मार्कण्डेय़ उवाच:
अथ भार्यासहाय़ः स फलान्यादाय़ वीर्यवान् |
१ क
मार्कण्डेय़ उवाच:
कठिनं पूरय़ामास ततः काष्ठान्यपाटय़त् ||
१ ख
मार्कण्डेय़ उवाच:
तस्य पाटय़तः काष्ठं स्वेदो वै समजाय़त |
२ क
मार्कण्डेय़ उवाच:
व्याय़ामेन च तेनास्य जज्ञे शिरसि वेदना ||
२ ख
मार्कण्डेय़ उवाच:
सोऽभिगम्य प्रिय़ां भार्यामुवाच श्रमपीडितः |
३ क
मार्कण्डेय़ उवाच:
व्याय़ामेन ममानेन जाता शिरसि वेदना ||
३ ख
मार्कण्डेय़ उवाच:
अङ्गानि चैव सावित्रि हृदय़ं दूय़तीव च |
४ क
मार्कण्डेय़ उवाच:
अस्वस्थमिव चात्मानं लक्षय़े मितभाषिणि ||
४ ख
मार्कण्डेय़ उवाच:
शूलैरिव शिरो विद्धमिदं संलक्षय़ाम्यहम् |
५ क
मार्कण्डेय़ उवाच:
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ||
५ ख
मार्कण्डेय़ उवाच:
समासाद्याथ सावित्री भर्तारमुपगूह्य च |
६ क
मार्कण्डेय़ उवाच:
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ||
६ ख
मार्कण्डेय़ उवाच:
ततः सा नारदवचो विमृशन्ती तपस्विनी |
७ क
मार्कण्डेय़ उवाच:
तं मुहूर्तं क्षणं वेलां दिवसं च युय़ोज ह ||
७ ख
मार्कण्डेय़ उवाच:
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् |
८ क
मार्कण्डेय़ उवाच:
वद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ||
८ ख
मार्कण्डेय़ उवाच:
श्यामावदातं रक्ताक्षं पाशहस्तं भय़ावहम् |
९ क
मार्कण्डेय़ उवाच:
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ||
९ ख
मार्कण्डेय़ उवाच:
तं दृष्ट्वा सहसोत्थाय़ भर्तुर्न्यस्य शनैः शिरः |
१० क
मार्कण्डेय़ उवाच:
कृताञ्जलिरुवाचार्ता हृदय़ेन प्रवेपता ||
१० ख
मार्कण्डेय़ उवाच:
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् |
११ क
मार्कण्डेय़ उवाच:
कामय़ा व्रूहि मे देव कस्त्वं किं च चिकीर्षसि ||
११ ख
यम उवाच:
पतिव्रतासि सावित्रि तथैव च तपोन्विता |
१२ क
यम उवाच:
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ||
१२ ख
यम उवाच:
अय़ं ते सत्यवान्भर्ता क्षीणाय़ुः पार्थिवात्मजः |
१३ क
यम उवाच:
नेष्याम्येनमहं वद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ||
१३ ख
मार्कण्डेय़ उवाच:
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् |
१४ क
मार्कण्डेय़ उवाच:
यथावत्सर्वमाख्यातुं तत्प्रिय़ार्थं प्रचक्रमे ||
१४ ख
मार्कण्डेय़ उवाच:
अय़ं हि धर्मसंय़ुक्तो रूपवान्गुणसागरः |
१५ क
मार्कण्डेय़ उवाच:
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वय़मागतः ||
१५ ख
मार्कण्डेय़ उवाच:
ततः सत्यवतः काय़ात्पाशवद्धं वशं गतम् |
१६ क
मार्कण्डेय़ उवाच:
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो वलात् ||
१६ ख
मार्कण्डेय़ उवाच:
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् |
१७ क
मार्कण्डेय़ उवाच:
निर्विचेष्टं शरीरं तद्वभूवाप्रिय़दर्शनम् ||
१७ ख
मार्कण्डेय़ उवाच:
यमस्तु तं तथा वद्ध्वा प्रय़ातो दक्षिणामुखः |
१८ क
मार्कण्डेय़ उवाच:
सावित्री चापि दुःखार्ता यममेवान्वगच्छत |
१८ ख
मार्कण्डेय़ उवाच:
निय़मव्रतसंसिद्धा महाभागा पतिव्रता ||
१८ ग
यम उवाच:
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् |
१९ क
यम उवाच:
कृतं भर्तुस्त्वय़ानृण्यं यावद्गम्यं गतं त्वय़ा ||
१९ ख
सावित्र्यु उवाच:
यत्र मे नीय़ते भर्ता स्वय़ं वा यत्र गच्छति |
२० क
सावित्र्यु उवाच:
मय़ापि तत्र गन्तव्यमेष धर्मः सनातनः ||
२० ख
सावित्र्यु उवाच:
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च |
२१ क
सावित्र्यु उवाच:
तव चैव प्रसादेन न मे प्रतिहता गतिः ||
२१ ख
सावित्र्यु उवाच:
प्राहुः सप्तपदं मित्रं वुधास्तत्त्वार्थदर्शिनः |
२२ क
सावित्र्यु उवाच:
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ||
२२ ख
सावित्र्यु उवाच:
नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च |
२३ क
सावित्र्यु उवाच:
विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||
२३ ख
सावित्र्यु उवाच:
एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः |
२४ क
सावित्र्यु उवाच:
मा वै द्वितीय़ं मा तृतीय़ं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||
२४ ख
यम उवाच:
निवर्त तुष्टोऽस्मि तवानय़ा गिरा; स्वराक्षरव्यञ्जनहेतुय़ुक्तय़ा |
२५ क
यम उवाच:
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् ||
२५ ख
सावित्र्यु उवाच:
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे |
२६ क
सावित्र्यु उवाच:
स लव्धचक्षुर्वलवान्भवेन्नृप; स्तव प्रसादाज्ज्वलनार्कसंनिभः ||
२६ ख
