युधिष्ठिर उवाच:
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह |
१ क
युधिष्ठिर उवाच:
विद्वांसो मनुजा लोके कथमेतन्मतं तव ||
१ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्येऽहमितिहासं पुरातनम् |
२ क
भीष्म उवाच:
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ||
२ ख
भीष्म उवाच:
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः |
३ क
भीष्म उवाच:
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ||
३ ख
साध्या ऊचुः:
शकुने वय़ं स्म देवा वै साध्यास्त्वामनुय़ुज्महे |
४ क
साध्या ऊचुः:
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ||
४ ख
साध्या ऊचुः:
श्रुतोऽसि नः पण्डितो धीरवादी; साधुशव्दः पतते ते पतत्रिन् |
५ क
साध्या ऊचुः:
किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन् ||
५ ख
साध्या ऊचुः:
तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम् |
६ क
साध्या ऊचुः:
यत्कृत्वा वै पुरुषः सर्ववन्धै; र्विमुच्यते विहगेन्द्रेह शीघ्रम् ||
६ ख
हंस उवाच:
इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः |
७ क
हंस उवाच:
ग्रन्थीन्विमुच्य हृदय़स्य सर्वा; न्प्रिय़ाप्रिय़े स्वं वशमानय़ीत ||
७ ख
हंस उवाच:
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
८ क
हंस उवाच:
यय़ास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||
८ ख
हंस उवाच:
वाक्साय़का वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |
९ क
हंस उवाच:
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||
९ ख
हंस उवाच:
परश्चेदेनमतिवादवाणै; र्भृशं विध्येच्छम एवेह कार्यः |
१० क
हंस उवाच:
संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य ||
१० ख
हंस उवाच:
क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम् |
११ क
हंस उवाच:
अदुष्टचेता मुदितोऽनसूय़ुः; स आदत्ते सुकृतं वै परेषाम् ||
११ ख
हंस उवाच:
आक्रुश्यमानो न वदामि किं चि; त्क्षमाम्यहं ताड्यमानश्च नित्यम् |
१२ क
हंस उवाच:
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम् ||
१२ ख
हंस उवाच:
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |
१३ क
हंस उवाच:
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ||
१३ ख
हंस उवाच:
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् |
१४ क
हंस उवाच:
एतान्वेगान्यो विषहत्युदीर्णां; स्तं मन्येऽहं व्राह्मणं वै मुनिं च ||
१४ ख
हंस उवाच:
अक्रोधनः क्रुध्यतां वै विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः |
१५ क
हंस उवाच:
अमानुषान्मानुषो वै विशिष्ट; स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ||
१५ ख
हंस उवाच:
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः |
१६ क
हंस उवाच:
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||
१६ ख
हंस उवाच:
यो नात्युक्तः प्राह रूक्षं प्रिय़ं वा; यो वा हतो न प्रतिहन्ति धैर्यात् |
१७ क
हंस उवाच:
पापं च यो नेच्छति तस्य हन्तु; स्तस्मै देवाः स्पृहय़न्ते सदैव ||
१७ ख
हंस उवाच:
पापीय़सः क्षमेतैव श्रेय़सः सदृशस्य च |
१८ क
हंस उवाच:
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ||
१८ ख
हंस उवाच:
सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः |
१९ क
हंस उवाच:
न चाप्यहं लिप्समानः परैमि; न चैव किञ्चिद्विषमेण यामि ||
१९ ख
हंस उवाच:
नाहं शप्तः प्रतिशपामि किं चि; द्दमं द्वारं ह्यमृतस्येह वेद्मि |
२० क
हंस उवाच:
गुह्यं व्रह्म तदिदं वो व्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किञ्चित् ||
२० ख
हंस उवाच:
विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः |
२१ क
हंस उवाच:
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ||
२१ ख
हंस उवाच:
यः सर्वेषां भवति ह्यर्चनीय़; उत्सेचने स्तम्भ इवाभिजातः |
२२ क
हंस उवाच:
यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संय़तात्मा ||
२२ ख
हंस उवाच:
