वासुदेव उवाच:
अविनाशं सञ्जय़ पाण्डवाना; मिच्छाम्यहं भूतिमेषां प्रिय़ं च |
१ क
वासुदेव उवाच:
तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे वहुपुत्रस्य वृद्धिम् ||
१ ख
वासुदेव उवाच:
कामो हि मे सञ्जय़ नित्यमेव; नान्यद्व्रूय़ां तान्प्रति शाम्यतेति |
२ क
वासुदेव उवाच:
राज्ञश्च हि प्रिय़मेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम् ||
२ ख
वासुदेव उवाच:
सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः सञ्जय़ पाण्डवेन |
३ क
वासुदेव उवाच:
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत् ||
३ ख
वासुदेव उवाच:
तत्त्वं धर्मं विचरन्सञ्जय़ेह; मत्तश्च जानासि युधिष्ठिराच्च |
४ क
वासुदेव उवाच:
अथो कस्मात्सञ्जय़ पाण्डवस्य; उत्साहिनः पूरय़तः स्वकर्म |
४ ख
वासुदेव उवाच:
यथाख्यातमावसतः कुटुम्वं; पुराकल्पात्साधु विलोपमात्थ ||
४ ग
वासुदेव उवाच:
अस्मिन्विधौ वर्तमाने यथाव; दुच्चावचा मतय़ो व्राह्मणानाम् |
५ क
वासुदेव उवाच:
कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेके |
५ ख
वासुदेव उवाच:
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये; द्विद्वानपीह विदितं व्राह्मणानाम् ||
५ ग
वासुदेव उवाच:
या वै विद्याः साधय़न्तीह कर्म; तासां फलं विद्यते नेतरासाम् |
६ क
वासुदेव उवाच:
तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णय़ार्तः ||
६ ख
वासुदेव उवाच:
सोऽय़ं विधिर्विहितः कर्मणैव; तद्वर्तते सञ्जय़ तत्र कर्म |
७ क
वासुदेव उवाच:
तत्र योऽन्यत्कर्मणः साधु मन्ये; न्मोघं तस्य लपितं दुर्वलस्य ||
७ ख
वासुदेव उवाच:
कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा |
८ क
वासुदेव उवाच:
अहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः ||
८ ख
वासुदेव उवाच:
मासार्धमासानथ नक्षत्रय़ोगा; नतन्द्रितश्चन्द्रमा अभ्युपैति |
९ क
वासुदेव उवाच:
अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ||
९ ख
वासुदेव उवाच:
अतन्द्रिता भारमिमं महान्तं; विभर्ति देवी पृथिवी वलेन |
१० क
वासुदेव उवाच:
अतन्द्रिताः शीघ्रमपो वहन्ति; सन्तर्पय़न्त्यः सर्वभूतानि नद्यः ||
१० ख
वासुदेव उवाच:
अतन्द्रितो वर्षति भूरितेजाः; संनादय़न्नन्तरिक्षं दिवं च |
११ क
वासुदेव उवाच:
अतन्द्रितो व्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्वलभिद्देवतानाम् ||
११ ख
वासुदेव उवाच:
हित्वा सुखं मनसश्च प्रिय़ाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप |
१२ क
वासुदेव उवाच:
सत्यं धर्मं पालय़न्नप्रमत्तो; दमं तितिक्षां समतां प्रिय़ं च |
१२ ख
वासुदेव उवाच:
एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम् ||
१२ ग
वासुदेव उवाच:
वृहस्पतिर्व्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत् |
१३ क
वासुदेव उवाच:
हित्वा सुखं प्रतिरुध्येन्द्रिय़ाणि; तेन देवानामगमद्गौरवं सः ||
१३ ख
वासुदेव उवाच:
नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वे |
१४ क
वासुदेव उवाच:
यमो राजा वैश्रवणः कुवेरो; गन्धर्वय़क्षाप्सरसश्च शुभ्राः |
१४ ख
वासुदेव उवाच:
व्रह्मचर्यं वेदविद्याः क्रिय़ाश्च; निषेवमाणा मुनय़ोऽमुत्र भान्ति ||
१४ ग
वासुदेव उवाच:
जानन्निमं सर्वलोकस्य धर्मं; व्राह्मणानां क्षत्रिय़ाणां विशां च |
१५ क
वासुदेव उवाच:
