वैशम्पाय़न उवाच:
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा |
१ क
वैशम्पाय़न उवाच:
हृष्टो भूत्वा पुनर्दीन इदं वचनमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
व्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् |
२ क
वैशम्पाय़न उवाच:
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ||
२ ख
वैशम्पाय़न उवाच:
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः |
३ क
वैशम्पाय़न उवाच:
मन्यतेऽभ्यधिकांश्चापि तपोय़ोगेन पाण्डवान् ||
३ ख
वैशम्पाय़न उवाच:
अथ वाप्यनुवुध्येत नृपोऽस्माकं चिकीर्षितम् |
४ क
वैशम्पाय़न उवाच:
एवमप्याय़तिं रक्षन्नाभ्यनुज्ञातुमर्हति ||
४ ख
वैशम्पाय़न उवाच:
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रय़ोजनम् |
५ क
वैशम्पाय़न उवाच:
उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ||
५ ख
वैशम्पाय़न उवाच:
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते |
६ क
वैशम्पाय़न उवाच:
अव्रवीद्यच्च मां त्वां च सौवलं च वचस्तदा ||
६ ख
वैशम्पाय़न उवाच:
तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् |
७ क
वैशम्पाय़न उवाच:
विचिन्त्य नाधिगच्छामि गमनाय़ेतराय़ वा ||
७ ख
वैशम्पाय़न उवाच:
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ |
८ क
वैशम्पाय़न उवाच:
क्लिष्टावरण्ये पश्येय़ं कृष्णय़ा सहिताविति ||
८ ख
वैशम्पाय़न उवाच:
न तथा प्राप्नुय़ां प्रीतिमवाप्य वसुधामपि |
९ क
वैशम्पाय़न उवाच:
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ||
९ ख
वैशम्पाय़न उवाच:
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् |
१० क
वैशम्पाय़न उवाच:
द्रौपदीं कर्ण पश्येय़ं काषाय़वसनां वने ||
१० ख
वैशम्पाय़न उवाच:
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः |
११ क
वैशम्पाय़न उवाच:
युक्तं परमय़ा लक्ष्म्या पश्येतां जीवितं भवेत् ||
११ ख
वैशम्पाय़न उवाच:
उपाय़ं न तु पश्यामि येन गच्छेम तद्वनम् |
१२ क
वैशम्पाय़न उवाच:
यथा चाभ्यनुजानीय़ाद्गच्छन्तं मां महीपतिः ||
१२ ख
वैशम्पाय़न उवाच:
स सौवलेन सहितस्तथा दुःशासनेन च |
१३ क
वैशम्पाय़न उवाच:
उपाय़ं पश्य निपुणं येन गच्छेम तद्वनम् ||
१३ ख
वैशम्पाय़न उवाच:
अहमप्यद्य निश्चित्य गमनाय़ेतराय़ वा |
१४ क
वैशम्पाय़न उवाच:
काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ||
१४ ख
वैशम्पाय़न उवाच:
मय़ि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे |
१५ क
वैशम्पाय़न उवाच:
उपाय़ो यो भवेद्दृष्टस्तं व्रूय़ाः सहसौवलः ||
१५ ख
वैशम्पाय़न उवाच:
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति |
१६ क
वैशम्पाय़न उवाच:
व्यवसाय़ं करिष्येऽहमनुनीय़ पितामहम् ||
१६ ख
वैशम्पाय़न उवाच:
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति |
१७ क
वैशम्पाय़न उवाच:
व्युषिताय़ां रजन्यां तु कर्णो राजानमभ्ययात् ||
१७ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनं कर्णः प्रहसन्निदमव्रवीत् |
१८ क
वैशम्पाय़न उवाच:
उपाय़ः परिदृष्टोऽय़ं तं निवोध जनेश्वर ||
१८ ख
वैशम्पाय़न उवाच:
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप |
१९ क
वैशम्पाय़न उवाच:
घोषय़ात्रापदेशेन गमिष्यामो न संशय़ः ||
१९ ख
वैशम्पाय़न उवाच:
उचितं हि सदा गन्तुं घोषय़ात्रां विशां पते |
२० क
वैशम्पाय़न उवाच:
एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ||
२० ख
वैशम्पाय़न उवाच:
तथा कथय़मानौ तौ घोषय़ात्राविनिश्चय़म् |
२१ क
वैशम्पाय़न उवाच:
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ||
२१ ख
वैशम्पाय़न उवाच:
उपाय़ोऽय़ं मय़ा दृष्टो गमनाय़ निरामय़ः |
२२ क
वैशम्पाय़न उवाच:
अनुज्ञास्यति नो राजा चोदय़िष्यति चाप्युत ||
२२ ख
वैशम्पाय़न उवाच:
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप |
२३ क
वैशम्पाय़न उवाच:
घोषय़ात्रापदेशेन गमिष्यामो न संशय़ः ||
२३ ख
वैशम्पाय़न उवाच:
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः |
२४ क
वैशम्पाय़न उवाच:
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ||
२४ ख