श्रीभगवानु उवाच:
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
१ क
श्रीभगवानु उवाच:
स संन्यासी च योगी च न निरग्निर्न चाक्रिय़ः ||
१ ख
श्रीभगवानु उवाच:
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
२ क
श्रीभगवानु उवाच:
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||
२ ख
श्रीभगवानु उवाच:
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
३ क
श्रीभगवानु उवाच:
योगारूढस्य तस्यैव शमः कारणमुच्यते ||
३ ख
श्रीभगवानु उवाच:
यदा हि नेन्द्रिय़ार्थेषु न कर्मस्वनुषज्जते |
४ क
श्रीभगवानु उवाच:
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ||
४ ख
श्रीभगवानु उवाच:
उद्धरेदात्मनात्मानं नात्मानमवसादय़ेत् |
५ क
श्रीभगवानु उवाच:
आत्मैव ह्यात्मनो वन्धुरात्मैव रिपुरात्मनः ||
५ ख
श्रीभगवानु उवाच:
वन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
६ क
श्रीभगवानु उवाच:
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||
६ ख
श्रीभगवानु उवाच:
जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
७ क
श्रीभगवानु उवाच:
शीतोष्णसुखदुःखेषु तथा मानावमानय़ोः ||
७ ख
श्रीभगवानु उवाच:
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय़ः |
८ क
श्रीभगवानु उवाच:
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ||
८ ख
श्रीभगवानु उवाच:
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यवन्धुषु |
९ क
श्रीभगवानु उवाच:
साधुष्वपि च पापेषु समवुद्धिर्विशिष्यते ||
९ ख
श्रीभगवानु उवाच:
योगी युञ्जीत सततमात्मानं रहसि स्थितः |
१० क
श्रीभगवानु उवाच:
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ||
१० ख
श्रीभगवानु उवाच:
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |
११ क
श्रीभगवानु उवाच:
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ||
११ ख
श्रीभगवानु उवाच:
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रिय़क्रिय़ः |
१२ क
श्रीभगवानु उवाच:
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धय़े ||
१२ ख
श्रीभगवानु उवाच:
समं काय़शिरोग्रीवं धारय़न्नचलं स्थिरः |
१३ क
श्रीभगवानु उवाच:
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकय़न् ||
१३ ख
श्रीभगवानु उवाच:
प्रशान्तात्मा विगतभीर्व्रह्मचारिव्रते स्थितः |
१४ क
श्रीभगवानु उवाच:
मनः संय़म्य मच्चित्तो युक्त आसीत मत्परः ||
१४ ख
श्रीभगवानु उवाच:
युञ्जन्नेवं सदात्मानं योगी निय़तमानसः |
१५ क
श्रीभगवानु उवाच:
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ||
१५ ख
श्रीभगवानु उवाच:
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः |
१६ क
श्रीभगवानु उवाच:
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ||
१६ ख
श्रीभगवानु उवाच:
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
१७ क
श्रीभगवानु उवाच:
युक्तस्वप्नाववोधस्य योगो भवति दुःखहा ||
१७ ख
श्रीभगवानु उवाच:
यदा विनिय़तं चित्तमात्मन्येवावतिष्ठते |
१८ क
श्रीभगवानु उवाच:
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ||
१८ ख
श्रीभगवानु उवाच:
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |
१९ क
श्रीभगवानु उवाच:
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||
१९ ख
श्रीभगवानु उवाच:
यत्रोपरमते चित्तं निरुद्धं योगसेवय़ा |
२० क
श्रीभगवानु उवाच:
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ||
२० ख
श्रीभगवानु उवाच:
सुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रिय़म् |
२१ क
श्रीभगवानु उवाच:
वेत्ति यत्र न चैवाय़ं स्थितश्चलति तत्त्वतः ||
२१ ख
श्रीभगवानु उवाच:
यं लव्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
२२ क
श्रीभगवानु उवाच:
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||
२२ ख
श्रीभगवानु उवाच:
तं विद्याद्दुःखसंय़ोगविय़ोगं योगसञ्ज्ञितम् |
२३ क
श्रीभगवानु उवाच:
स निश्चय़ेन योक्तव्यो योगोऽनिर्विण्णचेतसा ||
२३ ख
