युधिष्ठिर उवाच:
असंशय़ं सञ्जय़ सत्यमेत; द्धर्मो वरः कर्मणां यत्त्वमात्थ |
१ क
युधिष्ठिर उवाच:
ज्ञात्वा तु मां सञ्जय़ गर्हय़ेस्त्वं; यदि धर्मं यद्यधर्मं चरामि ||
१ ख
युधिष्ठिर उवाच:
यत्राधर्मो धर्मरूपाणि विभ्र; द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः |
२ क
युधिष्ठिर उवाच:
तथा धर्मो धारय़न्धर्मरूपं; विद्वांसस्तं सम्प्रपश्यन्ति वुद्ध्या ||
२ ख
युधिष्ठिर उवाच:
एवमेतावापदि लिङ्गमेत; द्धर्माधर्मौ वृत्तिनित्यौ भजेताम् |
३ क
युधिष्ठिर उवाच:
आद्यं लिङ्गं यस्य तस्य प्रमाण; मापद्धर्मं सञ्जय़ तं निवोध ||
३ ख
युधिष्ठिर उवाच:
लुप्ताय़ां तु प्रकृतौ येन कर्म; निष्पादय़ेत्तत्परीप्सेद्विहीनः |
४ क
युधिष्ठिर उवाच:
प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः सञ्जय़ैतौ ||
४ ख
युधिष्ठिर उवाच:
अविलोपमिच्छतां व्राह्मणानां; प्राय़श्चित्तं विहितं यद्विधात्रा |
५ क
युधिष्ठिर उवाच:
आपद्यथाकर्मसु वर्तमाना; न्विकर्मस्थान्सञ्जय़ गर्हय़ेत ||
५ ख
युधिष्ठिर उवाच:
मनीषिणां तत्त्वविच्छेदनाय़; विधीय़ते सत्सु वृत्तिः सदैव |
६ क
युधिष्ठिर उवाच:
अव्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः ||
६ ख
युधिष्ठिर उवाच:
तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये |
७ क
युधिष्ठिर उवाच:
प्रज्ञैषिणो ये च हि कर्म चक्रु; र्नास्त्यन्ततो नास्ति नास्तीति मन्ये ||
७ ख
युधिष्ठिर उवाच:
यत्किञ्चिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र |
८ क
युधिष्ठिर उवाच:
प्राजापत्यं त्रिदिवं व्रह्मलोकं; नाधर्मतः सञ्जय़ कामय़े तत् ||
८ ख
युधिष्ठिर उवाच:
धर्मेश्वरः कुशलो नीतिमांश्चा; प्युपासिता व्राह्मणानां मनीषी |
९ क
युधिष्ठिर उवाच:
नानाविधांश्चैव महावलांश्च; राजन्यभोजाननुशास्ति कृष्णः ||
९ ख
युधिष्ठिर उवाच:
यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम् |
१० क
युधिष्ठिर उवाच:
महाय़शाः केशवस्तद्व्रवीतु; वासुदेवस्तूभय़ोरर्थकामः ||
१० ख
युधिष्ठिर उवाच:
शैनेय़ा हि चैत्रकाश्चान्धकाश्च; वार्ष्णेय़भोजाः कौकुराः सृञ्जय़ाश्च |
११ क
युधिष्ठिर उवाच:
उपासीना वासुदेवस्य वुद्धिं; निगृह्य शत्रून्सुहृदो नन्दय़न्ति ||
११ ख
युधिष्ठिर उवाच:
वृष्ण्यन्धका ह्युग्रसेनादय़ो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः |
१२ क
युधिष्ठिर उवाच:
मनस्विनः सत्यपराक्रमाश्च; महावला यादवा भोगवन्तः ||
१२ ख
युधिष्ठिर उवाच:
काश्यो वभ्रुः श्रिय़मुत्तमां गतो; लव्ध्वा कृष्णं भ्रातरमीशितारम् |
१३ क
युधिष्ठिर उवाच:
यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः ||
१३ ख
युधिष्ठिर उवाच:
ईदृशोऽय़ं केशवस्तात भूय़ो; विद्मो ह्येनं कर्मणां निश्चय़ज्ञम् |
१४ क
युधिष्ठिर उवाच:
प्रिय़श्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य ||
१४ ख