chevron_left अनुशासन पर्व अध्याय २८
युधिष्ठिर उवाच:
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् |
१ क
युधिष्ठिर उवाच:
गुणैः समुदितः सर्वैर्वय़सा च समन्वितः |
१ ख
युधिष्ठिर उवाच:
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ||
१ ग
युधिष्ठिर उवाच:
क्षत्रिय़ो यदि वा वैश्यः शूद्रो वा राजसत्तम |
२ क
युधिष्ठिर उवाच:
व्राह्मण्यं प्राप्नुय़ात्केन तन्मे व्याख्यातुमर्हसि ||
२ ख
युधिष्ठिर उवाच:
तपसा वा सुमहता कर्मणा वा श्रुतेन वा |
३ क
युधिष्ठिर उवाच:
व्राह्मण्यमथ चेदिच्छेत्तन्मे व्रूहि पितामह ||
३ ख
भीष्म उवाच:
व्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः |
४ क
भीष्म उवाच:
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ||
४ ख
भीष्म उवाच:
वह्वीस्तु संसरन्योनीर्जाय़मानः पुनः पुनः |
५ क
भीष्म उवाच:
पर्याय़े तात कस्मिंश्चिद्व्राह्मणो नाम जाय़ते ||
५ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
६ क
भीष्म उवाच:
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ||
६ ख
भीष्म उवाच:
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः |
७ क
भीष्म उवाच:
मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ||
७ ख
भीष्म उवाच:
स यज्ञकारः कौन्तेय़ पित्रा सृष्टः परन्तप |
८ क
भीष्म उवाच:
प्राय़ाद्गर्दभय़ुक्तेन रथेनेहाशुगामिना ||
८ ख
भीष्म उवाच:
स वालं गर्दभं राजन्वहन्तं मातुरन्तिके |
९ क
भीष्म उवाच:
निरविध्यत्प्रतोदेन नासिकाय़ां पुनः पुनः ||
९ ख
भीष्म उवाच:
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी |
१० क
भीष्म उवाच:
उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ||
१० ख
भीष्म उवाच:
व्राह्मणे दारुणं नास्ति मैत्रो व्राह्मण उच्यते |
११ क
भीष्म उवाच:
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ||
११ ख
भीष्म उवाच:
अय़ं तु पापप्रकृतिर्वाले न कुरुते दय़ाम् |
१२ क
भीष्म उवाच:
स्वय़ोनिं मानय़त्येष भावो भावं निगच्छति ||
१२ ख
भीष्म उवाच:
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः |
१३ क
भीष्म उवाच:
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ||
१३ ख
भीष्म उवाच:
व्रूहि रासभि कल्याणि माता मे येन दूषिता |
१४ क
भीष्म उवाच:
कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ||
१४ ख
भीष्म उवाच:
केन जातोऽस्मि चण्डालो व्राह्मण्यं येन मेऽनशत् |
१५ क
भीष्म उवाच:
तत्त्वेनैतन्महाप्राज्ञे व्रूहि सर्वमशेषतः ||
१५ ख
गर्दभ्यु उवाच:
व्राह्मण्यां वृषलेन त्वं मत्ताय़ां नापितेन ह |
१६ क
गर्दभ्यु उवाच:
जातस्त्वमसि चण्डालो व्राह्मण्यं तेन तेऽनशत् ||
१६ ख
गर्दभ्यु उवाच:
एवमुक्तो मतङ्गस्तु प्रत्युपाय़ाद्गृहं प्रति |
१७ क
गर्दभ्यु उवाच:
तमागतमभिप्रेक्ष्य पिता वाक्यमथाव्रवीत् ||
१७ ख
गर्दभ्यु उवाच:
मय़ा त्वं यज्ञसंसिद्धौ निय़ुक्तो गुरुकर्मणि |
१८ क
गर्दभ्यु उवाच:
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ||
१८ ख
मतङ्ग उवाच:
अय़ोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् |
१९ क
मतङ्ग उवाच:
कुशलं तु कुतस्तस्य यस्येय़ं जननी पितः ||
१९ ख
मतङ्ग उवाच:
व्राह्मण्यां वृषलाज्जातं पितर्वेदय़तीह माम् |
२० क
मतङ्ग उवाच:
अमानुषी गर्दभीय़ं तस्मात्तप्स्ये तपो महत् ||
२० ख
मतङ्ग उवाच:
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चय़ः |
२१ क
मतङ्ग उवाच:
ततो गत्वा महारण्यमतप्यत महत्तपः ||
२१ ख
मतङ्ग उवाच:
ततः सन्तापय़ामास विवुधांस्तपसान्वितः |
२२ क
मतङ्ग उवाच:
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ||
२२ ख
मतङ्ग उवाच:
तं तथा तपसा युक्तमुवाच हरिवाहनः |
२३ क
मतङ्ग उवाच:
मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ||
२३ ख
मतङ्ग उवाच:
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि |
२४ क
मतङ्ग उवाच:
यच्चाप्यवाप्यमन्यत्ते सर्वं प्रव्रूहि माचिरम् ||
२४ ख
मतङ्ग उवाच:
व्राह्मण्यं कामय़ानोऽहमिदमारव्धवांस्तपः |
२५ क
मतङ्ग उवाच:
गच्छेय़ं तदवाप्येह वर एष वृतो मय़ा ||
२५ ख
मतङ्ग उवाच:
एतच्छ्रुत्वा तु वचनं तमुवाच पुरन्दरः |
२६ क
मतङ्ग उवाच:
व्राह्मण्यं प्रार्थय़ानस्त्वमप्राप्यमकृतात्मभिः ||
२६ ख
मतङ्ग उवाच:
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते |
२७ क
मतङ्ग उवाच:
तदग्र्यं प्रार्थय़ानस्त्वमचिराद्विनशिष्यसि ||
२७ ख
मतङ्ग उवाच:
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् |
२८ क
मतङ्ग उवाच:
चण्डालय़ोनौ जातेन न तत्प्राप्यं कथञ्चन ||
२८ ख