जनमेजय़ उवाच:
अत्यद्भुतमिदं व्रह्मञ्श्रुतवानस्मि तत्त्वतः |
१ क
जनमेजय़ उवाच:
अभिषेकं कुमारस्य विस्तरेण यथाविधि ||
१ ख
जनमेजय़ उवाच:
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन |
२ क
जनमेजय़ उवाच:
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ||
२ ख
जनमेजय़ उवाच:
अभिषेकं कुमारस्य दैत्यानां च वधं तथा |
३ क
जनमेजय़ उवाच:
श्रुत्वा मे परमा प्रीतिर्भूय़ः कौतूहलं हि मे ||
३ ख
जनमेजय़ उवाच:
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः |
४ क
जनमेजय़ उवाच:
तन्मे व्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ||
४ ख
वैशम्पाय़न उवाच:
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् |
५ क
वैशम्पाय़न उवाच:
आदौ कृतय़ुगे तस्मिन्वर्तमाने यथाविधि |
५ ख
वैशम्पाय़न उवाच:
वरुणं देवताः सर्वाः समेत्येदमथाव्रुवन् ||
५ ग
वैशम्पाय़न उवाच:
यथास्मान्सुरराट्शक्रो भय़ेभ्यः पाति सर्वदा |
६ क
वैशम्पाय़न उवाच:
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ||
६ ख
वैशम्पाय़न उवाच:
वासश्च ते सदा देव सागरे मकरालय़े |
७ क
वैशम्पाय़न उवाच:
समुद्रोऽय़ं तव वशे भविष्यति नदीपतिः ||
७ ख
वैशम्पाय़न उवाच:
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः |
८ क
वैशम्पाय़न उवाच:
एवमस्त्विति तान्देवान्वरुणो वाक्यमव्रवीत् ||
८ ख
वैशम्पाय़न उवाच:
समागम्य ततः सर्वे वरुणं सागरालय़म् |
९ क
वैशम्पाय़न उवाच:
अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ||
९ ख
वैशम्पाय़न उवाच:
अभिषिच्य ततो देवा वरुणं यादसां पतिम् |
१० क
वैशम्पाय़न उवाच:
जग्मुः स्वान्येव स्थानानि पूजय़ित्वा जलेश्वरम् ||
१० ख
वैशम्पाय़न उवाच:
अभिषिक्तस्ततो देवैर्वरुणोऽपि महाय़शाः |
११ क
वैशम्पाय़न उवाच:
सरितः सागरांश्चैव नदांश्चैव सरांसि च |
११ ख
वैशम्पाय़न उवाच:
पालय़ामास विधिना यथा देवाञ्शतक्रतुः ||
११ ग
वैशम्पाय़न उवाच:
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु |
१२ क
वैशम्पाय़न उवाच:
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्वहा |
१२ ख
वैशम्पाय़न उवाच:
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ||
१२ ग
वैशम्पाय़न उवाच:
लोकालोकविनाशे च प्रादुर्भूते तदानघ |
१३ क
वैशम्पाय़न उवाच:
उपतस्थुर्महात्मानं सर्वलोकपितामहम् ||
१३ ख
वैशम्पाय़न उवाच:
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे |
१४ क
वैशम्पाय़न उवाच:
सर्वलोकक्षय़ो मा भूत्सम्पादय़तु नोऽनलम् ||
१४ ख
जनमेजय़ उवाच:
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः |
१५ क
जनमेजय़ उवाच:
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ||
१५ ख
वैशम्पाय़न उवाच:
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् |
१६ क
वैशम्पाय़न उवाच:
शमीगर्भमथासाद्य ननाश भगवांस्ततः ||
१६ ख
वैशम्पाय़न उवाच:
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः |
१७ क
वैशम्पाय़न उवाच:
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ||
१७ ख
वैशम्पाय़न उवाच:
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि |
१८ क
वैशम्पाय़न उवाच:
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ||
१८ ख
वैशम्पाय़न उवाच:
देवाः सर्वे नरव्याघ्र वृहस्पतिपुरोगमाः |
१९ क
वैशम्पाय़न उवाच:
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः |
१९ ख
वैशम्पाय़न उवाच:
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ||
१९ ग
वैशम्पाय़न उवाच:
भृगोः शापान्महीपाल यदुक्तं व्रह्मवादिना |
२० क
वैशम्पाय़न उवाच:
तत्राप्याप्लुत्य मतिमान्व्रह्मय़ोनिं जगाम ह ||
२० ख
वैशम्पाय़न उवाच:
ससर्ज भगवान्यत्र सर्वलोकपितामहः |
२१ क
वैशम्पाय़न उवाच:
तत्राप्लुत्य ततो व्रह्मा सह देवैः प्रभुः पुरा |
२१ ख
वैशम्पाय़न उवाच:
ससर्ज चान्नानि तथा देवतानां यथाविधि ||
२१ ग
वैशम्पाय़न उवाच:
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च |
२२ क
वैशम्पाय़न उवाच:
कौवेरं प्रय़यौ तीर्थं तत्र तप्त्वा महत्तपः |
२२ ख
वैशम्पाय़न उवाच:
धनाधिपत्यं सम्प्राप्तो राजन्नैलविलः प्रभुः ||
२२ ग
वैशम्पाय़न उवाच:
तत्रस्थमेव तं राजन्धनानि निधय़स्तथा |
२३ क
वैशम्पाय़न उवाच:
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः |
२३ ख
वैशम्पाय़न उवाच:
गत्वा स्नात्वा च विधिवद्व्राह्मणेभ्यो धनं ददौ ||
२३ ग
वैशम्पाय़न उवाच:
ददृशे तत्र तत्स्थानं कौवेरे काननोत्तमे |
२४ क
वैशम्पाय़न उवाच:
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ||
२४ ख
वैशम्पाय़न उवाच:
यत्र राज्ञा कुवेरेण वरा लव्धाश्च पुष्कलाः |
२५ क
वैशम्पाय़न उवाच:
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ||
२५ ख
वैशम्पाय़न उवाच:
सुरत्वं लोकपालत्वं पुत्रं च नलकूवरम् |
२६ क
वैशम्पाय़न उवाच:
यत्र लेभे महावाहो धनाधिपतिरञ्जसा ||
२६ ख
वैशम्पाय़न उवाच:
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः |
२७ क
वैशम्पाय़न उवाच:
वाहनं चास्य तद्दत्तं हंसय़ुक्तं मनोरमम् |
२७ ख
वैशम्पाय़न उवाच:
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ||
२७ ग
वैशम्पाय़न उवाच:
तत्राप्लुत्य वलो राजन्दत्त्वा दाय़ांश्च पुष्कलान् |
२८ क
वैशम्पाय़न उवाच:
जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः ||
२८ ख
वैशम्पाय़न उवाच:
निषेवितं सर्वसत्त्वैर्नाम्ना वदरपाचनम् |
२९ क
वैशम्पाय़न उवाच:
नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ||
२९ ख