे वा नराधिप |
१७ क
अश्मो उवाच:
अवर्जनीय़ास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ||
१७ ख
अश्मो उवाच:
सुप्रिय़ैर्विप्रय़ोगश्च सम्प्रय़ोगस्तथाप्रिय़ैः |
१८ क
अश्मो उवाच:
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ||
१८ ख
अश्मो उवाच:
प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च |
१९ क
अश्मो उवाच:
प्राप्तिव्याय़ामय़ोगश्च सर्वमेतत्प्रतिष्ठितम् ||
१९ ख
अश्मो उवाच:
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः |
२० क
अश्मो उवाच:
तथैव सुखदुःखानि विधानमनुवर्तते ||
२० ख
अश्मो उवाच:
आसनं शय़नं यानमुत्थानं पानभोजनम् |
२१ क
अश्मो उवाच:
निय़तं सर्वभूतानां कालेनैव भवन्त्युत ||
२१ ख
अश्मो उवाच:
वैद्याश्चाप्यातुराः सन्ति वलवन्तः सुदुर्वलाः |
२२ क
अश्मो उवाच:
स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ||
२२ ख
अश्मो उवाच:
कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च |
२३ क
अश्मो उवाच:
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ||
२३ ख
अश्मो उवाच:
सन्ति पुत्राः सुवहवो दरिद्राणामनिच्छताम् |
२४ क
अश्मो उवाच:
वहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ||
२४ ख
अश्मो उवाच:
व्याधिरग्निर्जलं शस्त्रं वुभुक्षा श्वापदं विषम् |
२५ क
अश्मो उवाच:
रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ||
२५ ख
अश्मो उवाच:
निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना |
२६ क
अश्मो उवाच:
दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ||
२६ ख
अश्मो उवाच:
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः |
२७ क
अश्मो उवाच:
दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ||
२७ ख
अश्मो उवाच:
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः |
२८ क
अश्मो उवाच:
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ||
२८ ख
अश्मो उवाच:
प्राय़ेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते |
२९ क
अश्मो उवाच:
काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ||
२९ ख
अश्मो उवाच:
अहमेतत्करोमीति मन्यते कालचोदितः |
३० क
अश्मो उवाच:
यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरन् ||
३० ख
अश्मो उवाच:
स्त्रिय़ोऽक्षा मृगय़ा पानं प्रसङ्गान्निन्दिता वुधैः |
३१ क
अश्मो उवाच:
दृश्यन्ते चापि वहवः सम्प्रसक्ता वहुश्रुताः ||
३१ ख
अश्मो उवाच:
इति कालेन सर्वार्थानीप्सितानीप्सितानि च |
३२ क
अश्मो उवाच:
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ||
३२ ख
अश्मो उवाच:
वाय़ुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे |
३३ क
अश्मो उवाच:
ज्योतींषि सरितः शैलान्कः करोति विभर्ति वा ||
३३ ख
अश्मो उवाच:
शीतमुष्णं तथा वर्षं कालेन परिवर्तते |
३४ क
अश्मो उवाच:
एवमेव मनुष्याणां सुखदुःखे नरर्षभ ||
३४ ख
अश्मो उवाच:
नौषधानि न शास्त्राणि न होमा न पुनर्जपाः |
३५ क
अश्मो उवाच:
त्राय़न्ते मृत्युनोपेतं जरय़ा वापि मानवम् ||
३५ ख
अश्मो उवाच:
यथा काष्ठं च काष्ठं च समेय़ातां महोदधौ |
३६ क
अश्मो उवाच:
समेत्य च व्यतीय़ातां तद्वद्भूतसमागमः ||
३६ ख
अश्मो उवाच:
ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः |
३७ क
अश्मो उवाच:
ये चानाथाः परान्नादाः कालस्तेषु समक्रिय़ः ||
३७ ख
अश्मो उवाच:
मातृपितृसहस्राणि पुत्रदारशतानि च |
३८ क
अश्मो उवाच:
संसारेष्वनुभूतानि कस्य ते कस्य वा वय़म् ||
३८ ख
अश्मो उवाच:
नैवास्य कश्चिद्भविता नाय़ं भवति कस्यचित् |
३९ क
अश्मो उवाच:
पथि सङ्गतमेवेदं दारवन्धुसुहृद्गणैः ||
३९ ख
अश्मो उवाच:
क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः |
४० क
अश्मो उवाच:
कस्मात्कमनुशोचेय़मित्येवं स्थापय़ेन्मनः |
४० ख
अश्मो उवाच:
अनित्ये प्रिय़संवासे संसारे चक्रवद्गतौ ||
४० ग
अश्मो उवाच:
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्वुधाः |
४१ क
अश्मो उवाच:
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं वुभूषता ||
४१ ख
अश्मो उवाच:
कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् |
४२ क
अश्मो उवाच:
यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ||
४२ ख
अश्मो उवाच:
संनिमज्जज्जगदिदं गम्भीरे कालसागरे |
४३ क
अश्मो उवाच:
जरामृत्युमहाग्राहे न कश्चिदववुध्यते ||
४३ ख
अश्मो उवाच:
आय़ुर्वेदमधीय़ानाः केवलं सपरिग्रहम् |
४४ क
अश्मो उवाच:
दृश्यन्ते वहवो वैद्या व्याधिभिः समभिप्लुताः ||
४४ ख
अश्मो उवाच:
ते पिवन्तः कषाय़ांश्च सर्पींषि विविधानि च |
४५ क
अश्मो उवाच:
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ||
४५ ख
अश्मो उवाच:
रसाय़नविदश्चैव सुप्रय़ुक्तरसाय़नाः |
४६ क
अश्मो उवाच:
दृश्यन्ते जरय़ा भग्ना नगा नागैरिवोत्तमैः ||
४६ ख
अश्मो उवाच:
तथैव तपसोपेताः स्वाध्याय़ाभ्यसने रताः |
४७ क
अश्मो उवाच:
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ||
४७ ख
अश्मो उवाच:
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः |
४८ क
अश्मो उवाच:
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ||
४८ ख
अश्मो उवाच:
सोऽय़ं विपुलमध्वानं कालेन ध्रुवमध्रुवः |
४९ क
अश्मो उवाच:
नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ||
४९ ख
अश्मो उवाच:
देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः |
५० क