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् |
२३ क
हंस उवाच:
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुय़ुञ्जकाः ||
२३ ख
हंस उवाच:
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा |
२४ क
हंस उवाच:
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुय़ात् ||
२४ ख
हंस उवाच:
आक्रोशनावमानाभ्यामवुधाद्वर्धते वुधः |
२५ क
हंस उवाच:
तस्मान्न वर्धय़ेदन्यं न चात्मानं विहिंसय़ेत् ||
२५ ख
हंस उवाच:
अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः |
२६ क
हंस उवाच:
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ||
२६ ख
हंस उवाच:
यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति |
२७ क
हंस उवाच:
वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य ||
२७ ख
हंस उवाच:
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः |
२८ क
हंस उवाच:
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ||
२८ ख
हंस उवाच:
सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः |
२९ क
हंस उवाच:
स्वाध्याय़नित्योऽस्पृहय़न्परेषा; मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ||
२९ ख
हंस उवाच:
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् |
३० क
हंस उवाच:
न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ||
३० ख
हंस उवाच:
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् |
३१ क
हंस उवाच:
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ||
३१ ख
हंस उवाच:
यादृशैः संनिवसति यादृशांश्चोपसेवते |
३२ क
हंस उवाच:
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ||
३२ ख
हंस उवाच:
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव |
३३ क
हंस उवाच:
वासो यथा रङ्गवशं प्रय़ाति; तथा स तेषां वशमभ्युपैति ||
३३ ख
हंस उवाच:
सदा देवाः साधुभिः संवदन्ते; न मानुषं विषय़ं यान्ति द्रष्टुम् |
३४ क
हंस उवाच:
नेन्दुः समः स्यादसमो हि वाय़ु; रुच्चावचं विषय़ं यः स वेद ||
३४ ख
हंस उवाच:
अदुष्टं वर्तमाने तु हृदय़ान्तरपूरुषे |
३५ क
हंस उवाच:
तेनैव देवाः प्रीय़न्ते सतां मार्गस्थितेन वै ||
३५ ख
हंस उवाच:
शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम् |
३६ क
हंस उवाच:
अपेतदोषानिति तान्विदित्वा; दूराद्देवाः सम्परिवर्जय़न्ति ||
३६ ख
हंस उवाच:
न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा |
३७ क
हंस उवाच:
सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह सम्भजन्ते ||
३७ ख
हंस उवाच:
अव्याहृतं व्याहृताच्छ्रेय़ आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीय़म् |
३८ क
हंस उवाच:
धर्मं वदेद्व्याहृतं तत्तृतीय़ं; प्रिय़ं वदेद्व्याहृतं तच्चतुर्थम् ||
३८ ख
साध्या ऊचुः:
केनाय़मावृतो लोकः केन वा न प्रकाशते |
३९ क
साध्या ऊचुः:
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ||
३९ ख
हंस उवाच:
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते |
४० क
हंस उवाच:
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ||
४० ख
साध्या ऊचुः:
कः स्विदेको रमते व्राह्मणानां; कः स्विदेको वहुभिर्जोषमास्ते |
४१ क
साध्या ऊचुः:
कः स्विदेको वलवान्दुर्वलोऽपि; कः स्विदेषां कलहं नान्ववैति ||
४१ ख
हंस उवाच:
प्राज्ञ एको रमते व्राह्मणानां; प्राज्ञ एको वहुभिर्जोषमास्ते |
४२ क
हंस उवाच:
प्राज्ञ एको वलवान्दुर्वलोऽपि; प्राज्ञ एषां कलहं नान्ववैति ||
४२ ख
साध्या ऊचुः:
किं व्राह्मणानां देवत्वं किं च साधुत्वमुच्यते |
४३ क
साध्या ऊचुः:
असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ||
४३ ख
हंस उवाच:
स्वाध्याय़ एषां देवत्वं व्रतं साधुत्वमुच्यते |
४४ क
हंस उवाच:
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ||
४४ ख
भीष्म उवाच:
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः |
४५ क
भीष्म उवाच:
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ||
४५ ख