chevron_left वन पर्व अध्याय २८
वैशम्पाय़न उवाच:
ततो वनगताः पार्थाः साय़ाह्ने सह कृष्णय़ा |
१ क
वैशम्पाय़न उवाच:
उपविष्टाः कथाश्चक्रुर्दुःखशोकपराय़णाः ||
१ ख
वैशम्पाय़न उवाच:
प्रिय़ा च दर्शनीय़ा च पण्डिता च पतिव्रता |
२ क
वैशम्पाय़न उवाच:
ततः कृष्णा धर्मराजमिदं वचनमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन |
३ क
वैशम्पाय़न उवाच:
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ||
३ ख
वैशम्पाय़न उवाच:
यस्त्वां राजन्मय़ा सार्धमजिनैः प्रतिवासितम् |
४ क
वैशम्पाय़न उवाच:
भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन |
४ ख
वैशम्पाय़न उवाच:
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ||
४ ग
वैशम्पाय़न उवाच:
आय़सं हृदय़ं नूनं तस्य दुष्कृतकर्मणः |
५ क
वैशम्पाय़न उवाच:
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावय़त्तदा ||
५ ख
वैशम्पाय़न उवाच:
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः |
६ क
वैशम्पाय़न उवाच:
ईदृशं दुःखमानीय़ मोदते पापपूरुषः ||
६ ख
वैशम्पाय़न उवाच:
चतुर्णामेव पापानामश्रु वै नापतत्तदा |
७ क
वैशम्पाय़न उवाच:
त्वय़ि भारत निष्क्रान्ते वनाय़ाजिनवाससि ||
७ ख
वैशम्पाय़न उवाच:
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |
८ क
वैशम्पाय़न उवाच:
दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ||
८ ख
वैशम्पाय़न उवाच:
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम |
९ क
वैशम्पाय़न उवाच:
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ||
९ ख
वैशम्पाय़न उवाच:
इदं च शय़नं दृष्ट्वा यच्चासीत्ते पुरातनम् |
१० क
वैशम्पाय़न उवाच:
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ||
१० ख
वैशम्पाय़न उवाच:
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् |
११ क
वैशम्पाय़न उवाच:
दृष्ट्वा कुशवृसीं चेमां शोको मां रुन्धय़त्ययम् ||
११ ख
वैशम्पाय़न उवाच:
यदपश्यं सभाय़ां त्वां राजभिः परिवारितम् |
१२ क
वैशम्पाय़न उवाच:
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदय़स्य मे ||
१२ ख
वैशम्पाय़न उवाच:
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् |
१३ क
वैशम्पाय़न उवाच:
सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ||
१३ ख
वैशम्पाय़न उवाच:
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्वहुधनैः पुरा |
१४ क
वैशम्पाय़न उवाच:
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ||
१४ ख
वैशम्पाय़न उवाच:
यच्च तद्रुक्मपात्रीभिर्व्राह्मणेभ्यः सहस्रशः |
१५ क
वैशम्पाय़न उवाच:
ह्रिय़ते ते गृहादन्नं संस्कृतं सार्वकामिकम् ||
१५ ख
वैशम्पाय़न उवाच:
यतीनामगृहाणां ते तथैव गृहमेधिनाम् |
१६ क
वैशम्पाय़न उवाच:
दीय़ते भोजनं राजन्नतीव गुणवत्प्रभो |
१६ ख
वैशम्पाय़न उवाच:
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदय़स्य मे ||
१६ ग
वैशम्पाय़न उवाच:
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः |
१७ क
वैशम्पाय़न उवाच:
अभोजय़न्त मृष्टान्नैः सूदाः परमसंस्कृतैः ||
१७ ख
वैशम्पाय़न उवाच:
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः |
१८ क
वैशम्पाय़न उवाच:
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ||
१८ ख
वैशम्पाय़न उवाच:
भीमसेनमिमं चापि दुःखितं वनवासिनम् |
१९ क
वैशम्पाय़न उवाच:
ध्याय़न्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ||
१९ ख
वैशम्पाय़न उवाच:
भीमसेनं हि कर्माणि स्वय़ं कुर्वाणमच्युत |
२० क
वैशम्पाय़न उवाच:
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
२० ख
वैशम्पाय़न उवाच:
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा |
२१ क
वैशम्पाय़न उवाच:
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
२१ ख
वैशम्पाय़न उवाच:
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः |
२२ क
वैशम्पाय़न उवाच:
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽय़ं वृकोदरः ||
२२ ख
वैशम्पाय़न उवाच:
योऽर्जुनेनार्जुनस्तुल्यो द्विवाहुर्वहुवाहुना |
२३ क
वैशम्पाय़न उवाच:
शरातिसर्गे शीघ्रत्वात्कालान्तकय़मोपमः ||
२३ ख
वैशम्पाय़न उवाच:
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः |
२४ क
वैशम्पाय़न उवाच:
यज्ञे तव महाराज व्राह्मणानुपतस्थिरे ||
२४ ख
वैशम्पाय़न उवाच:
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः |
२५ क
वैशम्पाय़न उवाच:
ध्याय़न्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
२५ ख
वैशम्पाय़न उवाच:
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् |
२६ क
वैशम्पाय़न उवाच:
न च ते वर्धते मन्युस्तेन मुह्यामि भारत ||
२६ ख
वैशम्पाय़न उवाच:
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजय़त् |
२७ क
वैशम्पाय़न उवाच:
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
२७ ख
वैशम्पाय़न उवाच:
यो यानैरद्भुताकारैर्हय़ैर्नागैश्च संवृतः |
२८ क
वैशम्पाय़न उवाच:
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः ||
२८ ख
वैशम्पाय़न उवाच:
क्षिपत्येकेन वेगेन पञ्च वाणशतानि यः |
२९ क
वैशम्पाय़न उवाच:
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
२९ ख
वैशम्पाय़न उवाच:
श्यामं वृहन्तं तरुणं चर्मिणामुत्तमं रणे |
३० क
वैशम्पाय़न उवाच:
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
३० ख
वैशम्पाय़न उवाच:
दर्शनीय़ं च शूरं च माद्रीपुत्रं युधिष्ठिर |
३१ क
वैशम्पाय़न उवाच:
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
३१ ख
वैशम्पाय़न उवाच:
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः |
३२ क
वैशम्पाय़न उवाच:
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ||
३२ ख
वैशम्पाय़न उवाच:
नूनं च तव नैवास्ति मन्युर्भरतसत्तम |
३३ क
वैशम्पाय़न उवाच:
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ||
३३ ख
वैशम्पाय़न उवाच:
न निर्मन्युः क्षत्रिय़ोऽस्ति लोके निर्वचनं स्मृतम् |
३४ क
वैशम्पाय़न उवाच:
तदद्य त्वय़ि पश्यामि क्षत्रिय़े विपरीतवत् ||
३४ ख
वैशम्पाय़न उवाच:
यो न दर्शय़ते तेजः क्षत्रिय़ः काल आगते |
३५ क
वैशम्पाय़न उवाच:
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ||
३५ ख
वैशम्पाय़न उवाच:
तत्त्वय़ा न क्षमा कार्या शत्रून्प्रति कथञ्चन |
३६ क
वैशम्पाय़न उवाच:
तेजसैव हि ते शक्या निहन्तुं नात्र संशय़ः ||
३६ ख
वैशम्पाय़न उवाच:
तथैव यः क्षमाकाले क्षत्रिय़ो नोपशाम्यति |
३७ क
वैशम्पाय़न उवाच:
अप्रिय़ः सर्वभूतानां सोऽमुत्रेह च नश्यति ||
३७ ख