स कस्मात्त्वं जानतां ज्ञानवान्स; न्व्याय़च्छसे सञ्जय़ कौरवार्थे ||
१५ ख
वासुदेव उवाच:
आम्नाय़ेषु नित्यसंय़ोगमस्य; तथाश्वमेधे राजसूय़े च विद्धि |
१६ क
वासुदेव उवाच:
संय़ुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूय़ः ||
१६ ख
वासुदेव उवाच:
ते चेदिमे कौरवाणामुपाय़; मधिगच्छेय़ुरवधेनैव पार्थाः |
१७ क
वासुदेव उवाच:
धर्मत्राणं पुण्यमेषां कृतं स्या; दार्ये वृत्ते भीमसेनं निगृह्य ||
१७ ख
वासुदेव उवाच:
ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम् |
१८ क
वासुदेव उवाच:
यथाशक्त्या पूरय़न्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम् ||
१८ ख
वासुदेव उवाच:
उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम् |
१९ क
वासुदेव उवाच:
अय़ुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि ||
१९ ख
वासुदेव उवाच:
चातुर्वर्ण्यस्य प्रथमं विभाग; मवेक्ष्य त्वं सञ्जय़ स्वं च कर्म |
२० क
वासुदेव उवाच:
निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते ||
२० ख
वासुदेव उवाच:
अधीय़ीत व्राह्मणोऽथो यजेत; दद्यादिय़ात्तीर्थमुख्यानि चैव |
२१ क
वासुदेव उवाच:
अध्यापय़ेद्याजय़ेच्चापि याज्या; न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ||
२१ ख
वासुदेव उवाच:
तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा |
२२ क
वासुदेव उवाच:
यज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान् ||
२२ ख
वासुदेव उवाच:
वैश्योऽधीत्य कृषिगोरक्षपण्यै; र्वित्तं चिन्वन्पालय़न्नप्रमत्तः |
२३ क
वासुदेव उवाच:
प्रिय़ं कुर्वन्व्राह्मणक्षत्रिय़ाणां; धर्मशीलः पुण्यकृदावसेद्गृहान् ||
२३ ख
वासुदेव उवाच:
परिचर्या वन्दनं व्राह्मणानां; नाधीय़ीत प्रतिषिद्धोऽस्य यज्ञः |
२४ क
वासुदेव उवाच:
नित्योत्थितो भूतय़ेऽतन्द्रितः स्या; देष स्मृतः शूद्रधर्मः पुराणः ||
२४ ख
वासुदेव उवाच:
एतान्राजा पालय़न्नप्रमत्तो; निय़ोजय़न्सर्ववर्णान्स्वधर्मे |
२५ क
वासुदेव उवाच:
अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान् ||
२५ ख
वासुदेव उवाच:
श्रेय़ांस्तस्माद्यदि विद्येत कश्चि; दभिज्ञातः सर्वधर्मोपपन्नः |
२६ क
वासुदेव उवाच:
स तं दुष्टमनुशिष्यात्प्रजान; न्न चेद्गृध्येदिति तस्मिन्न साधु ||
२६ ख
वासुदेव उवाच:
यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्वलमाददानः |
२७ क
वासुदेव उवाच:
ततो राज्ञां भविता युद्धमेत; त्तत्र जातं वर्म शस्त्रं धनुश्च |
२७ ख
वासुदेव उवाच:
इन्द्रेणेदं दस्युवधाय़ कर्म; उत्पादितं वर्म शस्त्रं धनुश्च ||
२७ ग
वासुदेव उवाच:
स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः |
२८ क
वासुदेव उवाच:
उभौ गर्ह्यौ भवतः सञ्जय़ैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे |
२८ ख
वासुदेव उवाच:
योऽय़ं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी ||
२८ ग
वासुदेव उवाच:
भागः पुनः पाण्डवानां निविष्ट; स्तं नोऽकस्मादाददीरन्परे वै |
२९ क
वासुदेव उवाच:
अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः |
२९ ख
वासुदेव उवाच:
एतान्धर्मान्कौरवाणां पुराणा; नाचक्षीथाः सञ्जय़ राज्यमध्ये ||
२९ ग
वासुदेव उवाच:
ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः |
३० क
वासुदेव उवाच:
इदं पुनः कर्म पापीय़ एव; सभामध्ये पश्य वृत्तं कुरूणाम् ||
३० ख
वासुदेव उवाच:
