मार्कण्डेय़ उवाच:
एतस्मिन्नेव काले तु द्युमत्सेनो महावने |
१ क
मार्कण्डेय़ उवाच:
लव्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ||
१ ख
मार्कण्डेय़ उवाच:
स सर्वानाश्रमान्गत्वा शैव्यया सह भार्यया |
२ क
मार्कण्डेय़ उवाच:
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ||
२ ख
मार्कण्डेय़ उवाच:
तावाश्रमान्नदीश्चैव वनानि च सरांसि च |
३ क
मार्कण्डेय़ उवाच:
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ||
३ ख
मार्कण्डेय़ उवाच:
श्रुत्वा शव्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कय़ा |
४ क
मार्कण्डेय़ उवाच:
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ||
४ ख
मार्कण्डेय़ उवाच:
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः |
५ क
मार्कण्डेय़ उवाच:
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ||
५ ख
मार्कण्डेय़ उवाच:
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः |
६ क
मार्कण्डेय़ उवाच:
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ||
६ ख
मार्कण्डेय़ उवाच:
तत्र भार्यासहाय़ः स वृतो वृद्धैस्तपोधनैः |
७ क
मार्कण्डेय़ उवाच:
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रय़ैः ||
७ ख
मार्कण्डेय़ उवाच:
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षय़ा |
८ क
मार्कण्डेय़ उवाच:
वाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ||
८ ख
मार्कण्डेय़ उवाच:
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ |
९ क
मार्कण्डेय़ उवाच:
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ||
९ ख
सुवर्चा उवाच:
यथास्य भार्या सावित्री तपसा च दमेन च |
१० क
सुवर्चा उवाच:
आचारेण च संय़ुक्ता तथा जीवति सत्यवान् ||
१० ख
गौतम उवाच:
वेदाः साङ्गा मय़ाधीतास्तपो मे सञ्चितं महत् |
११ क
गौतम उवाच:
कौमारं व्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ||
११ ख
गौतम उवाच:
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे |
१२ क
गौतम उवाच:
वाय़ुभक्षोपवासश्च कुशलानि च यानि मे ||
१२ ख
गौतम उवाच:
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् |
१३ क
गौतम उवाच:
सत्यमेतन्निवोध त्वं ध्रिय़ते सत्यवानिति ||
१३ ख
शिष्य उवाच:
उपाध्याय़स्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् |
१४ क
शिष्य उवाच:
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ||
१४ ख
ऋषय़ ऊचुः:
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः |
१५ क
ऋषय़ ऊचुः:
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ||
१५ ख
भारद्वाज उवाच:
यथास्य भार्या सावित्री तपसा च दमेन च |
१६ क
भारद्वाज उवाच:
आचारेण च संय़ुक्ता तथा जीवति सत्यवान् ||
१६ ख
दाल्भ्य उवाच:
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् |
१७ क
दाल्भ्य उवाच:
गताहारमकृत्वा च तथा जीवति सत्यवान् ||
१७ ख
माण्डव्य उवाच:
यथा वदन्ति शान्ताय़ां दिशि वै मृगपक्षिणः |
१८ क
माण्डव्य उवाच:
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ||
१८ ख
धौम्य उवाच:
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रिय़ः |
१९ क
धौम्य उवाच:
दीर्घाय़ुर्लक्षणोपेतस्तथा जीवति सत्यवान् ||
१९ ख
मार्कण्डेय़ उवाच:
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः |
२० क
मार्कण्डेय़ उवाच:
तांस्तान्विगणय़न्नर्थानवस्थित इवाभवत् ||
२० ख
मार्कण्डेय़ उवाच:
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह |
२१ क
मार्कण्डेय़ उवाच:
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ||
२१ ख
व्राह्मणा ऊचुः:
पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च |
२२ क
व्राह्मणा ऊचुः:
सर्वे वय़ं वै पृच्छामो वृद्धिं ते पृथिवीपते ||
२२ ख
व्राह्मणा ऊचुः:
समागमेन पुत्रस्य सावित्र्या दर्शनेन च |