यम उवाच:
ददानि ते सर्वमनिन्दिते वरं; यथा त्वय़ोक्तं भविता च तत्तथा |
२७ क
यम उवाच:
तवाध्वना ग्लानिमिवोपलक्षय़े; निवर्त गच्छस्व न ते श्रमो भवेत् ||
२७ ख
सावित्र्यु उवाच:
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा |
२८ क
सावित्र्यु उवाच:
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूय़श्च वचो निवोध मे ||
२८ ख
सावित्र्यु उवाच:
सतां सकृत्सङ्गतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते |
२९ क
सावित्र्यु उवाच:
न चाफलं सत्पुरुषेण सङ्गतं; ततः सतां संनिवसेत्समागमे ||
२९ ख
यम उवाच:
मनोनुकूलं वुधवुद्धिवर्धनं; त्वय़ाहमुक्तो वचनं हिताश्रय़म् |
३० क
यम उवाच:
विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीय़ं वरय़स्व भामिनि ||
३० ख
सावित्र्यु उवाच:
हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः |
३१ क
सावित्र्यु उवाच:
जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीय़मेतं वरय़ामि ते वरम् ||
३१ ख
यम उवाच:
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा; न्न च स्वधर्मात्परिहास्यते नृपः |
३२ क
यम उवाच:
कृतेन कामेन मय़ा नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् ||
३२ ख
सावित्र्यु उवाच:
प्रजास्त्वय़ेमा निय़मेन संय़ता; निय़म्य चैता नय़से न कामय़ा |
३३ क
सावित्र्यु उवाच:
अतो यमत्वं तव देव विश्रुतं; निवोध चेमां गिरमीरितां मय़ा ||
३३ ख
सावित्र्यु उवाच:
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |
३४ क
सावित्र्यु उवाच:
अनुग्रहश्च दानं च सतां धर्मः सनातनः ||
३४ ख
सावित्र्यु उवाच:
एवम्प्राय़श्च लोकोऽय़ं मनुष्याः शक्तिपेशलाः |
३५ क
सावित्र्यु उवाच:
सन्तस्त्वेवाप्यमित्रेषु दय़ां प्राप्तेषु कुर्वते ||
३५ ख
यम उवाच:
पिपासितस्येव यथा भवेत्पय़; स्तथा त्वय़ा वाक्यमिदं समीरितम् |
३६ क
यम उवाच:
विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि ||
३६ ख
सावित्र्यु उवाच:
ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् |
३७ क
सावित्र्यु उवाच:
कुलस्य सन्तानकरं च यद्भवे; त्तृतीय़मेतं वरय़ामि ते वरम् ||
३७ ख
यम उवाच:
कुलस्य सन्तानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे |
३८ क
यम उवाच:
कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||
३८ ख
सावित्र्यु उवाच:
न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति |
३९ क
सावित्र्यु उवाच:
तथा व्रजन्नेव गिरं समुद्यतां; मय़ोच्यमानां शृणु भूय़ एव च ||
३९ ख
सावित्र्यु उवाच:
विवस्वतस्त्वं तनय़ः प्रतापवां; स्ततो हि वैवस्वत उच्यसे वुधैः |
४० क
सावित्र्यु उवाच:
शमेन धर्मेण च रञ्जिताः प्रजा; स्ततस्तवेहेश्वर धर्मराजता ||
४० ख
सावित्र्यु उवाच:
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः |
४१ क
सावित्र्यु उवाच:
तस्मात्सत्सु विशेषेण सर्वः प्रणय़मिच्छति ||
४१ ख
सावित्र्यु उवाच:
सौहृदात्सर्वभूतानां विश्वासो नाम जाय़ते |
४२ क
सावित्र्यु उवाच:
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ||
४२ ख
यम उवाच:
उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मय़ा श्रुतम् |
४३ क
यम उवाच:
अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरय़स्व गच्छ च ||
४३ ख
सावित्र्यु उवाच:
ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् |
४४ क
सावित्र्यु उवाच:
शतं सुतानां वलवीर्यशालिना; मिदं चतुर्थं वरय़ामि ते वरम् ||
४४ ख
यम उवाच:
शतं सुतानां वलवीर्यशालिनां; भविष्यति प्रीतिकरं तवावले |
४५ क
यम उवाच:
परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||
४५ ख
सावित्र्यु उवाच:
सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति |
४६ क
सावित्र्यु उवाच:
सतां सद्भिर्नाफलः सङ्गमोऽस्ति; सद्भ्यो भय़ं नानुवर्तन्ति सन्तः ||
४६ ख
सावित्र्यु उवाच:
सन्तो हि सत्येन नय़न्ति सूर्यं; सन्तो भूमिं तपसा धारय़न्ति |
४७ क
सावित्र्यु उवाच:
सन्तो गतिर्भूतभव्यस्य राज; न्सतां मध्ये नावसीदन्ति सन्तः ||
४७ ख
सावित्र्यु उवाच:
आर्यजुष्टमिदं वृत्तमिति विज्ञाय़ शाश्वतम् |
४८ क
सावित्र्यु उवाच:
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रिय़ाम् ||
४८ ख
सावित्र्यु उवाच:
न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः |
४९ क
सावित्र्यु उवाच:
यस्मादेतन्निय़तं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति ||
४९ ख
यम उवाच:
यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् |
५० क