धृतराष्ट्र उवाच:
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः |
१ क
धृतराष्ट्र उवाच:
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ||
१ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ |
२ क
सञ्जय़ उवाच:
मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ||
२ ख
सञ्जय़ उवाच:
तथा हि शरवर्षाणि पातय़त्यनिशं प्रभो |
३ क
सञ्जय़ उवाच:
भगदत्तो गजस्कन्धात्कृष्णय़ोः स्यन्दनस्थय़ोः ||
३ ख
सञ्जय़ उवाच:
अथ कार्ष्णाय़सैर्वाणैः पूर्णकार्मुकनिःसृतैः |
४ क
सञ्जय़ उवाच:
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ||
४ ख
सञ्जय़ उवाच:
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः |
५ क
सञ्जय़ उवाच:
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ||
५ ख
सञ्जय़ उवाच:
तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च |
६ क
सञ्जय़ उवाच:
लाडय़न्निव राजानं भगदत्तमय़ोधय़त् ||
६ ख
सञ्जय़ उवाच:
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश |
७ क
सञ्जय़ उवाच:
प्रेरय़त्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ||
७ ख
सञ्जय़ उवाच:
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः |
८ क
सञ्जय़ उवाच:
शरजालेन स वभौ व्यभ्रः पर्वतराडिव ||
८ ख
सञ्जय़ उवाच:
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामय़स्मय़ीम् |
९ क
सञ्जय़ उवाच:
व्यसृजद्वासुदेवाय़ द्विधा तामर्जुनोऽच्छिनत् ||
९ ख
सञ्जय़ उवाच:
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः |
१० क
सञ्जय़ उवाच:
विव्याध दशभिस्तूर्णमुत्स्मय़न्पर्वताधिपम् ||
१० ख
सञ्जय़ उवाच:
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः |
११ क
सञ्जय़ उवाच:
भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ||
११ ख
सञ्जय़ उवाच:
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च |
१२ क
सञ्जय़ उवाच:
तैरर्जुनस्य समरे किरीटं परिवर्तितम् ||
१२ ख
सञ्जय़ उवाच:
परिवृत्तं किरीटं तं यमय़न्नेव फल्गुनः |
१३ क
सञ्जय़ उवाच:
सुदृष्टः क्रिय़तां लोक इति राजानमव्रवीत् ||
१३ ख
सञ्जय़ उवाच:
एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् |
१४ क
सञ्जय़ उवाच:
अभ्यवर्षत्सगोविन्दं धनुरादाय़ भास्वरम् ||
१४ ख
सञ्जय़ उवाच:
तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च |
१५ क
सञ्जय़ उवाच:
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडय़त् ||
१५ ख
सञ्जय़ उवाच:
विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरय़न् |
१६ क
सञ्जय़ उवाच:
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ||
१६ ख
सञ्जय़ उवाच:
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् |
१७ क
सञ्जय़ उवाच:
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ||
१७ ख
सञ्जय़ उवाच:
वैजय़न्त्यभवन्माला तदस्त्रं केशवोरसि |
१८ क
सञ्जय़ उवाच:
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ||
१८ ख
सञ्जय़ उवाच:
अय़ुध्यमानस्तुरगान्संय़न्तास्मि जनार्दन |
१९ क
सञ्जय़ उवाच:
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ||
१९ ख
सञ्जय़ उवाच:
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे |
२० क
सञ्जय़ उवाच:
ततस्त्वय़ैवं कार्यं स्यान्न तु कार्यं मय़ि स्थिते ||
२० ख
सञ्जय़ उवाच:
सवाणः सधनुश्चाहं ससुरासुरमानवान् |
२१ क
सञ्जय़ उवाच:
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ||
२१ ख
सञ्जय़ उवाच:
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः |
२२ क
सञ्जय़ उवाच:
शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ||
२२ ख
सञ्जय़ उवाच:
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः |
२३ क
सञ्जय़ उवाच:
आत्मानं प्रविभज्येह लोकानां हितमादधे ||
२३ ख
सञ्जय़ उवाच:
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता |
२४ क
सञ्जय़ उवाच:
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ||
२४ ख
सञ्जय़ उवाच:
अपरा कुरुते कर्म मानुषं लोकमाश्रिता |
२५ क
सञ्जय़ उवाच:
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ||
२५ ख
सञ्जय़ उवाच:
यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम |
२६ क
सञ्जय़ उवाच:
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ||
२६ ख
सञ्जय़ उवाच:
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा |
२७ क
सञ्जय़ उवाच:
प्राय़ाचत वरं यं मां नरकार्थाय़ तं शृणु ||
२७ ख
सञ्जय़ उवाच:
देवानामसुराणां च अवध्यस्तनय़ोऽस्तु मे |
२८ क
सञ्जय़ उवाच:
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ||
२८ ख
सञ्जय़ उवाच:
एवं वरमहं श्रुत्वा जगत्यास्तनय़े तदा |
२९ क
सञ्जय़ उवाच:
अमोघमस्त्रमददं वैष्णवं तदहं पुरा ||
२९ ख
सञ्जय़ उवाच:
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे |
३० क
सञ्जय़ उवाच:
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ||
३० ख
सञ्जय़ उवाच:
अनेनास्त्रेण ते गुप्तः सुतः परवलार्दनः |
३१ क
सञ्जय़ उवाच:
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ||
३१ ख
सञ्जय़ उवाच:
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी |
३२ क
सञ्जय़ उवाच:
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ||
३२ ख
सञ्जय़ उवाच:
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् |
३३ क
सञ्जय़ उवाच:
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ||
३३ ख
सञ्जय़ उवाच:
तन्मय़ा त्वत्कृतेनैतदन्यथा व्यपनाशितम् |
३४ क
सञ्जय़ उवाच:
विय़ुक्तं परमास्त्रेण जहि पार्थ महासुरम् ||
३४ ख
सञ्जय़ उवाच:
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् |
३५ क
सञ्जय़ उवाच:
यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ||
३५ ख
सञ्जय़ उवाच:
एवमुक्तस्ततः पार्थः केशवेन महात्मना |
३६ क
सञ्जय़ उवाच:
भगदत्तं शितैर्वाणैः सहसा समवाकिरत् ||
३६ ख
सञ्जय़ उवाच:
ततः पार्थो महावाहुरसम्भ्रान्तो महामनाः |
३७ क
सञ्जय़ उवाच:
कुम्भय़ोरन्तरे नागं नाराचेन समार्पय़त् ||
३७ ख
सञ्जय़ उवाच:
समासाद्य तु तं नागं वाणो वज्र इवाचलम् |
३८ क
सञ्जय़ उवाच:
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ||
३८ ख
सञ्जय़ उवाच:
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं यय़ौ |
३९ क
सञ्जय़ उवाच:
नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ||
३९ ख
सञ्जय़ उवाच:
ततश्चन्द्रार्धविम्वेन शरेण नतपर्वणा |
४० क
सञ्जय़ उवाच:
विभेद हृदय़ं राज्ञो भगदत्तस्य पाण्डवः ||
४० ख
सञ्जय़ उवाच:
स भिन्नहृदय़ो राजा भगदत्तः किरीटिना |
४१ क
सञ्जय़ उवाच:
शरासनं शरांश्चैव गतासुः प्रमुमोच ह ||
४१ ख
सञ्जय़ उवाच:
शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः |
४२ क
सञ्जय़ उवाच:
नालताडनविभ्रष्टं पलाशं नलिनादिव ||
४२ ख
सञ्जय़ उवाच:
स हेममाली तपनीय़भाण्डा; त्पपात नागाद्गिरिसंनिकाशात् |
४३ क
सञ्जय़ उवाच:
सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः ||
४३ ख
सञ्जय़ उवाच:
निहत्य तं नरपतिमिन्द्रविक्रमं; सखाय़मिन्द्रस्य तथैन्द्रिराहवे |
४४ क
सञ्जय़ उवाच:
ततोऽपरांस्तव जय़काङ्क्षिणो नरा; न्वभञ्ज वाय़ुर्वलवान्द्रुमानिव ||
४४ ख