प्रिय़ां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम् |
३१ क
वासुदेव उवाच:
यदुपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम् ||
३१ ख
वासुदेव उवाच:
तं चेत्तदा ते सकुमारवृद्धा; अवारय़िष्यन्कुरवः समेताः |
३२ क
वासुदेव उवाच:
मम प्रिय़ं धृतराष्ट्रोऽकरिष्य; त्पुत्राणां च कृतमस्याभविष्यत् ||
३२ ख
वासुदेव उवाच:
दुःशासनः प्रातिलोम्यान्निनाय़; सभामध्ये श्वशुराणां च कृष्णाम् |
३३ क
वासुदेव उवाच:
सा तत्र नीता करुणान्यवोच; न्नान्यं क्षत्तुर्नाथमदृष्ट कञ्चित् ||
३३ ख
वासुदेव उवाच:
कार्पण्यादेव सहितास्तत्र राज्ञो; नाशक्नुवन्प्रतिवक्तुं सभाय़ाम् |
३४ क
वासुदेव उवाच:
एकः क्षत्ता धर्म्यमर्थं व्रुवाणो; धर्मं वुद्ध्वा प्रत्युवाचाल्पवुद्धिम् ||
३४ ख
वासुदेव उवाच:
अनुक्त्वा त्वं धर्ममेवं सभाय़ा; मथेच्छसे पाण्डवस्योपदेष्टुम् |
३५ क
वासुदेव उवाच:
कृष्णा त्वेतत्कर्म चकार शुद्धं; सुदुष्करं तद्धि सभां समेत्य |
३५ ख
वासुदेव उवाच:
येन कृच्छ्रात्पाण्डवानुज्जहार; तथात्मानं नौरिव सागरौघात् ||
३५ ग
वासुदेव उवाच:
यत्राव्रवीत्सूतपुत्रः सभाय़ां; कृष्णां स्थितां श्वशुराणां समीपे |
३६ क
वासुदेव उवाच:
न ते गतिर्विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म |
३६ ख
वासुदेव उवाच:
पराजितास्ते पतय़ो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व ||
३६ ग
वासुदेव उवाच:
यो वीभत्सोर्हृदय़े प्रौढ आसी; दस्थिप्रच्छिन्मर्मघाती सुघोरः |
३७ क
वासुदेव उवाच:
कर्णाच्छरो वाङ्मय़स्तिग्मतेजाः; प्रतिष्ठितो हृदय़े फल्गुनस्य ||
३७ ख
वासुदेव उवाच:
कृष्णाजिनानि परिधित्समाना; न्दुःशासनः कटुकान्यभ्यभाषत् |
३८ क
वासुदेव उवाच:
एते सर्वे षण्ढतिला विनष्टाः; क्षय़ं गता नरकं दीर्घकालम् ||
३८ ख
वासुदेव उवाच:
गान्धारराजः शकुनिर्निकृत्या; यदव्रवीद्द्यूतकाले स पार्थान् |
३९ क
वासुदेव उवाच:
पराजितो नकुलः किं तवास्ति; कृष्णय़ा त्वं दीव्य वै याज्ञसेन्या ||
३९ ख
वासुदेव उवाच:
जानासि त्वं सञ्जय़ सर्वमेत; द्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् |
४० क
वासुदेव उवाच:
स्वय़ं त्वहं प्रार्थय़े तत्र गन्तुं; समाधातुं कार्यमेतद्विपन्नम् ||
४० ख
वासुदेव उवाच:
अहापय़ित्वा यदि पाण्डवार्थं; शमं कुरूणामथ चेच्चरेय़म् |
४१ क
वासुदेव उवाच:
पुण्यं च मे स्याच्चरितं महोदय़ं; मुच्येरंश्च कुरवो मृत्युपाशात् ||
४१ ख
वासुदेव उवाच:
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् |
४२ क
वासुदेव उवाच:
अवेक्षेरन्धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजय़ेय़ुः ||
४२ ख
वासुदेव उवाच:
अतोऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन |
४३ क
वासुदेव उवाच:
परासिक्तान्धार्तराष्ट्रांस्तु विद्धि; प्रदह्यमानान्कर्मणा स्वेन मन्दान् ||
४३ ख
वासुदेव उवाच:
पराजितान्पाण्डवेय़ांस्तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रः |
४४ क
वासुदेव उवाच:
गदाहस्तो भीमसेनोऽप्रमत्तो; दुर्योधनं स्मारय़ित्वा हि काले ||
४४ ख
वासुदेव उवाच:
सुय़ोधनो मन्युमय़ो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः |
४५ क
वासुदेव उवाच:
दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ||
४५ ख
वासुदेव उवाच:
युधिष्ठिरो धर्ममय़ो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः |
४६ क