सञ्जय़ उवाच:
मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रिय़मप्रतीतः |
१ क
सञ्जय़ उवाच:
उवाच शल्यं विदितं ममैत; द्यथाविधावर्जुनवासुदेवौ ||
१ ख
सञ्जय़ उवाच:
शौरे रथं वाहय़तोऽर्जुनस्य; वलं महास्त्राणि च पाण्डवस्य |
२ क
सञ्जय़ उवाच:
अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य ||
२ ख
सञ्जय़ उवाच:
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधय़िष्यामि कृष्णौ |
३ क
सञ्जय़ उवाच:
सन्तापय़त्यभ्यधिकं तु रामा; च्छापोऽद्य मां व्राह्मणसत्तमाच्च ||
३ ख
सञ्जय़ उवाच:
अवात्सं वै व्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः |
४ क
सञ्जय़ उवाच:
तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य ||
४ ख
सञ्जय़ उवाच:
कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम् |
५ क
सञ्जय़ उवाच:
गुरोर्भय़ाच्चापि न चेलिवानहं; तच्चाववुद्धो ददृशे स विप्रः ||
५ ख
सञ्जय़ उवाच:
पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप |
६ क
सञ्जय़ उवाच:
सूतोपधावाप्तमिदं त्वय़ास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् ||
६ ख
सञ्जय़ उवाच:
अन्यत्र यस्मात्तव मृत्युकाला; दव्राह्मणे व्रह्म न हि ध्रुवं स्यात् |
७ क
सञ्जय़ उवाच:
तदद्य पर्याप्तमतीव शस्त्र; मस्मिन्सङ्ग्रामे तुमुले तात भीमे ||
७ ख
सञ्जय़ उवाच:
अपां पतिर्वेगवानप्रमेय़ो; निमज्जय़िष्यन्निवहान्प्रजानाम् |
८ क
सञ्जय़ उवाच:
महानगं यः कुरुते समुद्रं; वेलैव तं वारय़त्यप्रमेय़म् ||
८ ख
सञ्जय़ उवाच:
प्रमुञ्चन्तं वाणसङ्घानमोघा; न्मर्मच्छिदो वीरहणः सपत्रान् |
९ क
सञ्जय़ उवाच:
कुन्तीपुत्रं प्रतिय़ोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके ||
९ ख
सञ्जय़ उवाच:
एवं वलेनातिवलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम् |
१० क
सञ्जय़ उवाच:
शरौघिणं पार्थिवान्मज्जय़न्तं; वेलेव पार्थमिषुभिः संसहिष्ये ||
१० ख
सञ्जय़ उवाच:
अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम् |
११ क
सञ्जय़ उवाच:
सुरासुरान्वै युधि यो जय़ेत; तेनाद्य मे पश्य युद्धं सुघोरम् ||
११ ख
सञ्जय़ उवाच:
अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः |
१२ क
सञ्जय़ उवाच:
तस्यास्त्रमस्त्रैरभिहत्य सङ्ख्ये; शरोत्तमैः पातय़िष्यामि पार्थम् ||
१२ ख
सञ्जय़ उवाच:
दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् |
१३ क
सञ्जय़ उवाच:
तमोनुदं मेघ इवातिमात्रो; धनञ्जय़ं छादय़िष्यामि वाणैः ||
१३ ख
सञ्जय़ उवाच:
वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम् |
१४ क
सञ्जय़ उवाच:
मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमय़िष्यामि युद्धे ||
१४ ख
सञ्जय़ उवाच:
प्रमाथिनं वलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम् |
१५ क
सञ्जय़ उवाच:
युद्धे सहिष्ये हिमवानिवाचलो; धनञ्जय़ं क्रुद्धममृष्यमाणम् ||
१५ ख
सञ्जय़ उवाच:
विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम् |
१६ क
सञ्जय़ उवाच:
लोके वरं सर्वधनुर्धराणां; धनञ्जय़ं संय़ुगे संसहिष्ये ||
१६ ख
सञ्जय़ उवाच:
अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम् |
१७ क
सञ्जय़ उवाच:
सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन ||
१७ ख
सञ्जय़ उवाच:
यः सर्वभूतानि सदेवकानि; प्रस्थेऽजय़त्खाण्डवे सव्यसाची |
१८ क
सञ्जय़ उवाच:
को जीवितं रक्षमाणो हि तेन; युय़ुत्सते मामृते मानुषोऽन्यः ||
१८ ख
सञ्जय़ उवाच:
अहं तस्य पौरुषं पाण्डवस्य; व्रूय़ां हृष्टः समितौ क्षत्रिय़ाणाम् |
१९ क
सञ्जय़ उवाच:
किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य ||
१९ ख
सञ्जय़ उवाच:
