सञ्जय़ उवाच:
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः |
१ क
सञ्जय़ उवाच:
त्वरमाणा महाराज युय़ुधानमय़ोधय़न् ||
१ ख
सञ्जय़ उवाच:
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः |
२ क
सञ्जय़ उवाच:
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ||
२ ख
सञ्जय़ उवाच:
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः |
३ क
सञ्जय़ उवाच:
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ||
३ ख
सञ्जय़ उवाच:
दुर्मुखो दशभिर्वाणैस्तथा दुःशासनोऽष्टभिः |
४ क
सञ्जय़ उवाच:
चित्रसेनश्च शैनेय़ं द्वाभ्यां विव्याध मारिष ||
४ ख
सञ्जय़ उवाच:
दुर्योधनश्च महता शरवर्षेण माधवम् |
५ क
सञ्जय़ उवाच:
अपीडय़द्रणे राजञ्शूराश्चान्ये महारथाः ||
५ ख
सञ्जय़ उवाच:
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः |
६ क
सञ्जय़ उवाच:
तान्प्रत्यविध्यच्छैनेय़ः पृथक्पृथगजिह्मगैः ||
६ ख
सञ्जय़ उवाच:
भारद्वाजं त्रिभिर्वाणैर्दुःसहं नवभिस्तथा |
७ क
सञ्जय़ उवाच:
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ||
७ ख
सञ्जय़ उवाच:
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् |
८ क
सञ्जय़ उवाच:
सत्यव्रतं च नवभिर्विजय़ं दशभिः शरैः ||
८ ख
सञ्जय़ उवाच:
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः |
९ क
सञ्जय़ उवाच:
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ||
९ ख
सञ्जय़ उवाच:
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् |
१० क
सञ्जय़ उवाच:
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तय़ोः ||
१० ख
सञ्जय़ उवाच:
विमुञ्चन्तौ शरांस्तीक्ष्णान्सन्दधानौ च साय़कान् |
११ क
सञ्जय़ उवाच:
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ||
११ ख
सञ्जय़ उवाच:
सात्यकिः कुरुराजेन निर्विद्धो वह्वशोभत |
१२ क
सञ्जय़ उवाच:
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ||
१२ ख
सञ्जय़ उवाच:
सात्वतेन च वाणौघैर्निर्विद्धस्तनय़स्तव |
१३ क
सञ्जय़ उवाच:
शातकुम्भमय़ापीडो वभौ यूप इवोच्छ्रितः ||
१३ ख
सञ्जय़ उवाच:
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः |
१४ क
सञ्जय़ उवाच:
धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव |
१४ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं शरैर्वहुभिराचिनोत् ||
१४ ग
सञ्जय़ उवाच:
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा |
१५ क
सञ्जय़ उवाच:
नामृष्यत रणे राजा शत्रोर्विजय़लक्षणम् ||
१५ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ हेमपृष्ठं दुरासदम् |
१६ क
सञ्जय़ उवाच:
विव्याध सात्यकिं तूर्णं साय़कानां शतेन ह ||
१६ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता पुत्रेण तव धन्विना |
१७ क
सञ्जय़ उवाच:
अमर्षवशमापन्नस्तव पुत्रमपीडय़त् ||
१७ ख
सञ्जय़ उवाच:
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः |
१८ क
सञ्जय़ उवाच:
सात्वतं शरवर्षेण छादय़ामासुरञ्जसा ||
१८ ख
सञ्जय़ उवाच:
स छाद्यमानो वहुभिस्तव पुत्रैर्महारथैः |
१९ क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||
१९ ख
सञ्जय़ उवाच:
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः |
२० क
सञ्जय़ उवाच:
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ||
२० ख
सञ्जय़ उवाच:
नागं मणिमय़ं चैव शरैर्ध्वजमपातय़त् |
२१ क
सञ्जय़ उवाच:
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः |
२१ ख
सञ्जय़ उवाच:
सारथिं पातय़ामास क्षुरप्रेण महाय़शाः ||
२१ ग
सञ्जय़ उवाच:
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् |
२२ क
सञ्जय़ उवाच:
अवाकिरच्छरैर्हृष्टो वहुभिर्मर्मभेदिभिः ||
२२ ख
सञ्जय़ उवाच:
स वध्यमानः समरे शैनेय़स्य शरोत्तमैः |
