chevron_left आश्वमेधिक पर्व अध्याय २८
व्राह्मण उवाच:
गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि |
१ क
व्राह्मण उवाच:
न चापि शव्दान्विविधाञ्शृणोमि; न चापि सङ्कल्पमुपैमि किञ्चित् ||
१ ख
व्राह्मण उवाच:
अर्थानिष्टान्कामय़ते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः |
२ क
व्राह्मण उवाच:
कामद्वेषावुद्भवतः स्वभावा; त्प्राणापानौ जन्तुदेहान्निवेश्य ||
२ ख
व्राह्मण उवाच:
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा; न्भूतात्मानं लक्षय़ेय़ं शरीरे |
३ क
व्राह्मण उवाच:
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चि; त्कामक्रोधाभ्यां जरय़ा मृत्युना च ||
३ ख
व्राह्मण उवाच:
अकामय़ानस्य च सर्वकामा; नविद्विषाणस्य च सर्वदोषान् |
४ क
व्राह्मण उवाच:
न मे स्वभावेषु भवन्ति लेपा; स्तोय़स्य विन्दोरिव पुष्करेषु ||
४ ख
व्राह्मण उवाच:
नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य वहून्स्वभावान् |
५ क
व्राह्मण उवाच:
न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मय़ूखजालम् ||
५ ख
व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
६ क
व्राह्मण उवाच:
अध्वर्युय़तिसंवादं तं निवोध यशस्विनि ||
६ ख
व्राह्मण उवाच:
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाव्रवीत् |
७ क
व्राह्मण उवाच:
यतिरध्वर्युमासीनो हिंसेय़मिति कुत्सय़न् ||
७ ख
व्राह्मण उवाच:
तमध्वर्युः प्रत्युवाच नाय़ं छागो विनश्यति |
८ क
व्राह्मण उवाच:
श्रेय़सा योक्ष्यते जन्तुर्यदि श्रुतिरिय़ं तथा ||
८ ख
व्राह्मण उवाच:
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति |
९ क
व्राह्मण उवाच:
यदस्य वारिजं किञ्चिदपस्तत्प्रतिपद्यते ||
९ ख
व्राह्मण उवाच:
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च |
१० क
व्राह्मण उवाच:
आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ||
१० ख
यतिरु उवाच:
प्राणैर्विय़ोगे छागस्य यदि श्रेय़ः प्रपश्यसि |
११ क
यतिरु उवाच:
छागार्थे वर्तते यज्ञो भवतः किं प्रय़ोजनम् ||
११ ख
यतिरु उवाच:
अनु त्वा मन्यतां माता पिता भ्राता सखापि च |
१२ क
यतिरु उवाच:
मन्त्रय़स्वैनमुन्नीय़ परवन्तं विशेषतः ||
१२ ख
यतिरु उवाच:
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति |
१३ क
यतिरु उवाच:
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ||
१३ ख
यतिरु उवाच:
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वय़ोनिषु |
१४ क
यतिरु उवाच:
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ||
१४ ख
यतिरु उवाच:
इन्धनस्य तु तुल्येन शरीरेण विचेतसा |
१५ क
यतिरु उवाच:
हिंसा निर्वेष्टुकामानामिन्धनं पशुसञ्ज्ञितम् ||
१५ ख
यतिरु उवाच:
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् |
१६ क
यतिरु उवाच:
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ||
१६ ख
यतिरु उवाच:
अहिंसेति प्रतिज्ञेय़ं यदि वक्ष्याम्यतः परम् |
१७ क
यतिरु उवाच:
शक्यं वहुविधं वक्तुं भवतः कार्यदूषणम् ||
१७ ख
यतिरु उवाच:
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते |
१८ क
यतिरु उवाच:
प्रत्यक्षतः साधय़ामो न परोक्षमुपास्महे ||
१८ ख
अध्वर्युरु उवाच:
भूमेर्गन्धगुणान्भुङ्क्षे पिवस्यापोमय़ान्रसान् |
१९ क
अध्वर्युरु उवाच:
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ||
१९ ख
अध्वर्युरु उवाच:
शृणोष्याकाशजं शव्दं मनसा मन्यसे मतिम् |
२० क
अध्वर्युरु उवाच:
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ||
२० ख
अध्वर्युरु उवाच:
प्राणादाने च नित्योऽसि हिंसाय़ां वर्तते भवान् |
२१ क
अध्वर्युरु उवाच:
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ||
२१ ख
यतिरु उवाच:
अक्षरं च क्षरं चैव द्वैधीभावोऽय़मात्मनः |
२२ क
यतिरु उवाच:
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ||
२२ ख
यतिरु उवाच:
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह |
२३ क
यतिरु उवाच:
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ||
२३ ख
यतिरु उवाच:
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः |
२४ क
यतिरु उवाच:
समन्तात्परिमुक्तस्य न भय़ं विद्यते क्वचित् ||
२४ ख
अध्वर्युरु उवाच:
सद्भिरेवेह संवासः कार्यो मतिमतां वर |
२५ क
अध्वर्युरु उवाच:
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ||
२५ ख
अध्वर्युरु उवाच:
भगवन्भगवद्वुद्ध्या प्रतिवुद्धो व्रवीम्यहम् |
२६ क
अध्वर्युरु उवाच:
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ||
२६ ख
व्राह्मण उवाच:
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् |
२७ क
व्राह्मण उवाच:
अध्वर्युरपि निर्मोहः प्रचचार महामखे ||
२७ ख
व्राह्मण उवाच:
एवमेतादृशं मोक्षं सुसूक्ष्मं व्राह्मणा विदुः |
२८ क
व्राह्मण उवाच:
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ||
२८ ख