chevron_left भीष्म पर्व अध्याय २९
श्रीभगवानु उवाच:
मय़्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रय़ः |
१ क
श्रीभगवानु उवाच:
असंशय़ं समग्रं मां यथा ज्ञास्यसि तच्छृणु ||
१ ख
श्रीभगवानु उवाच:
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः |
२ क
श्रीभगवानु उवाच:
यज्ज्ञात्वा नेह भूय़ोऽन्यज्ज्ञातव्यमवशिष्यते ||
२ ख
श्रीभगवानु उवाच:
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धय़े |
३ क
श्रीभगवानु उवाच:
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ||
३ ख
श्रीभगवानु उवाच:
भूमिरापोऽनलो वाय़ुः खं मनो वुद्धिरेव च |
४ क
श्रीभगवानु उवाच:
अहङ्कार इतीय़ं मे भिन्ना प्रकृतिरष्टधा ||
४ ख
श्रीभगवानु उवाच:
अपरेय़मितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |
५ क
श्रीभगवानु उवाच:
जीवभूतां महावाहो यय़ेदं धार्यते जगत् ||
५ ख
श्रीभगवानु उवाच:
एतद्योनीनि भूतानि सर्वाणीत्युपधारय़ |
६ क
श्रीभगवानु उवाच:
अहं कृत्स्नस्य जगतः प्रभवः प्रलय़स्तथा ||
६ ख
श्रीभगवानु उवाच:
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय़ |
७ क
श्रीभगवानु उवाच:
मय़ि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ||
७ ख
श्रीभगवानु उवाच:
रसोऽहमप्सु कौन्तेय़ प्रभास्मि शशिसूर्ययोः |
८ क
श्रीभगवानु उवाच:
प्रणवः सर्ववेदेषु शव्दः खे पौरुषं नृषु ||
८ ख
श्रीभगवानु उवाच:
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ |
९ क
श्रीभगवानु उवाच:
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||
९ ख
श्रीभगवानु उवाच:
वीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |
१० क
श्रीभगवानु उवाच:
वुद्धिर्वुद्धिमतामस्मि तेजस्तेजस्विनामहम् ||
१० ख
श्रीभगवानु उवाच:
वलं वलवतां चाहं कामरागविवर्जितम् |
११ क
श्रीभगवानु उवाच:
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ||
११ ख
श्रीभगवानु उवाच:
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |
१२ क
श्रीभगवानु उवाच:
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मय़ि ||
१२ ख
श्रीभगवानु उवाच:
त्रिभिर्गुणमय़ैर्भावैरेभिः सर्वमिदं जगत् |
१३ क
श्रीभगवानु उवाच:
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||
१३ ख
श्रीभगवानु उवाच:
दैवी ह्येषा गुणमय़ी मम माय़ा दुरत्यया |
१४ क
श्रीभगवानु उवाच:
मामेव ये प्रपद्यन्ते माय़ामेतां तरन्ति ते ||
१४ ख
श्रीभगवानु उवाच:
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः |
१५ क
श्रीभगवानु उवाच:
माय़यापहृतज्ञाना आसुरं भावमाश्रिताः ||
१५ ख
श्रीभगवानु उवाच:
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन |
१६ क
श्रीभगवानु उवाच:
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ||
१६ ख
श्रीभगवानु उवाच:
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |
१७ क
श्रीभगवानु उवाच:
प्रिय़ो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय़ः ||
१७ ख
श्रीभगवानु उवाच:
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |
१८ क
श्रीभगवानु उवाच:
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ||
१८ ख
श्रीभगवानु उवाच:
वहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |
१९ क
श्रीभगवानु उवाच:
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||
१९ ख
श्रीभगवानु उवाच:
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |
२० क
श्रीभगवानु उवाच:
तं तं निय़ममास्थाय़ प्रकृत्या निय़ताः स्वय़ा ||
२० ख
श्रीभगवानु उवाच:
यो यो यां यां तनुं भक्तः श्रद्धय़ार्चितुमिच्छति |
२१ क
श्रीभगवानु उवाच:
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||
२१ ख
श्रीभगवानु उवाच:
स तय़ा श्रद्धय़ा युक्तस्तस्या राधनमीहते |
२२ क
श्रीभगवानु उवाच:
लभते च ततः कामान्मय़ैव विहितान्हि तान् ||
२२ ख
श्रीभगवानु उवाच:
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |
२३ क
श्रीभगवानु उवाच:
देवान्देवय़जो यान्ति मद्भक्ता यान्ति मामपि ||
२३ ख
श्रीभगवानु उवाच:
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामवुद्धय़ः |
२४ क
श्रीभगवानु उवाच:
परं भावमजानन्तो ममाव्ययमनुत्तमम् ||
२४ ख
श्रीभगवानु उवाच:
नाहं प्रकाशः सर्वस्य योगमाय़ासमावृतः |
२५ क
श्रीभगवानु उवाच:
मूढोऽय़ं नाभिजानाति लोको मामजमव्ययम् ||
२५ ख
श्रीभगवानु उवाच:
वेदाहं समतीतानि वर्तमानानि चार्जुन |
२६ क
श्रीभगवानु उवाच:
भविष्याणि च भूतानि मां तु वेद न कश्चन ||
२६ ख
श्रीभगवानु उवाच:
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |
२७ क
श्रीभगवानु उवाच:
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ||
२७ ख
श्रीभगवानु उवाच:
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |
२८ क
श्रीभगवानु उवाच:
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||
२८ ख
श्रीभगवानु उवाच:
जरामरणमोक्षाय़ मामाश्रित्य यतन्ति ये |
२९ क
श्रीभगवानु उवाच:
ते व्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||
२९ ख
श्रीभगवानु उवाच:
साधिभूताधिदैवं मां साधिय़ज्ञं च ये विदुः |
३० क
श्रीभगवानु उवाच:
प्रय़ाणकालेऽपि च मां ते विदुर्युक्तचेतसः ||
३० ख