२३ क
व्राह्मणा ऊचुः:
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ||
२३ ख
व्राह्मणा ऊचुः:
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशय़ः |
२४ क
व्राह्मणा ऊचुः:
भूय़ो भूय़श्च वृद्धिस्ते क्षिप्रमेव भविष्यति ||
२४ ख
मार्कण्डेय़ उवाच:
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि |
२५ क
मार्कण्डेय़ उवाच:
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ||
२५ ख
मार्कण्डेय़ उवाच:
शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः |
२६ क
मार्कण्डेय़ उवाच:
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ||
२६ ख
मार्कण्डेय़ उवाच:
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः |
२७ क
मार्कण्डेय़ उवाच:
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ||
२७ ख
मार्कण्डेय़ उवाच:
प्रागेव नागतं कस्मात्सभार्येण त्वय़ा विभो |
२८ क
मार्कण्डेय़ उवाच:
विरात्रे चागतं कस्मात्कोऽनुवन्धश्च तेऽभवत् ||
२८ ख
मार्कण्डेय़ उवाच:
सन्तापितः पिता माता वय़ं चैव नृपात्मज |
२९ क
मार्कण्डेय़ उवाच:
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ||
२९ ख
सत्यवानु उवाच:
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः |
३० क
सत्यवानु उवाच:
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ||
३० ख
सत्यवानु उवाच:
सुप्तश्चाहं वेदनय़ा चिरमित्युपलक्षय़े |
३१ क
सत्यवानु उवाच:
तावत्कालं च न मय़ा सुप्तपूर्वं कदाचन ||
३१ ख
सत्यवानु उवाच:
सर्वेषामेव भवतां सन्तापो मा भवेदिति |
३२ क
सत्यवानु उवाच:
अतो विरात्रागमनं नान्यदस्तीह कारणम् ||
३२ ख
गौतम उवाच:
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः |
३३ क
गौतम उवाच:
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ||
३३ ख
गौतम उवाच:
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् |
३४ क
गौतम उवाच:
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ||
३४ ख
गौतम उवाच:
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् |
३५ क
गौतम उवाच:
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ||
३५ ख
सावित्र्यु उवाच:
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः |
३६ क
सावित्र्यु उवाच:
न च किञ्चिद्रहस्यं मे श्रूय़तां तथ्यमत्र यत् ||
३६ ख
सावित्र्यु उवाच:
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना |
३७ क
सावित्र्यु उवाच:
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ||
३७ ख
सावित्र्यु उवाच:
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः |
३८ क
सावित्र्यु उवाच:
स एनमनय़द्वद्ध्वा दिशं पितृनिषेविताम् ||
३८ ख
सावित्र्यु उवाच:
अस्तौषं तमहं देवं सत्येन वचसा विभुम् |
३९ क
सावित्र्यु उवाच:
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ||
३९ ख
सावित्र्यु उवाच:
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे |
४० क
सावित्र्यु उवाच:
लव्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ||
४० ख
सावित्र्यु उवाच:
चतुर्वर्षशताय़ुर्मे भर्ता लव्धश्च सत्यवान् |
४१ क
सावित्र्यु उवाच:
भर्तुर्हि जीवितार्थं तु मय़ा चीर्णं स्थिरं व्रतम् ||
४१ ख
सावित्र्यु उवाच:
एतत्सत्यं मय़ाख्यातं कारणं विस्तरेण वः |
४२ क
सावित्र्यु उवाच:
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ||
४२ ख
ऋषय़ ऊचुः:
निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमय़े ह्रदे |
४३ क
ऋषय़ ऊचुः:
त्वय़ा सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनय़ा ||
४३ ख
मार्कण्डेय़ उवाच:
तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रिय़ं तामृषय़ः समागताः |
४४ क
मार्कण्डेय़ उवाच:
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालय़म् ||
४४ ख