chevron_left द्रोण पर्व अध्याय ११२
सञ्जय़ उवाच:
भीमसेनस्य राधेय़ः श्रुत्वा ज्यातलनिस्वनम् |
१ क
सञ्जय़ उवाच:
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ||
१ ख
सञ्जय़ उवाच:
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् |
२ क
सञ्जय़ उवाच:
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ||
२ ख
सञ्जय़ उवाच:
भीमसेनेन निहतान्विमना दुःखितोऽभवत् |
३ क
सञ्जय़ उवाच:
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ||
३ ख
सञ्जय़ उवाच:
स ताम्रनय़नः क्रोधाच्छ्वसन्निव महोरगः |
४ क
सञ्जय़ उवाच:
वभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ||
४ ख
सञ्जय़ उवाच:
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ |
५ क
सञ्जय़ उवाच:
कर्णचापच्युतैर्वाणैः प्राच्छाद्यत वृकोदरः ||
५ ख
सञ्जय़ उवाच:
कर्णचापच्युताश्चित्राः शरा वर्हिणवाससः |
६ क
सञ्जय़ उवाच:
विविशुः सर्वतः पार्थं वासाय़ेवाण्डजा द्रुमम् ||
६ ख
सञ्जय़ उवाच:
कर्णचापच्युता वाणाः सम्पतन्तस्ततस्ततः |
७ क
सञ्जय़ उवाच:
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ||
७ ख
सञ्जय़ उवाच:
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् |
८ क
सञ्जय़ उवाच:
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ||
८ ख
सञ्जय़ उवाच:
खं पूरय़न्महावेगान्खगमान्खगवाससः |
९ क
सञ्जय़ उवाच:
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ||
९ ख
सञ्जय़ उवाच:
तमन्तकमिवाय़स्तमापतन्तं वृकोदरः |
१० क
सञ्जय़ उवाच:
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ||
१० ख
सञ्जय़ उवाच:
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः |
११ क
सञ्जय़ उवाच:
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ||
११ ख
सञ्जय़ उवाच:
ततो विधम्याधिरथेः शरजालानि पाण्डवः |
१२ क
सञ्जय़ उवाच:
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ||
१२ ख
सञ्जय़ उवाच:
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः |
१३ क
सञ्जय़ उवाच:
तथैव कर्णं समरे छादय़ामास पाण्डवः ||
१३ ख
सञ्जय़ उवाच:
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत |
१४ क
सञ्जय़ उवाच:
अभ्यनन्दंस्त्वदीय़ाश्च सम्प्रहृष्टाश्च चारणाः ||
१४ ख
सञ्जय़ उवाच:
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जय़द्रथः |
१५ क
सञ्जय़ उवाच:
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ||
१५ ख
सञ्जय़ उवाच:
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः |
१६ क
सञ्जय़ उवाच:
साधु साध्विति वेगेन सिंहनादमथानदन् ||
१६ ख
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले शव्दे प्रवृत्ते लोमहर्षणे |
१७ क
सञ्जय़ उवाच:
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ||
१७ ख
सञ्जय़ उवाच:
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः |
१८ क
सञ्जय़ उवाच:
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ||
१८ ख
सञ्जय़ उवाच:
पुरा निघ्नन्ति राधेय़ं भीमचापच्युताः शराः |
१९ क
सञ्जय़ उवाच:
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ||
१९ ख
सञ्जय़ उवाच:
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष |
२० क
सञ्जय़ उवाच:
भीमसेनमभिद्रुत्य संरव्धाः पर्यवारय़न् ||
२० ख
सञ्जय़ उवाच:
ते समासाद्य कौन्तेय़मावृण्वञ्शरवृष्टिभिः |
२१ क
सञ्जय़ उवाच:
पर्वतं वारिधाराभिः प्रावृषीव वलाहकाः ||
२१ ख
सञ्जय़ उवाच:
तेऽपीडय़न्भीमसेनं क्रुद्धाः सप्त महारथाः |
२२ क
सञ्जय़ उवाच:
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ||
२२ ख
सञ्जय़ उवाच:
ततो वामेन कौन्तेय़ः पीडय़ित्वा शरासनम् |
२३ क
सञ्जय़ उवाच:
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ||
