युधिष्ठिर उवाच:
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि |
१ क
युधिष्ठिर उवाच:
तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ||
१ ख
भीष्म उवाच:
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातय़ः |
२ क
भीष्म उवाच:
वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय़ वै ||
२ ख
भीष्म उवाच:
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन |
३ क
भीष्म उवाच:
वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ||
३ ख
भीष्म उवाच:
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातय़ः |
४ क
भीष्म उवाच:
विज्ञाय़ेह गतीः सर्वा विरक्तो विषय़ेषु यः ||
४ ख
भीष्म उवाच:
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा |
५ क
भीष्म उवाच:
एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ||
५ ख
भीष्म उवाच:
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् |
६ क
भीष्म उवाच:
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ||
६ ख
भीष्म उवाच:
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चय़ाः |
७ क
भीष्म उवाच:
उभे चैते मते तत्त्वे मम तात युधिष्ठिर ||
७ ख
भीष्म उवाच:
उभे चैते मते ज्ञाने नृपते शिष्टसंमते |
८ क
भीष्म उवाच:
अनुष्ठिते यथाशास्त्रं नय़ेतां परमां गतिम् ||
८ ख
भीष्म उवाच:
तुल्यं शौचं तय़ोर्युक्तं दय़ा भूतेषु चानघ |
९ क
भीष्म उवाच:
व्रतानां धारणं तुल्यं दर्शनं न समं तय़ोः ||
९ ख
युधिष्ठिर उवाच:
यदि तुल्यं व्रतं शौचं दय़ा चात्र पितामह |
१० क
युधिष्ठिर उवाच:
तुल्यं न दर्शनं कस्मात्तन्मे व्रूहि पितामह ||
१० ख
भीष्म उवाच:
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् |
११ क
भीष्म उवाच:
योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् ||
११ ख
भीष्म उवाच:
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् |
१२ क
भीष्म उवाच:
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ||
१२ ख
भीष्म उवाच:
तथैव वागुरां छित्त्वा वलवन्तो यथा मृगाः |
१३ क
भीष्म उवाच:
प्राप्नुय़ुर्विमलं मार्गं विमुक्ताः सर्ववन्धनैः ||
१३ ख
भीष्म उवाच:
लोभजानि तथा राजन्वन्धनानि वलान्विताः |
१४ क
भीष्म उवाच:
छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ||
१४ ख
भीष्म उवाच:
अवलाश्च मृगा राजन्वागुरासु तथापरे |
१५ क
भीष्म उवाच:
विनश्यन्ति न सन्देहस्तद्वद्योगवलादृते ||
१५ ख
भीष्म उवाच:
वलहीनाश्च कौन्तेय़ यथा जालगता झषाः |
१६ क
भीष्म उवाच:
अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्वलाः ||
१६ ख
भीष्म उवाच:
यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिन्दम |
१७ क
भीष्म उवाच:
तत्र सक्ता विपद्यन्ते मुच्यन्ते च वलान्विताः ||
१७ ख
भीष्म उवाच:
कर्मजैर्वन्धनैर्वद्धास्तद्वद्योगाः परन्तप |
१८ क
भीष्म उवाच:
अवला वै विनश्यन्ति मुच्यन्ते च वलान्विताः ||
१८ ख
भीष्म उवाच:
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्वलः |
१९ क
भीष्म उवाच:
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽवलः प्रभो ||
१९ ख
भीष्म उवाच:
स एव च यदा राजन्वह्निर्जातवलः पुनः |
२० क
भीष्म उवाच:
समीरणय़ुतः कृत्स्नां दहेत्क्षिप्रं महीमपि ||
२० ख
भीष्म उवाच:
तद्वज्जातवलो योगी दीप्ततेजा महावलः |
२१ क
भीष्म उवाच:
अन्तकाल इवादित्यः कृत्स्नं संशोषय़ेज्जगत् ||
२१ ख
भीष्म उवाच:
दुर्वलश्च यथा राजन्स्रोतसा ह्रिय़ते नरः |
२२ क
भीष्म उवाच:
वलहीनस्तथा योगो विषय़ैर्ह्रिय़तेऽवशः ||
२२ ख
भीष्म उवाच:
तदेव च यथा स्रोतो विष्टम्भय़ति वारणः |
२३ क
भीष्म उवाच:
तद्वद्योगवलं लव्ध्वा व्यूहते विषय़ान्वहून् ||
२३ ख
भीष्म उवाच:
विशन्ति चावशाः पार्थ योगा योगवलान्विताः |
२४ क
भीष्म उवाच:
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ||
२४ ख
भीष्म उवाच:
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः |
२५ क
भीष्म उवाच:
ईशते नृपते सर्वे योगस्यामिततेजसः ||
२५ ख
भीष्म उवाच:
