सञ्जय़ उवाच:
मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः |
१ क
सञ्जय़ उवाच:
शल्योऽव्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ||
१ ख
सञ्जय़ उवाच:
यथैव मत्तो मद्येन त्वं तथा न च वा तथा |
२ क
सञ्जय़ उवाच:
तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तय़ा ||
२ ख
सञ्जय़ उवाच:
इमां काकोपमां कर्ण प्रोच्यमानां निवोध मे |
३ क
सञ्जय़ उवाच:
श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन ||
३ ख
सञ्जय़ उवाच:
नाहमात्मनि किञ्चिद्वै किल्विषं कर्ण संस्मरे |
४ क
सञ्जय़ उवाच:
येन त्वं मां महावाहो हन्तुमिच्छस्यनागसम् ||
४ ख
सञ्जय़ उवाच:
अवश्यं तु मय़ा वाच्यं वुध्यतां यदि ते हितम् |
५ क
सञ्जय़ उवाच:
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ||
५ ख
सञ्जय़ उवाच:
समं च विषमं चैव रथिनश्च वलावलम् |
६ क
सञ्जय़ उवाच:
श्रमः खेदश्च सततं हय़ानां रथिना सह ||
६ ख
सञ्जय़ उवाच:
आय़ुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् |
७ क
सञ्जय़ उवाच:
भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिय़ा ||
७ ख
सञ्जय़ उवाच:
अस्त्रय़ोगश्च युद्धं च निमित्तानि तथैव च |
८ क
सञ्जय़ उवाच:
सर्वमेतन्मय़ा ज्ञेय़ं रथस्यास्य कुटुम्विना |
८ ख
सञ्जय़ उवाच:
अतस्त्वां कथय़े कर्ण निदर्शनमिदं पुनः ||
८ ग
सञ्जय़ उवाच:
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् |
९ क
सञ्जय़ उवाच:
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ||
९ ख
सञ्जय़ उवाच:
वहुपुत्रः प्रिय़ापत्यः सर्वभूतानुकम्पकः |
१० क
सञ्जय़ उवाच:
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भय़ः ||
१० ख
सञ्जय़ उवाच:
पुत्राणां तस्य वालानां कुमाराणां यशस्विनाम् |
११ क
सञ्जय़ उवाच:
काको वहूनामभवदुच्चिष्टकृतभोजनः ||
११ ख
सञ्जय़ उवाच:
तस्मै सदा प्रय़च्छन्ति वैश्यपुत्राः कुमारकाः |
१२ क
सञ्जय़ उवाच:
मांसोदनं दधि क्षीरं पाय़सं मधुसर्पिषी ||
१२ ख
सञ्जय़ उवाच:
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः |
१३ क
सञ्जय़ उवाच:
सदृशान्पक्षिणो दृप्तः श्रेय़सश्चावमन्यते ||
१३ ख
सञ्जय़ उवाच:
अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः |
१४ क
सञ्जय़ उवाच:
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ||
१४ ख
सञ्जय़ उवाच:
कुमारकास्ततो हंसान्दृष्ट्वा काकमथाव्रुवन् |
१५ क
सञ्जय़ उवाच:
भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम ||
१५ ख
सञ्जय़ उवाच:
प्रतार्यमाणस्तु स तैरल्पवुद्धिभिरण्डजः |
१६ क
सञ्जय़ उवाच:
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ||
१६ ख
सञ्जय़ उवाच:
तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति |
१७ क
सञ्जय़ उवाच:
उच्छिष्टदर्पितः काको वहूनां दूरपातिनाम् ||
१७ ख
सञ्जय़ उवाच:
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् |
१८ क
सञ्जय़ उवाच:
तमाह्वय़त दुर्वुद्धिः पताम इति पक्षिणम् ||
१८ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः |
१९ क
सञ्जय़ उवाच:
भाषतो वहु काकस्य वलिनः पततां वराः |
१९ ख
सञ्जय़ उवाच:
इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः ||
१९ ग
सञ्जय़ उवाच:
वय़ं हंसाश्चरामेमां पृथिवीं मानसौकसः |
२० क
सञ्जय़ उवाच:
पक्षिणां च वय़ं नित्यं दूरपातेन पूजिताः ||
२० ख
सञ्जय़ उवाच:
कथं नु हंसं वलिनं वज्राङ्गं दूरपातिनम् |
२१ क
सञ्जय़ उवाच:
काको भूत्वा निपतने समाह्वय़सि दुर्मते |
२१ ख
सञ्जय़ उवाच:
कथं त्वं पतनं काक सहास्माभिर्व्रवीषि तत् ||
२१ ग
सञ्जय़ उवाच:
अथ हंसवचो मूढः कुत्सय़ित्वा पुनः पुनः |
२२ क
सञ्जय़ उवाच:
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ||
२२ ख
सञ्जय़ उवाच:
शतमेकं च पातानां पतितास्मि न संशय़ः |
२३ क
सञ्जय़ उवाच:
शतय़ोजनमेकैकं विचित्रं विविधं तथा ||
२३ ख
सञ्जय़ उवाच:
उड्डीनमवडीनं च प्रडीनं डीनमेव च |
२४ क