२३ ख
सञ्जय़ उवाच:
मनुष्यसमतां ज्ञात्वा सप्त सन्धाय़ साय़कान् |
२४ क
सञ्जय़ उवाच:
तेभ्यो व्यसृजदाय़स्तः सूर्यरश्मिनिभान्प्रभुः ||
२४ ख
सञ्जय़ उवाच:
निरस्यन्निव देहेभ्यस्तनय़ानामसूंस्तव |
२५ क
सञ्जय़ उवाच:
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ||
२५ ख
सञ्जय़ उवाच:
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् |
२६ क
सञ्जय़ उवाच:
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ||
२६ ख
सञ्जय़ उवाच:
तेषां विदार्य चेतांसि शरा हेमविभूषिताः |
२७ क
सञ्जय़ उवाच:
व्यराजन्त महाराज सुपर्णा इव खेचराः ||
२७ ख
सञ्जय़ उवाच:
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः |
२८ क
सञ्जय़ उवाच:
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ||
२८ ख
सञ्जय़ उवाच:
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ |
२९ क
सञ्जय़ उवाच:
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ||
२९ ख
सञ्जय़ उवाच:
शत्रुञ्जय़ः शत्रुसहश्चित्रश्चित्राय़ुधो दृढः |
३० क
सञ्जय़ उवाच:
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ||
३० ख
सञ्जय़ उवाच:
तान्निहत्य महावाहू राधेय़स्यैव पश्यतः |
३१ क
सञ्जय़ उवाच:
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ||
३१ ख
सञ्जय़ उवाच:
स रवस्तस्य शूरस्य धर्मराजस्य भारत |
३२ क
सञ्जय़ उवाच:
आचख्याविव तद्युद्धं विजय़ं चात्मनो महत् ||
३२ ख
सञ्जय़ उवाच:
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः |
३३ क
सञ्जय़ उवाच:
वभूव परमा प्रीतिर्धर्मराजस्य संय़ुगे ||
३३ ख
सञ्जय़ उवाच:
ततो हृष्टो महाराज वादित्राणां महास्वनैः |
३४ क
सञ्जय़ उवाच:
भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ||
३४ ख
सञ्जय़ उवाच:
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् |
३५ क
सञ्जय़ उवाच:
हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे ||
३५ ख
सञ्जय़ उवाच:
एकत्रिंशन्महाराज पुत्रांस्तव महारथान् |
३६ क
सञ्जय़ उवाच:
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ||
३६ ख
सञ्जय़ उवाच:
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः |
३७ क
सञ्जय़ उवाच:
इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ||
३७ ख
सञ्जय़ उवाच:
यद्द्यूतकाले दुर्वुद्धिरव्रवीत्तनय़स्तव |
३८ क
सञ्जय़ उवाच:
यच्च कर्णोऽव्रवीत्कृष्णां सभाय़ां परुषं वचः ||
३८ ख
सञ्जय़ उवाच:
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते |
३९ क
सञ्जय़ उवाच:
कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ||
३९ ख
सञ्जय़ उवाच:
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः |
४० क
सञ्जय़ उवाच:
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ||
४० ख
सञ्जय़ उवाच:
यत्स्म तां परुषाण्याहुः सभामानाय़्य द्रौपदीम् |
४१ क
सञ्जय़ उवाच:
पाण्डवानुग्रधनुषः क्रोधय़न्तस्तवात्मजाः ||
४१ ख
सञ्जय़ उवाच:
तं भीमसेनः क्रोधाग्निं त्रय़ोदश समाः स्थितम् |
४२ क
सञ्जय़ उवाच:
विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ||
४२ ख
सञ्जय़ उवाच:
विलपंश्च वहु क्षत्ता शमं नालभत त्वय़ि |
४३ क
सञ्जय़ उवाच:
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदय़म् |
४३ ख
सञ्जय़ उवाच:
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ||
४३ ग
सञ्जय़ उवाच:
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् |
४४ क
सञ्जय़ उवाच:
यान्यांश्च ददृशे भीमश्चक्षुर्विषय़मागतान् |
४४ ख
सञ्जय़ उवाच:
पुत्रांस्तव महावाहो त्वरय़ा ताञ्जघान ह ||
४४ ग
सञ्जय़ उवाच:
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् |
४५ क
सञ्जय़ उवाच:
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ||
४५ ख