श्रीभगवानु उवाच:
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः |
२४ क
श्रीभगवानु उवाच:
मनसैवेन्द्रिय़ग्रामं विनिय़म्य समन्ततः ||
२४ ख
श्रीभगवानु उवाच:
शनैः शनैरुपरमेद्वुद्ध्या धृतिगृहीतय़ा |
२५ क
श्रीभगवानु उवाच:
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तय़ेत् ||
२५ ख
श्रीभगवानु उवाच:
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |
२६ क
श्रीभगवानु उवाच:
ततस्ततो निय़म्यैतदात्मन्येव वशं नय़ेत् ||
२६ ख
श्रीभगवानु उवाच:
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |
२७ क
श्रीभगवानु उवाच:
उपैति शान्तरजसं व्रह्मभूतमकल्मषम् ||
२७ ख
श्रीभगवानु उवाच:
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः |
२८ क
श्रीभगवानु उवाच:
सुखेन व्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ||
२८ ख
श्रीभगवानु उवाच:
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
२९ क
श्रीभगवानु उवाच:
ईक्षते योगय़ुक्तात्मा सर्वत्र समदर्शनः ||
२९ ख
श्रीभगवानु उवाच:
यो मां पश्यति सर्वत्र सर्वं च मय़ि पश्यति |
३० क
श्रीभगवानु उवाच:
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||
३० ख
श्रीभगवानु उवाच:
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |
३१ क
श्रीभगवानु उवाच:
सर्वथा वर्तमानोऽपि स योगी मय़ि वर्तते ||
३१ ख
श्रीभगवानु उवाच:
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |
३२ क
श्रीभगवानु उवाच:
सुखं वा यदि वा दुःखं स योगी परमो मतः ||
३२ ख
अर्जुन उवाच:
योऽय़ं योगस्त्वय़ा प्रोक्तः साम्येन मधुसूदन |
३३ क
अर्जुन उवाच:
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ||
३३ ख
अर्जुन उवाच:
चञ्चलं हि मनः कृष्ण प्रमाथि वलवद्दृढम् |
३४ क
अर्जुन उवाच:
तस्याहं निग्रहं मन्ये वाय़ोरिव सुदुष्करम् ||
३४ ख
श्रीभगवानु उवाच:
असंशय़ं महावाहो मनो दुर्निग्रहं चलम् |
३५ क
श्रीभगवानु उवाच:
अभ्यासेन तु कौन्तेय़ वैराग्येण च गृह्यते ||
३५ ख
श्रीभगवानु उवाच:
असंय़तात्मना योगो दुष्प्राप इति मे मतिः |
३६ क
श्रीभगवानु उवाच:
वश्यात्मना तु यतता शक्योऽवाप्तुमुपाय़तः ||
३६ ख
अर्जुन उवाच:
अय़तिः श्रद्धय़ोपेतो योगाच्चलितमानसः |
३७ क
अर्जुन उवाच:
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||
३७ ख
अर्जुन उवाच:
कच्चिन्नोभय़विभ्रष्टश्छिन्नाभ्रमिव नश्यति |
३८ क
अर्जुन उवाच:
अप्रतिष्ठो महावाहो विमूढो व्रह्मणः पथि ||
३८ ख
अर्जुन उवाच:
एतन्मे संशय़ं कृष्ण छेत्तुमर्हस्यशेषतः |
३९ क
अर्जुन उवाच:
त्वदन्यः संशय़स्यास्य छेत्ता न ह्युपपद्यते ||
३९ ख
श्रीभगवानु उवाच:
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
४० क
श्रीभगवानु उवाच:
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ||
४० ख
श्रीभगवानु उवाच:
प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः |
४१ क
श्रीभगवानु उवाच:
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजाय़ते ||
४१ ख
श्रीभगवानु उवाच:
अथ वा योगिनामेव कुले भवति धीमताम् |
४२ क
श्रीभगवानु उवाच:
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||
४२ ख
श्रीभगवानु उवाच:
तत्र तं वुद्धिसंय़ोगं लभते पौर्वदेहिकम् |
४३ क
श्रीभगवानु उवाच:
यतते च ततो भूय़ः संसिद्धौ कुरुनन्दन ||
४३ ख
श्रीभगवानु उवाच:
पूर्वाभ्यासेन तेनैव ह्रिय़ते ह्यवशोऽपि सः |
४४ क
श्रीभगवानु उवाच:
जिज्ञासुरपि योगस्य शव्दव्रह्मातिवर्तते ||
४४ ख
श्रीभगवानु उवाच:
प्रय़त्नाद्यतमानस्तु योगी संशुद्धकिल्विषः |
४५ क
श्रीभगवानु उवाच:
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||
४५ ख
श्रीभगवानु उवाच:
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |
४६ क
श्रीभगवानु उवाच:
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ||
४६ ख
श्रीभगवानु उवाच:
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |
४७ क
श्रीभगवानु उवाच:
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ||
४७ ख