chevron_left शान्ति पर्व अध्याय २९
वैशम्पाय़न उवाच:
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ||
९८ ख
वैशम्पाय़न उवाच:
सहस्रं तु सहस्राणां यस्यासञ्शाशविन्दवः |
९९ क
वैशम्पाय़न उवाच:
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ||
९९ ख
वैशम्पाय़न उवाच:
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वय़ुः |
१०० क
वैशम्पाय़न उवाच:
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ||
१०० ख
वैशम्पाय़न उवाच:
रथं रथं शतं चाश्वा देशजा हेममालिनः |
१०१ क
वैशम्पाय़न उवाच:
अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ||
१०१ ख
वैशम्पाय़न उवाच:
एतद्धनमपर्यन्तमश्वमेधे महामखे |
१०२ क
वैशम्पाय़न उवाच:
शशविन्दुर्महाराज व्राह्मणेभ्यः समादिशत् ||
१०२ ख
वैशम्पाय़न उवाच:
स चेन्ममार सृञ्जय़ चतुर्भद्रतरस्त्वय़ा |
१०३ क
वैशम्पाय़न उवाच:
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||
१०३ ख
वैशम्पाय़न उवाच:
गय़मामूर्तरय़सं मृतं शुश्रुम सृञ्जय़ |
१०४ क
वैशम्पाय़न उवाच:
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ||
१०४ ख
वैशम्पाय़न उवाच:
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गय़ः |
१०५ क
वैशम्पाय़न उवाच:
ददतो मेऽक्षय़ा चास्तु धर्मे श्रद्धा च वर्धताम् ||
१०५ ख
वैशम्पाय़न उवाच:
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन |
१०६ क
वैशम्पाय़न उवाच:
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ||
१०६ ख
वैशम्पाय़न उवाच:
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः |
१०७ क
वैशम्पाय़न उवाच:
अय़जत्स महातेजाः सहस्रं परिवत्सरान् ||
१०७ ख
वैशम्पाय़न उवाच:
शतं गवां सहस्राणि शतमश्वशतानि च |
१०८ क
वैशम्पाय़न उवाच:
उत्थाय़ोत्थाय़ वै प्रादात्सहस्रं परिवत्सरान् ||
१०८ ख
वैशम्पाय़न उवाच:
तर्पय़ामास सोमेन देवान्वित्तैर्द्विजानपि |
१०९ क
वैशम्पाय़न उवाच:
पितॄन्स्वधाभिः कामैश्च स्त्रिय़ः स्वाः पुरुषर्षभ ||
१०९ ख
वैशम्पाय़न उवाच:
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विराय़ताम् |
११० क
वैशम्पाय़न उवाच:
दक्षिणामददद्राजा वाजिमेधमहामखे ||
११० ख
वैशम्पाय़न उवाच:
यावत्यः सिकता राजन्गङ्गाय़ाः पुरुषर्षभ |
१११ क
वैशम्पाय़न उवाच:
तावतीरेव गाः प्रादादामूर्तरय़सो गय़ः ||
१११ ख
वैशम्पाय़न उवाच:
स चेन्ममार सृञ्जय़ चतुर्भद्रतरस्त्वय़ा |
११२ क
वैशम्पाय़न उवाच:
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||
११२ ख
वैशम्पाय़न उवाच:
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय़ |
११३ क
वैशम्पाय़न उवाच:
सम्यगाराध्य यः शक्रं वरं लेभे महाय़शाः ||
११३ ख
वैशम्पाय़न उवाच:
अन्नं च नो वहु भवेदतिथींश्च लभेमहि |
११४ क
वैशम्पाय़न उवाच:
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ||
११४ ख
वैशम्पाय़न उवाच:
उपातिष्ठन्त पशवः स्वय़ं तं संशितव्रतम् |
११५ क
वैशम्पाय़न उवाच:
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ||
११५ ख
वैशम्पाय़न उवाच:
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः |
११६ क
वैशम्पाय़न उवाच:
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ||
११६ ख
वैशम्पाय़न उवाच:
व्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः |
११७ क
वैशम्पाय़न उवाच:
तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः |
११७ ख
वैशम्पाय़न उवाच:
सहस्रं तुभ्यमित्युक्त्वा व्राह्मणान्स्म प्रपद्यते ||
११७ ग
वैशम्पाय़न उवाच:
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् |
११८ क
वैशम्पाय़न उवाच:
घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि |
११८ ख
वैशम्पाय़न उवाच:
न तत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ||
११८ ग
वैशम्पाय़न उवाच:
साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे |
११९ क
वैशम्पाय़न उवाच:
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ||
११९ ख
वैशम्पाय़न उवाच:
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः |
१२० क
वैशम्पाय़न उवाच:
सूपभूय़िष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ||
१२० ख
वैशम्पाय़न उवाच:
स चेन्ममार सृञ्जय़ चतुर्भद्रतरस्त्वय़ा |
१२१ क
वैशम्पाय़न उवाच:
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||
१२१ ख
वैशम्पाय़न उवाच:
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय़ |
१२२ क
वैशम्पाय़न उवाच:
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ||
१२२ ख
वैशम्पाय़न उवाच:
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वय़ुः |
१२३ क
वैशम्पाय़न उवाच:
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ||
१२३ ख
वैशम्पाय़न उवाच:
एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा |
१२४ क
वैशम्पाय़न उवाच:
योऽश्वमेधसहस्रेण तर्पय़ामास देवताः ||
१२४ ख
वैशम्पाय़न उवाच:
यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् |
१२५ क
वैशम्पाय़न उवाच:
पूर्णं पद्मदलाक्षीणां स्त्रीणां शय़नसङ्कुलम् ||
१२५ ख
वैशम्पाय़न उवाच:
द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा |
१२६ क
वैशम्पाय़न उवाच:
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातय़ः ||
१२६ ख
वैशम्पाय़न उवाच:
खानय़ामास यः कोपात्पृथिवीं सागराङ्किताम् |
१२७ क
वैशम्पाय़न उवाच:
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ||
१२७ ख
वैशम्पाय़न उवाच:
स चेन्ममार सृञ्जय़ चतुर्भद्रतरस्त्वय़ा |
१२८ क
वैशम्पाय़न उवाच:
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||
१२८ ख
वैशम्पाय़न उवाच:
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय़ |
१२९ क
वैशम्पाय़न उवाच:
यमभ्यषिञ्चन्सम्भूय़ महारण्ये महर्षय़ः ||
१२९ ख
वैशम्पाय़न उवाच:
प्रथय़िष्यति वै लोकान्पृथुरित्येव शव्दितः |
१३० क
वैशम्पाय़न उवाच:
क्षताच्च नस्त्राय़तीति स तस्मात्क्षत्रिय़ः स्मृतः ||
१३० ख
वैशम्पाय़न उवाच:
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदव्रुवन् |
१३१ क
वैशम्पाय़न उवाच:
ततो राजेति नामास्य अनुरागादजाय़त ||
१३१ ख
वैशम्पाय़न उवाच:
अकृष्टपच्या पृथिवी पुटके पुटके मधु |
१३२ क
वैशम्पाय़न उवाच:
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ||
१३२ ख
वैशम्पाय़न उवाच:
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभय़ाः |
१३३ क
वैशम्पाय़न उवाच:
यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ||
१३३ ख
वैशम्पाय़न उवाच:
आपः संस्तम्भिरे यस्य समुद्रस्य यिय़ासतः |
१३४ क
वैशम्पाय़न उवाच:
सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ||
१३४ ख
वैशम्पाय़न उवाच:
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् |
१३५ क
वैशम्पाय़न उवाच:
व्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ||
१३५ ख
वैशम्पाय़न उवाच:
स चेन्ममार सृञ्जय़ चतुर्भद्रतरस्त्वय़ा |
१३६ क
वैशम्पाय़न उवाच:
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||
१३६ ख
वैशम्पाय़न उवाच:
किं वै तूष्णीं ध्याय़सि सृञ्जय़ त्वं; न मे राजन्वाचमिमां शृणोषि |
१३७ क
वैशम्पाय़न उवाच:
न चेन्मोघं विप्रलप्तं मय़ेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम् ||
१३७ ख
सृञ्जय़ उवाच:
शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम् |
१३८ क
सृञ्जय़ उवाच:
राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् ||
१३८ ख
सृञ्जय़ उवाच:
न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः |
१३९ क
सृञ्जय़ उवाच:
शुश्रूषे ते वचनं व्रह्मवादि; न्न ते तृप्याम्यमृतस्येव पानात् ||
१३९ ख
सृञ्जय़ उवाच:
अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः |
१४० क
सृञ्जय़ उवाच:
मृतस्य सञ्जीवनमद्य मे स्या; त्तव प्रसादात्सुतसङ्गमश्च ||
१४० ख
नारद उवाच:
यस्ते पुत्रो दय़ितोऽय़ं विय़ातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते |
१४१ क
नारद उवाच:
पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च ||
१४१ ख