सञ्जय़ उवाच:
निडीनमथ सण्डीनं तिर्यक्चातिगतानि च ||
२४ ख
सञ्जय़ उवाच:
विडीनं परिडीनं च पराडीनं सुडीनकम् |
२५ क
सञ्जय़ उवाच:
अतिडीनं महाडीनं निडीनं परिडीनकम् ||
२५ ख
सञ्जय़ उवाच:
गतागतप्रतिगता वह्वीश्च निकुडीनिकाः |
२६ क
सञ्जय़ उवाच:
कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे वलम् ||
२६ ख
सञ्जय़ उवाच:
एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः |
२७ क
सञ्जय़ उवाच:
उवाच हंसस्तं काकं वचनं तन्निवोध मे ||
२७ ख
सञ्जय़ उवाच:
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् |
२८ क
सञ्जय़ उवाच:
एकमेव तु ये पातं विदुः सर्वे विहङ्गमाः ||
२८ ख
सञ्जय़ उवाच:
तमहं पतिता काक नान्यं जानामि कञ्चन |
२९ क
सञ्जय़ उवाच:
पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे ||
२९ ख
सञ्जय़ उवाच:
अथ काकाः प्रजहसुर्ये तत्रासन्समागताः |
३० क
सञ्जय़ उवाच:
कथमेकेन पातेन हंसः पातशतं जय़ेत् ||
३० ख
सञ्जय़ उवाच:
एकेनैव शतस्यैकं पातेनाभिभविष्यति |
३१ क
सञ्जय़ उवाच:
हंसस्य पतितं काको वलवानाशुविक्रमः ||
३१ ख
सञ्जय़ उवाच:
प्रपेततुः स्पर्धय़ाथ ततस्तौ हंसवाय़सौ |
३२ क
सञ्जय़ उवाच:
एकपाती च चक्राङ्गः काकः पातशतेन च ||
३२ ख
सञ्जय़ उवाच:
पेतिवानथ चक्राङ्गः पेतिवानथ वाय़सः |
३३ क
सञ्जय़ उवाच:
विसिस्मापय़िषुः पातैराचक्षाणोऽऽत्मनः क्रिय़ाम् ||
३३ ख
सञ्जय़ उवाच:
अथ काकस्य चित्राणि पतितानीतराणि च |
३४ क
सञ्जय़ उवाच:
दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः ||
३४ ख
सञ्जय़ उवाच:
हंसांश्चावहसन्ति स्म प्रावदन्नप्रिय़ाणि च |
३५ क
सञ्जय़ उवाच:
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ||
३५ ख
सञ्जय़ उवाच:
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च |
३६ क
सञ्जय़ उवाच:
कुर्वाणा विविधान्रावानाशंसन्तस्तदा जय़म् ||
३६ ख
सञ्जय़ उवाच:
हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे |
३७ क
सञ्जय़ उवाच:
प्रत्यहीय़त काकाच्च मुहूर्तमिव मारिष ||
३७ ख
सञ्जय़ उवाच:
अवमन्य रय़ं हंसानिदं वचनमव्रवीत् |
३८ क
सञ्जय़ उवाच:
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीय़ते ||
३८ ख
सञ्जय़ उवाच:
अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् |
३९ क
सञ्जय़ उवाच:
उपर्युपरि वेगेन सागरं वरुणालय़म् ||
३९ ख
सञ्जय़ उवाच:
ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् |
४० क
सञ्जय़ उवाच:
द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् |
४० ख
सञ्जय़ उवाच:
निपतेय़ं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ||
४० ग
सञ्जय़ उवाच:
अविषह्यः समुद्रो हि वहुसत्त्वगणालय़ः |
४१ क
सञ्जय़ उवाच:
महाभूतशतोद्भासी नभसोऽपि विशिष्यते ||
४१ ख
सञ्जय़ उवाच:
गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम |
४२ क
सञ्जय़ उवाच:
दिगम्वराम्भसां कर्ण समुद्रस्था हि दुर्जय़ाः |
४२ ख
सञ्जय़ उवाच:
विदूरपातात्तोय़स्य किं पुनः कर्ण वाय़सः ||
४२ ग
सञ्जय़ उवाच:
अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च |
४३ क
सञ्जय़ उवाच:
अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् |
४३ ख
सञ्जय़ उवाच:
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ||
४३ ग
सञ्जय़ उवाच:
तं तथा हीय़मानं च हंसो दृष्ट्वाव्रवीदिदम् |
४४ क
सञ्जय़ उवाच:
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ||
४४ ख
सञ्जय़ उवाच:
वहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः |
४५ क
सञ्जय़ उवाच:
पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे ||
४५ ख
सञ्जय़ उवाच:
किं नाम पतनं काक यत्त्वं पतसि साम्प्रतम् |
४६ क
सञ्जय़ उवाच:
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ||
४६ ख
सञ्जय़ उवाच:
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे |
४७ क
सञ्जय़ उवाच:
काको दृढं परिश्रान्तः सहसा निपपात ह ||
४७ ख