chevron_left वन पर्व अध्याय २९
द्रौपद्यु उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
द्रौपद्यु उवाच:
प्रह्लादस्य च संवादं वलेर्वैरोचनस्य च ||
१ ख
द्रौपद्यु उवाच:
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् |
२ क
द्रौपद्यु उवाच:
वलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ||
२ ख
द्रौपद्यु उवाच:
क्षमा स्विच्छ्रेय़सी तात उताहो तेज इत्युत |
३ क
द्रौपद्यु उवाच:
एतन्मे संशय़ं तात यथावद्व्रूहि पृच्छते ||
३ ख
द्रौपद्यु उवाच:
श्रेय़ो यदत्र धर्मज्ञ व्रूहि मे तदसंशय़म् |
४ क
द्रौपद्यु उवाच:
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ||
४ ख
द्रौपद्यु उवाच:
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः |
५ क
द्रौपद्यु उवाच:
सर्वनिश्चय़वित्प्राज्ञः संशय़ं परिपृच्छते ||
५ ख
प्रह्लाद उवाच:
न श्रेय़ः सततं तेजो न नित्यं श्रेय़सी क्षमा |
६ क
प्रह्लाद उवाच:
इति तात विजानीहि द्वय़मेतदसंशय़म् ||
६ ख
प्रह्लाद उवाच:
यो नित्यं क्षमते तात वहून्दोषान्स विन्दति |
७ क
प्रह्लाद उवाच:
भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ||
७ ख
प्रह्लाद उवाच:
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन |
८ क
प्रह्लाद उवाच:
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ||
८ ख
प्रह्लाद उवाच:
अवज्ञाय़ हि तं भृत्या भजन्ते वहुदोषताम् |
९ क
प्रह्लाद उवाच:
आदातुं चास्य वित्तानि प्रार्थय़न्तेऽल्पचेतसः ||
९ ख
प्रह्लाद उवाच:
यानं वस्त्राण्यलङ्काराञ्शय़नान्यासनानि च |
१० क
प्रह्लाद उवाच:
भोजनान्यथ पानानि सर्वोपकरणानि च ||
१० ख
प्रह्लाद उवाच:
आददीरन्नधिकृता यथाकाममचेतसः |
११ क
प्रह्लाद उवाच:
प्रदिष्टानि च देय़ानि न दद्युर्भर्तृशासनात् ||
११ ख
प्रह्लाद उवाच:
न चैनं भर्तृपूजाभिः पूजय़न्ति कदाचन |
१२ क
प्रह्लाद उवाच:
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ||
१२ ख
प्रह्लाद उवाच:
क्षमिणं तादृशं तात व्रुवन्ति कटुकान्यपि |
१३ क
प्रह्लाद उवाच:
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तय़ः ||
१३ ख
प्रह्लाद उवाच:
अप्यस्य दारानिच्छन्ति परिभूय़ क्षमावतः |
१४ क
प्रह्लाद उवाच:
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ||
१४ ख
प्रह्लाद उवाच:
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् |
१५ क
प्रह्लाद उवाच:
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ||
१५ ख
प्रह्लाद उवाच:
एते चान्ये च वहवो नित्यं दोषाः क्षमावताम् |
१६ क
प्रह्लाद उवाच:
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ||
१६ ख
प्रह्लाद उवाच:
अस्थाने यदि वा स्थाने सततं रजसावृतः |
१७ क
प्रह्लाद उवाच:
क्रुद्धो दण्डान्प्रणय़ति विविधान्स्वेन तेजसा ||
१७ ख
प्रह्लाद उवाच:
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः |
१८ क
प्रह्लाद उवाच:
प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ||
१८ ख
प्रह्लाद उवाच:
सोऽवमानादर्थहानिमुपालम्भमनादरम् |
१९ क
प्रह्लाद उवाच:
सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः ||
१९ ख
प्रह्लाद उवाच:
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नय़न् |
२० क
प्रह्लाद उवाच:
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ||
२० ख
प्रह्लाद उवाच:
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति |
२१ क
प्रह्लाद उवाच:
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ||
२१ ख
प्रह्लाद उवाच:
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् |
२२ क
प्रह्लाद उवाच:
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् |
२२ ख
प्रह्लाद उवाच:
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ||
२२ ग
प्रह्लाद उवाच:
काले मृदुर्यो भवति काले भवति दारुणः |
२३ क
प्रह्लाद उवाच:
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ||
२३ ख
प्रह्लाद उवाच:
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् |
२४ क
प्रह्लाद उवाच:
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ||
२४ ख
प्रह्लाद उवाच:
पूर्वोपकारी यस्तु स्यादपराधेऽगरीय़सि |
२५ क
प्रह्लाद उवाच:
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ||
२५ ख
प्रह्लाद उवाच:
अवुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् |
२६ क
प्रह्लाद उवाच:
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ||
२६ ख
प्रह्लाद उवाच:
अथ चेद्वुद्धिजं कृत्वा व्रूय़ुस्ते तदवुद्धिजम् |
२७ क
प्रह्लाद उवाच:
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ||
२७ ख
प्रह्लाद उवाच:
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् |
२८ क
प्रह्लाद उवाच:
द्वितीय़े सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ||
२८ ख
प्रह्लाद उवाच:
अजानता भवेत्कश्चिदपराधः कृतो यदि |
२९ क
प्रह्लाद उवाच:
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षय़ा ||
२९ ख
प्रह्लाद उवाच:
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् |
३० क
प्रह्लाद उवाच:
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ||
३० ख
प्रह्लाद उवाच:
देशकालौ तु सम्प्रेक्ष्य वलावलमथात्मनः |
३१ क
प्रह्लाद उवाच:
नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते |
३१ ख
प्रह्लाद उवाच:
तथा लोकभय़ाच्चैव क्षन्तव्यमपराधिनः ||
३१ ग
प्रह्लाद उवाच:
एत एवंविधाः कालाः क्षमाय़ाः परिकीर्तिताः |
३२ क
प्रह्लाद उवाच:
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ||
३२ ख
द्रौपद्यु उवाच:
तदहं तेजसः कालं तव मन्ये नराधिप |
३३ क
द्रौपद्यु उवाच:
धार्तराष्ट्रेषु लुव्धेषु सततं चापकारिषु ||
३३ ख
द्रौपद्यु उवाच:
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति |
३४ क
द्रौपद्यु उवाच:
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ||
३४ ख
द्रौपद्यु उवाच:
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः |
३५ क
द्रौपद्यु उवाच:
काले प्राप्ते द्वय़ं ह्येतद्यो वेद स महीपतिः ||
३५ ख