chevron_left वन पर्व अध्याय २०३
मार्कण्डेय़ उवाच:
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत |
१ क
मार्कण्डेय़ उवाच:
व्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ||
१ ख
व्राह्मण उवाच:
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् |
२ क
व्राह्मण उवाच:
गुणांस्तत्त्वेन मे व्रूहि यथावदिह पृच्छतः ||
२ ख
व्याध उवाच:
हन्त ते कथय़िष्यामि यन्मां त्वं परिपृच्छसि |
३ क
व्याध उवाच:
एषां गुणान्पृथक्त्वेन निवोध गदतो मम ||
३ ख
व्याध उवाच:
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् |
४ क
व्याध उवाच:
प्रकाशवहुलत्वाच्च सत्त्वं ज्याय़ इहोच्यते ||
४ ख
व्याध उवाच:
अविद्यावहुलो मूढः स्वप्नशीलो विचेतनः |
५ क
व्याध उवाच:
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः ||
५ ख
व्याध उवाच:
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूय़कः |
६ क
व्याध उवाच:
विवित्समानो विप्रर्षे स्तव्धो मानी स राजसः ||
६ ख
व्याध उवाच:
प्रकाशवहुलो धीरो निर्विवित्सोऽनसूय़कः |
७ क
व्याध उवाच:
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ||
७ ख
व्याध उवाच:
सात्त्विकस्त्वथ सम्वुद्धो लोकवृत्तेन क्लिश्यते |
८ क
व्याध उवाच:
यदा वुध्यति वोद्धव्यं लोकवृत्तं जुगुप्सते ||
८ ख
व्याध उवाच:
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते |
९ क
व्याध उवाच:
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् ||
९ ख
व्याध उवाच:
ततोऽस्य सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम् |
१० क
व्याध उवाच:
न चास्य संय़मो नाम क्वचिद्भवति कश्चन ||
१० ख
व्याध उवाच:
शूद्रय़ोनौ हि जातस्य सद्गुणानुपतिष्ठतः |
११ क
व्याध उवाच:
वैश्यत्वं भवति व्रह्मन्क्षत्रिय़त्वं तथैव च ||
११ ख
व्याध उवाच:
आर्जवे वर्तमानस्य व्राह्मण्यमभिजाय़ते |
१२ क
व्याध उवाच:
गुणास्ते कीर्तिताः सर्वे किं भूय़ः श्रोतुमिच्छसि ||
१२ ख
व्राह्मण उवाच:
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् |
१३ क
व्राह्मण उवाच:
अवकाशविशेषेण कथं वर्तय़तेऽनिलः ||
१३ ख
मार्कण्डेय़ उवाच:
प्रश्नमेतं समुद्दिष्टं व्राह्मणेन युधिष्ठिर |
१४ क
मार्कण्डेय़ उवाच:
व्याधः स कथय़ामास व्राह्मणाय़ महात्मने ||
१४ ख
व्याध उवाच:
मूर्धानमाश्रितो वह्निः शरीरं परिपालय़न् |
१५ क
व्याध उवाच:
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते |
१५ ख
व्याध उवाच:
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ||
१५ ग
व्याध उवाच:
श्रेष्ठं तदेव भूतानां व्रह्मज्योतिरुपास्महे |
१६ क
व्याध उवाच:
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः |
१६ ख
व्याध उवाच:
मनो वुद्धिरहङ्कारो भूतानां विषय़श्च सः ||
१६ ग
व्याध उवाच:
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते |
१७ क
व्याध उवाच:
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ||
१७ ख
व्याध उवाच:
वस्तिमूले गुदे चैव पावकः समुपाश्रितः |
१८ क
व्याध उवाच:
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ||
१८ ख
व्याध उवाच:
प्रय़त्ने कर्मणि वले य एकस्त्रिषु वर्तते |
१९ क
व्याध उवाच:
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ||
१९ ख
व्याध उवाच:
सन्धौ सन्धौ संनिविष्टः सर्वेष्वपि तथानिलः |
२० क
व्याध उवाच:
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते ||
२० ख
व्याध उवाच:
धातुष्वग्निस्तु विततः स तु वाय़ुसमीरितः |
२१ क
व्याध उवाच:
रसान्धातूंश्च दोषांश्च वर्तय़न्परिधावति ||
२१ ख
व्याध उवाच:
प्राणानां संनिपातात्तु संनिपातः प्रजाय़ते |
२२ क
व्याध उवाच:
ऊष्मा चाग्निरिति ज्ञेय़ो योऽन्नं पचति देहिनाम् ||
२२ ख
व्याध उवाच:
अपानोदानय़ोर्मध्ये प्राणव्यानौ समाहितौ |
२३ क
व्याध उवाच:
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ||
२३ ख
व्याध उवाच:
तस्यापि पाय़ुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः |
२४ क
व्याध उवाच:
स्रोतांसि तस्माज्जाय़न्ते सर्वप्राणेषु देहिनाम् ||
२४ ख
व्याध उवाच:
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते |
२५ क
व्याध उवाच:
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ||
२५ ख
व्याध उवाच:
पक्वाशय़स्त्वधो नाभ्या ऊर्ध्वमामाशय़ः स्थितः |
२६ क
व्याध उवाच:
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ||
२६ ख
व्याध उवाच:
प्रवृत्ता हृदय़ात्सर्वास्तिर्यगूर्ध्वमधस्तथा |
२७ क
व्याध उवाच:
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ||
२७ ख
व्याध उवाच:
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् |
२८ क
व्याध उवाच:
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः |
२८ ख
व्याध उवाच:
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ||
२८ ग
व्याध उवाच:
एकादशविकारात्मा कलासम्भारसम्भृतः |
२९ क
व्याध उवाच:
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ||
२९ ख
व्याध उवाच:
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः |
३० क
व्याध उवाच:
आत्मानं तं विजानीहि नित्यं योगजितात्मकम् ||
३० ख
व्याध उवाच:
देवो यः संस्थितस्तस्मिन्नव्विन्दुरिव पुष्करे |
३१ क
व्याध उवाच:
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ||
३१ ख
व्याध उवाच:
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा |
३२ क
व्याध उवाच:
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् ||
३२ ख
व्याध उवाच:
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टय़ते च सर्वम् |
३३ क
व्याध उवाच:
ततः परं क्षेत्रविदो वदन्ति; प्राकल्पय़द्यो भुवनानि सप्त ||
३३ ख
व्याध उवाच:
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते |
३४ क
व्याध उवाच:
दृश्यते त्वग्र्यया वुद्ध्या सूक्ष्मय़ा ज्ञानवेदिभिः ||
३४ ख
व्याध उवाच:
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् |
३५ क
व्याध उवाच:
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ||
३५ ख
व्याध उवाच:
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् |
३६ क
व्याध उवाच:
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ||
३६ ख
व्याध उवाच:
पूर्वरात्रे परे चैव युञ्जानः सततं मनः |
३७ क
व्याध उवाच:
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ||
३७ ख
व्याध उवाच:
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति |
३८ क
व्याध उवाच:
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ||
३८ ख
व्याध उवाच:
सर्वोपाय़ैस्तु लोभस्य क्रोधस्य च विनिग्रहः |
३९ क
व्याध उवाच:
एतत्पवित्रं यज्ञानां तपो वै सङ्क्रमो मतः ||
३९ ख
व्याध उवाच:
नित्यं क्रोधात्तपो रक्षेच्छ्रिय़ं रक्षेत मत्सरात् |
४० क
व्याध उवाच:
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ||
४० ख
व्याध उवाच:
आनृशंस्यं परो धर्मः क्षमा च परमं वलम् |
४१ क
व्याध उवाच:
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ||
४१ ख
व्याध उवाच:
सत्यस्य वचनं श्रेय़ः सत्यं ज्ञानं हितं भवेत् |
४२ क
व्याध उवाच:
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ||
४२ ख
व्याध उवाच:
यस्य सर्वे समारम्भाः निराशीर्वन्धनाः सदा |
४३ क
व्याध उवाच:
त्यागे यस्य हुतं सर्वं स त्यागी स च वुद्धिमान् ||
४३ ख
व्याध उवाच:
यतो न गुरुरप्येनं च्यावय़ेदुपपादय़न् |
४४ क
व्याध उवाच:
तं विद्याद्व्रह्मणो योगं विय़ोगं योगसञ्ज्ञितम् ||
४४ ख
व्याध उवाच:
न हिंस्यात्सर्वभूतानि मैत्राय़णगतश्चरेत् |
४५ क
व्याध उवाच:
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ||
४५ ख
व्याध उवाच:
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् |
४६ क
व्याध उवाच:
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ||
४६ ख
व्याध उवाच:
परिग्रहं परित्यज्य भव वुद्ध्या यतव्रतः |
४७ क
व्याध उवाच:
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च ||
४७ ख
व्याध उवाच:
तपोनित्येन दान्तेन मुनिना संय़तात्मना |
४८ क
व्याध उवाच:
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ||
४८ ख
व्याध उवाच:
गुणागुणमनासङ्गमेककार्यमनन्तरम् |
४९ क