२३ क
सञ्जय़ उवाच:
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव |
२३ ख
सञ्जय़ उवाच:
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ||
२३ ग
सञ्जय़ उवाच:
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे |
२४ क
सञ्जय़ उवाच:
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ||
२४ ख
सञ्जय़ उवाच:
तं तु शव्दं महच्छ्रुत्वा कृतवर्मा महारथः |
२५ क
सञ्जय़ उवाच:
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ||
२५ ख
सञ्जय़ उवाच:
विधुन्वानो धनुःश्रेष्ठं चोदय़ंश्चैव वाजिनः |
२६ क
सञ्जय़ उवाच:
भर्त्सय़न्सारथिं चोग्रं याहि याहीति सत्वरः ||
२६ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् |
२७ क
सञ्जय़ उवाच:
युय़ुधानो महाराज यन्तारमिदमव्रवीत् ||
२७ ख
सञ्जय़ उवाच:
कृतवर्मा रथेनैष द्रुतमापतते शरी |
२८ क
सञ्जय़ उवाच:
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ||
२८ ख
सञ्जय़ उवाच:
ततः प्रजविताश्वेन विधिवत्कल्पितेन च |
२९ क
सञ्जय़ उवाच:
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ||
२९ ख
सञ्जय़ उवाच:
ततः परमसङ्क्रुद्धौ ज्वलन्ताविव पावकौ |
३० क
सञ्जय़ उवाच:
समेय़ातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ||
३० ख
सञ्जय़ उवाच:
कृतवर्मा तु शैनेय़ं षड्विंशत्या समार्पय़त् |
३१ क
सञ्जय़ उवाच:
निशितैः साय़कैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ||
३१ ख
सञ्जय़ उवाच:
चतुरश्च हय़ोदारांश्चतुर्भिः परमेषुभिः |
३२ क
सञ्जय़ उवाच:
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ||
३२ ख
सञ्जय़ उवाच:
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् |
३३ क
सञ्जय़ उवाच:
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ||
३३ ख
सञ्जय़ उवाच:
ततोऽशीतिं शिनेः पौत्रः साय़कान्कृतवर्मणे |
३४ क
सञ्जय़ उवाच:
प्राहिणोत्त्वरय़ा युक्तो द्रष्टुकामो धनञ्जय़म् ||
३४ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता शत्रुणा शत्रुतापनः |
३५ क
सञ्जय़ उवाच:
समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ||
३५ ख
सञ्जय़ उवाच:
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः |
३६ क
सञ्जय़ उवाच:
विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ||
३६ ख
सञ्जय़ उवाच:
सुवर्णपुङ्खं विशिखं समाधाय़ स सात्यकिः |
३७ क
सञ्जय़ उवाच:
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ||
३७ ख
सञ्जय़ उवाच:
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः |
३८ क
सञ्जय़ उवाच:
जाम्वूनदविचित्रं च वर्म निर्भिद्य भानुमत् |
३८ ख
सञ्जय़ उवाच:
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ||
३८ ग
सञ्जय़ उवाच:
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः |
३९ क
सञ्जय़ उवाच:
प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ||
३९ ख
सञ्जय़ उवाच:
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः |
४० क
सञ्जय़ उवाच:
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ||
४० ख
सञ्जय़ उवाच:
सहस्रवाहोः सदृशमक्षोभ्यमिव सागरम् |
४१ क
सञ्जय़ उवाच:
निवार्य कृतवर्माणं सात्यकिः प्रय़यौ ततः ||
४१ ख
सञ्जय़ उवाच:
खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् |
४२ क
सञ्जय़ उवाच:
प्रवर्तितोग्ररुधिरां शतशः क्षत्रिय़र्षभैः ||
४२ ख
सञ्जय़ उवाच:
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः |
४३ क
सञ्जय़ उवाच:
अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ||
४३ ख
सञ्जय़ उवाच:
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः |
४४ क
सञ्जय़ उवाच:
तस्थौ तत्रैव वलवान्वारय़न्युधि पाण्डवान् ||
४४ ख