अप्रिय़ो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् |
२० क
सञ्जय़ उवाच:
हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमय़ा कालय़ोगात् ||
२० ख
सञ्जय़ उवाच:
अवोचस्त्वं पाण्डवार्थेऽप्रिय़ाणि; प्रधर्षय़न्मां मूढवत्पापकर्मन् |
२१ क
सञ्जय़ उवाच:
मय़्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम् ||
२१ ख
सञ्जय़ उवाच:
कालस्त्वय़ं मृत्युमय़ोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत् |
२२ क
सञ्जय़ उवाच:
तस्यार्थसिद्धिमभिकाङ्क्षमाण; स्तमभ्येष्ये यत्र नैकान्त्यमस्ति ||
२२ ख
सञ्जय़ उवाच:
मित्रं मिदेर्नन्दतेः प्रीय़तेर्वा; सन्त्राय़तेर्मानद मोदतेर्वा |
२३ क
सञ्जय़ उवाच:
व्रवीति तच्चामुत विप्रपूर्वा; त्तच्चापि सर्वं मम दुर्योधनेऽस्ति ||
२३ ख
सञ्जय़ उवाच:
शत्रुः शदेः शासतेः शाय़तेर्वा; शृणातेर्वा श्वय़तेर्वापि सर्गे |
२४ क
सञ्जय़ उवाच:
उपसर्गाद्वहुधा सूदतेश्च; प्राय़ेण सर्वं त्वय़ि तच्च मह्यम् ||
२४ ख
सञ्जय़ उवाच:
दुर्योधनार्थं तव चाप्रिय़ार्थं; यशोर्थमात्मार्थमपीश्वरार्थम् |
२५ क
सञ्जय़ उवाच:
तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ||
२५ ख
सञ्जय़ उवाच:
अस्त्राणि पश्याद्य ममोत्तमानि; व्राह्माणि दिव्यान्यथ मानुषाणि |
२६ क
सञ्जय़ उवाच:
आसादय़िष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः ||
२६ ख
सञ्जय़ उवाच:
अस्त्रं व्राह्मं मनसा तद्ध्यजय़्यं; क्षेप्स्ये पार्थाय़ाप्रतिमं जय़ाय़ |
२७ क
सञ्जय़ उवाच:
तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम् ||
२७ ख
सञ्जय़ उवाच:
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः |
२८ क
सञ्जय़ उवाच:
सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ||
२८ ख
सञ्जय़ उवाच:
नान्यस्मादपि कस्माच्चिद्विभिमो ह्यातताय़िनः |
२९ क
सञ्जय़ उवाच:
इति शल्य विजानीहि यथा नाहं विभेम्यभीः ||
२९ ख
सञ्जय़ उवाच:
तस्माद्भय़ं न मे पार्थान्नापि चैव जनार्दनात् |
३० क
सञ्जय़ उवाच:
अद्य युद्धं हि ताभ्यां मे सम्पराय़े भविष्यति ||
३० ख
सञ्जय़ उवाच:
श्वभ्रे ते पततां चक्रमिति मे व्राह्मणोऽवदत् |
३१ क
सञ्जय़ उवाच:
युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकाय़ने भय़म् ||
३१ ख
सञ्जय़ उवाच:
तस्माद्विभेमि वलवद्व्राह्मणव्याहृतादहम् |
३२ क
सञ्जय़ उवाच:
एते हि सोमराजान ईश्वराः सुखदुःखय़ोः ||
३२ ख
सञ्जय़ उवाच:
होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् |
३३ क
सञ्जय़ उवाच:
चरन्तमजने शल्य व्राह्मणात्तपसो निधेः ||
३३ ख
सञ्जय़ उवाच:
ईषादन्तान्सप्तशतान्दासीदासशतानि च |
३४ क
सञ्जय़ उवाच:
ददतो द्विजमुख्याय़ प्रसादं न चकार मे ||
३४ ख
सञ्जय़ उवाच:
कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश |
३५ क
सञ्जय़ उवाच:
आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ||
३५ ख
सञ्जय़ उवाच:
ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किञ्चन |
३६ क
सञ्जय़ उवाच:
तत्सर्वमस्मै सत्कृत्य प्रय़च्छामि न चेच्छति ||
३६ ख
सञ्जय़ उवाच:
ततोऽव्रवीन्मां याचन्तमपराद्धं प्रय़त्नतः |
३७ क
सञ्जय़ उवाच:
व्याहृतं यन्मय़ा सूत तत्तथा न तदन्यथा ||
३७ ख
सञ्जय़ उवाच:
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुय़ात् |
३८ क
सञ्जय़ उवाच:
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ||
३८ ख
सञ्जय़ उवाच:
मा त्वं व्रह्मगतिं हिंस्याः प्राय़श्चित्तं कृतं त्वय़ा |
३९ क
सञ्जय़ उवाच:
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ||
३९ ख
सञ्जय़ उवाच:
इत्येतत्ते मय़ा प्रोक्तं क्षिप्तेनापि सुहृत्तय़ा |
४० क
सञ्जय़ उवाच:
जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ||
४० ख