वासुदेव उवाच:
माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्वहं व्रह्म च व्राह्मणाश्च ||
४६ ख
वासुदेव उवाच:
वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने सञ्जय़ पाण्डवेय़ाः |
४७ क
वासुदेव उवाच:
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ||
४७ ख
वासुदेव उवाच:
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् |
४८ क
वासुदेव उवाच:
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालय़ेत् ||
४८ ख
वासुदेव उवाच:
लताधर्मा धार्तराष्ट्राः शालाः सञ्जय़ पाण्डवाः |
४९ क
वासुदेव उवाच:
न लता वर्धते जातु अनाश्रित्य महाद्रुमम् ||
४९ ख
वासुदेव उवाच:
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः |
५० क
वासुदेव उवाच:
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ||
५० ख
वासुदेव उवाच:
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः |
५१ क
वासुदेव उवाच:
योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ||
५१ ख