आत्मनां च सहस्राणि वहूनि भरतर्षभ |
२६ क
भीष्म उवाच:
योगः कुर्याद्वलं प्राप्य तैश्च सर्वैर्महीं चरेत् ||
२६ ख
भीष्म उवाच:
प्राप्नुय़ाद्विषय़ांश्चैव पुनश्चोग्रं तपश्चरेत् |
२७ क
भीष्म उवाच:
सङ्क्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव ||
२७ ख
भीष्म उवाच:
वलस्थस्य हि योगस्य वन्धनेशस्य पार्थिव |
२८ क
भीष्म उवाच:
विमोक्षप्रभविष्णुत्वमुपपन्नमसंशय़म् ||
२८ ख
भीष्म उवाच:
वलानि योगे प्रोक्तानि मय़ैतानि विशां पते |
२९ क
भीष्म उवाच:
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ||
२९ ख
भीष्म उवाच:
आत्मनश्च समाधाने धारणां प्रति चाभिभो |
३० क
भीष्म उवाच:
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ||
३० ख
भीष्म उवाच:
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः |
३१ क
भीष्म उवाच:
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशय़म् ||
३१ ख
भीष्म उवाच:
स्नेहपूर्णे यथा पात्रे मन आधाय़ निश्चलम् |
३२ क
भीष्म उवाच:
पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः ||
३२ ख
भीष्म उवाच:
युक्त्वा तथाय़मात्मानं योगः पार्थिव निश्चलम् |
३३ क
भीष्म उवाच:
करोत्यमलमात्मानं भास्करोपमदर्शनम् ||
३३ ख
भीष्म उवाच:
यथा च नावं कौन्तेय़ कर्णधारः समाहितः |
३४ क
भीष्म उवाच:
महार्णवगतां शीघ्रं नय़ेत्पार्थिव पत्तनम् ||
३४ ख
भीष्म उवाच:
तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् |
३५ क
भीष्म उवाच:
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ||
३५ ख
भीष्म उवाच:
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः |
३६ क
भीष्म उवाच:
देशमिष्टं नय़त्याशु धन्विनं पुरुषर्षभ ||
३६ ख
भीष्म उवाच:
तथैव नृपते योगी धारणासु समाहितः |
३७ क
भीष्म उवाच:
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ||
३७ ख
भीष्म उवाच:
आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः |
३८ क
भीष्म उवाच:
पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् ||
३८ ख
भीष्म उवाच:
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वय़ोः |
३९ क
भीष्म उवाच:
दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ||
३९ ख
भीष्म उवाच:
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः |
४० क
भीष्म उवाच:
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते ||
४० ख
भीष्म उवाच:
स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् |
४१ क
भीष्म उवाच:
उत्तमं योगमास्थाय़ यदीच्छति विमुच्यते ||
४१ ख
युधिष्ठिर उवाच:
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत |
४२ क
युधिष्ठिर उवाच:
योगी वलमवाप्नोति तद्भवान्वक्तुमर्हति ||
४२ ख
भीष्म उवाच:
कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे |
४३ क
भीष्म उवाच:
स्नेहानां वर्जने युक्तो योगी वलमवाप्नुय़ात् ||
४३ ख
भीष्म उवाच:
भुञ्जानो यावकं रूक्षं दीर्घकालमरिन्दम |
४४ क
भीष्म उवाच:
एकारामो विशुद्धात्मा योगी वलमवाप्नुय़ात् ||
४४ ख
भीष्म उवाच:
पक्षान्मासानृतूंश्चित्रान्सञ्चरंश्च गुहास्तथा |
४५ क
भीष्म उवाच:
अपः पीत्वा पय़ोमिश्रा योगी वलमवाप्नुय़ात् ||
४५ ख
भीष्म उवाच:
अखण्डमपि वा मासं सततं मनुजेश्वर |
४६ क
भीष्म उवाच:
उपोष्य सम्यक्षुद्धात्मा योगी वलमवाप्नुय़ात् ||
४६ ख
भीष्म उवाच:
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च |
४७ क
भीष्म उवाच:
भय़ं निद्रां तथा श्वासं पौरुषं विषय़ांस्तथा ||
४७ ख
भीष्म उवाच:
अरतिं दुर्जय़ां चैव घोरां तृष्णां च पार्थिव |
४८ क
भीष्म उवाच:
स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जय़ां नृपसत्तम ||
४८ ख
भीष्म उवाच:
दीपय़न्ति महात्मानः सूक्ष्ममात्मानमात्मना |
४९ क
भीष्म उवाच:
वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ||
४९ ख
भीष्म उवाच:
दुर्गस्त्वेष मतः पन्था व्राह्मणानां विपश्चिताम् |
५० क
भीष्म उवाच:
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ||
५० ख