chevron_left शल्य पर्व अध्याय २९
सञ्जय़ उवाच:
दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् |
५० क
सञ्जय़ उवाच:
अन्वय़ुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ||
५० ख
सञ्जय़ उवाच:
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ |
५१ क
सञ्जय़ उवाच:
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ||
५१ ख
सञ्जय़ उवाच:
उत्तमौजा युधामन्युः सात्यकिश्चापराजितः |
५२ क
सञ्जय़ उवाच:
पाञ्चालानां च ये शिष्टा द्रौपदेय़ाश्च भारत |
५२ ख
सञ्जय़ उवाच:
हय़ाश्च सर्वे नागाश्च शतशश्च पदातय़ः ||
५२ ग
सञ्जय़ उवाच:
ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः |
५३ क
सञ्जय़ उवाच:
द्वैपाय़नह्रदं ख्यातं यत्र दुर्योधनोऽभवत् ||
५३ ख
सञ्जय़ उवाच:
शीतामलजलं हृद्यं द्वितीय़मिव सागरम् |
५४ क
सञ्जय़ उवाच:
माय़या सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः ||
५४ ख
सञ्जय़ उवाच:
अत्यद्भुतेन विधिना दैवय़ोगेन भारत |
५५ क
सञ्जय़ उवाच:
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो |
५५ ख
सञ्जय़ उवाच:
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ||
५५ ग
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सलितान्तर्गतो वसन् |
५६ क
सञ्जय़ उवाच:
शुश्रुवे तुमुलं शव्दं जलदोपमनिःस्वनम् ||
५६ ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः |
५७ क
सञ्जय़ उवाच:
आजगाम महाराज तव पुत्रवधाय़ वै ||
५७ ख
सञ्जय़ उवाच:
महता शङ्खनादेन रथनेमिस्वनेन च |
५८ क
सञ्जय़ उवाच:
उद्धुन्वंश्च महारेणुं कम्पय़ंश्चापि मेदिनीम् ||
५८ ख
सञ्जय़ उवाच:
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शव्दं महारथाः |
५९ क
सञ्जय़ उवाच:
कृतवर्मा कृपो द्रौणी राजानमिदमव्रुवन् ||
५९ ख
सञ्जय़ उवाच:
इमे ह्याय़ान्ति संहृष्टाः पाण्डवा जितकाशिनः |
६० क
सञ्जय़ उवाच:
अपय़ास्यामहे तावदनुजानातु नो भवान् ||
६० ख
सञ्जय़ उवाच:
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् |
६१ क
सञ्जय़ उवाच:
तथेत्युक्त्वा ह्रदं तं वै माय़यास्तम्भय़त्प्रभो ||
६१ ख
सञ्जय़ उवाच:
ते त्वनुज्ञाप्य राजानं भृशं शोकपराय़णाः |
६२ क
सञ्जय़ उवाच:
जग्मुर्दूरं महाराज कृपप्रभृतय़ो रथाः ||
६२ ख
सञ्जय़ उवाच:
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष |
६३ क
सञ्जय़ उवाच:
न्यविशन्त भृशं श्रान्ताश्चिन्तय़न्तो नृपं प्रति ||
६३ ख
सञ्जय़ उवाच:
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महावलः |
६४ क
सञ्जय़ उवाच:
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ||
६४ ख
सञ्जय़ उवाच:
कथं नु युद्धं भविता कथं राजा भविष्यति |
६५ क
सञ्जय़ उवाच:
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ||
६५ ख
सञ्जय़ उवाच:
इत्येवं चिन्तय़न्तस्ते रथेभ्योऽश्वान्विमुच्य ह |
६६ क
सञ्जय़ उवाच:
तत्रासां चक्रिरे राजन्कृपप्रभृतय़ो रथाः ||
६६ ख