chevron_left विराट पर्व अध्याय २७
वैशम्पाय़न उवाच:
ततः शान्तनवो भीष्मो भरतानां पितामहः |
१ क
वैशम्पाय़न उवाच:
श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ||
१ ख
वैशम्पाय़न उवाच:
आचार्यवाक्योपरमे तद्वाक्यमभिसन्दधत् |
२ क
वैशम्पाय़न उवाच:
हितार्थं स उवाचेमां भारतीं भारतान्प्रति ||
२ ख
वैशम्पाय़न उवाच:
युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् |
३ क
वैशम्पाय़न उवाच:
असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा |
३ ख
वैशम्पाय़न उवाच:
भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ||
३ ग
वैशम्पाय़न उवाच:
यथैष व्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् |
४ क
वैशम्पाय़न उवाच:
सर्वलक्षणसम्पन्ना नाशं नार्हन्ति पाण्डवाः ||
४ ख
वैशम्पाय़न उवाच:
श्रुतवृत्तोपसम्पन्नाः साधुव्रतसमन्विताः |
५ क
वैशम्पाय़न उवाच:
वृद्धानुशासने मग्नाः सत्यव्रतपराय़णाः ||
५ ख
वैशम्पाय़न उवाच:
समय़ं समय़ज्ञास्ते पालय़न्तः शुचिव्रताः |
६ क
वैशम्पाय़न उवाच:
नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ||
६ ख
वैशम्पाय़न उवाच:
धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः |
७ क
वैशम्पाय़न उवाच:
न नाशमधिगच्छेय़ुरिति मे धीय़ते मतिः ||
७ ख
वैशम्पाय़न उवाच:
तत्र वुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत |
८ क
वैशम्पाय़न उवाच:
न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ||
८ ख
वैशम्पाय़न उवाच:
यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् |
९ क
वैशम्पाय़न उवाच:
वुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निवोध तत् ||
९ ख
वैशम्पाय़न उवाच:
सा त्विय़ं साधु वक्तव्या न त्वनीतिः कथञ्चन |
१० क
वैशम्पाय़न उवाच:
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ||
१० ख
वैशम्पाय़न उवाच:
अवश्यं त्विह धीरेण सतां मध्ये विवक्षता |
११ क
वैशम्पाय़न उवाच:
यथामति विवक्तव्यं सर्वशो धर्मलिप्सय़ा ||
११ ख
वैशम्पाय़न उवाच:
तत्र नाहं तथा मन्ये यथाय़मितरो जनः |
१२ क
वैशम्पाय़न उवाच:
पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ||
१२ ख
वैशम्पाय़न उवाच:
नासूय़को न चापीर्षुर्नातिवादी न मत्सरी |
१३ क
वैशम्पाय़न उवाच:
भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः ||
१३ ख
वैशम्पाय़न उवाच:
व्रह्मघोषाश्च भूय़ांसः पूर्णाहुत्यस्तथैव च |
१४ क
वैशम्पाय़न उवाच:
क्रतवश्च भविष्यन्ति भूय़ांसो भूरिदक्षिणाः ||
१४ ख
वैशम्पाय़न उवाच:
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशय़ः |
१५ क
वैशम्पाय़न उवाच:
सम्पन्नसस्या च मही निरीतीका भविष्यति ||
१५ ख
वैशम्पाय़न उवाच:
रसवन्ति च धान्यानि गुणवन्ति फलानि च |
१६ क
वैशम्पाय़न उवाच:
गन्धवन्ति च माल्यानि शुभशव्दा च भारती ||
१६ ख
वैशम्पाय़न उवाच:
वाय़ुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् |
१७ क
वैशम्पाय़न उवाच:
भय़ं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ||
१७ ख
वैशम्पाय़न उवाच:
गावश्च वहुलास्तत्र न कृशा न च दुर्दुहाः |
१८ क
वैशम्पाय़न उवाच:
पय़ांसि दधिसर्पींषि रसवन्ति हितानि च ||
१८ ख
वैशम्पाय़न उवाच:
गुणवन्ति च पानानि भोज्यानि रसवन्ति च |
१९ क
वैशम्पाय़न उवाच:
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ||
१९ ख
वैशम्पाय़न उवाच:
रसाः स्पर्शाश्च गन्धाश्च शव्दाश्चापि गुणान्विताः |
२० क
वैशम्पाय़न उवाच:
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ||
२० ख
वैशम्पाय़न उवाच:
स्वैः स्वैर्गुणैः सुसंय़ुक्तास्तस्मिन्वर्षे त्रय़ोदशे |
२१ क
वैशम्पाय़न उवाच:
देशे तस्मिन्भविष्यन्ति तात पाण्डवसंय़ुते ||
२१ ख
वैशम्पाय़न उवाच:
सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः |
२२ क
वैशम्पाय़न उवाच:
देवतातिथिपूजासु सर्वभूतानुरागवान् ||
२२ ख
वैशम्पाय़न उवाच:
इष्टदानो महोत्साहः शश्वद्धर्मपराय़णः |
२३ क
वैशम्पाय़न उवाच:
अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः |
२३ ख
वैशम्पाय़न उवाच:
भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ||
२३ ग
वैशम्पाय़न उवाच:
त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः |
२४ क
वैशम्पाय़न उवाच:
शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः |
२४ ख
वैशम्पाय़न उवाच:
भविष्यति जनस्तत्र नित्यं चेष्टप्रिय़व्रतः ||
२४ ग
वैशम्पाय़न उवाच:
धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः |
२५ क
वैशम्पाय़न उवाच:
किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ||
२५ ख
वैशम्पाय़न उवाच:
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा |
२६ क
वैशम्पाय़न उवाच:
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ||
२६ ख
वैशम्पाय़न उवाच:
तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः |
२७ क
वैशम्पाय़न उवाच:
गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ||
२७ ख
वैशम्पाय़न उवाच:
एवमेतत्तु सञ्चिन्त्य यत्कृतं मन्यसे हितम् |
२८ क
वैशम्पाय़न उवाच:
तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ||
२८ ख