वैशम्पाय़न उवाच:
वनं गते कौरवेन्द्रे दुःखशोकसमाहताः |
१ क
वैशम्पाय़न उवाच:
वभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ||
१ ख
वैशम्पाय़न उवाच:
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् |
२ क
वैशम्पाय़न उवाच:
कुर्वाणाश्च कथास्तत्र व्राह्मणा नृपतिं प्रति ||
२ ख
वैशम्पाय़न उवाच:
कथं नु राजा वृद्धः स वने वसति निर्जने |
३ क
वैशम्पाय़न उवाच:
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ||
३ ख
वैशम्पाय़न उवाच:
सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् |
४ क
वैशम्पाय़न उवाच:
किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ||
४ ख
वैशम्पाय़न उवाच:
सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती |
५ क
वैशम्पाय़न उवाच:
राज्यश्रिय़ं परित्यज्य वनवासमरोचय़त् ||
५ ख
वैशम्पाय़न उवाच:
विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् |
६ क
वैशम्पाय़न उवाच:
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ||
६ ख
वैशम्पाय़न उवाच:
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः |
७ क
वैशम्पाय़न उवाच:
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् ||
७ ख
वैशम्पाय़न उवाच:
पाण्डवाश्चैव ते सर्वे भृशं शोकपराय़णाः |
८ क
वैशम्पाय़न उवाच:
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ||
८ ख
वैशम्पाय़न उवाच:
तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् |
९ क
वैशम्पाय़न उवाच:
गान्धारीं च महाभागां विदुरं च महामतिम् ||
९ ख
वैशम्पाय़न उवाच:
नैषां वभूव सम्प्रीतिस्तान्विचिन्तय़तां तदा |
१० क
वैशम्पाय़न उवाच:
न राज्ये न च नारीषु न वेदाध्ययने तथा ||
१० ख
वैशम्पाय़न उवाच:
परं निर्वेदमगमंश्चिन्तय़न्तो नराधिपम् |
११ क
वैशम्पाय़न उवाच:
तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ||
११ ख
वैशम्पाय़न उवाच:
अभिमन्योश्च वालस्य विनाशं रणमूर्धनि |
१२ क
वैशम्पाय़न उवाच:
कर्णस्य च महावाहोः सङ्ग्रामेष्वपलाय़िनः ||
१२ ख
वैशम्पाय़न उवाच:
तथैव द्रौपदेय़ानामन्येषां सुहृदामपि |
१३ क
वैशम्पाय़न उवाच:
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ||
१३ ख
वैशम्पाय़न उवाच:
हतप्रवीरां पृथिवीं हतरत्नां च भारत |
१४ क
वैशम्पाय़न उवाच:
सदैव चिन्तय़न्तस्ते न निद्रामुपलेभिरे ||
१४ ख
वैशम्पाय़न उवाच:
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी |
१५ क
वैशम्पाय़न उवाच:
नातिप्रीतिय़ुते देव्यौ तदास्तामप्रहृष्टवत् ||
१५ ख
वैशम्पाय़न उवाच:
वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् |
१६ क
वैशम्पाय़न उवाच:
धारय़न्ति स्म ते प्राणांस्तव पूर्वपितामहाः ||
१६ ख