धृतराष्ट्र उवाच:
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे |
१ क
धृतराष्ट्र उवाच:
मम सैन्यावशिष्टास्ते किमकुर्वत सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् |
२ क
धृतराष्ट्र उवाच:
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ||
२ ख
सञ्जय़ उवाच:
सम्प्राद्रवत्सु दारेषु क्षत्रिय़ाणां महात्मनाम् |
३ क
सञ्जय़ उवाच:
विद्रुते शिविरे शून्ये भृशोद्विग्नास्त्रय़ो रथाः ||
३ ख
सञ्जय़ उवाच:
निशम्य पाण्डुपुत्राणां तदा विजय़िनां स्वनम् |
४ क
सञ्जय़ उवाच:
विद्रुतं शिविरं दृष्ट्वा साय़ाह्ने राजगृद्धिनः |
४ ख
सञ्जय़ उवाच:
स्थानं नारोचय़ंस्तत्र ततस्ते ह्रदमभ्ययुः ||
४ ग
सञ्जय़ उवाच:
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे |
५ क
सञ्जय़ उवाच:
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सय़ा ||
५ ख
सञ्जय़ उवाच:
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जय़ैषिणः |
६ क
सञ्जय़ उवाच:
यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् ||
६ ख
सञ्जय़ उवाच:
स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् |
७ क
सञ्जय़ उवाच:
तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमाय़या ||
७ ख
सञ्जय़ उवाच:
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः |
८ क
सञ्जय़ उवाच:
ततः स्वशिविरं प्राप्य व्यतिष्ठन्सहसैनिकाः ||
८ ख
सञ्जय़ उवाच:
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः |
९ क
सञ्जय़ उवाच:
संनिविष्टेषु पार्थेषु प्रय़ातास्तं ह्रदं शनैः ||
९ ख
सञ्जय़ उवाच:
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः |
१० क
सञ्जय़ उवाच:
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ||
१० ख
सञ्जय़ उवाच:
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् |
११ क
सञ्जय़ उवाच:
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ||
११ ख
सञ्जय़ उवाच:
तेषामपि वलं सर्वं हतं दुर्योधन त्वय़ा |
१२ क
सञ्जय़ उवाच:
प्रतिरव्धाश्च भूय़िष्ठं ये शिष्टास्तत्र सैनिकाः ||
१२ ख
सञ्जय़ उवाच:
न ते वेगं विषहितुं शक्तास्तव विशां पते |
१३ क
सञ्जय़ उवाच:
अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत ||
१३ ख
दुर्योधन उवाच:
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षय़ात् |
१४ क
दुर्योधन उवाच:
पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् ||
१४ ख
दुर्योधन उवाच:
विजेष्यामो वय़ं सर्वे विश्रान्ता विगतक्लमाः |
१५ क
दुर्योधन उवाच:
भवन्तश्च परिश्रान्ता वय़ं च भृशविक्षताः |
१५ ख
दुर्योधन उवाच:
उदीर्णं च वलं तेषां तेन युद्धं न रोचय़े ||
१५ ग
दुर्योधन उवाच:
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः |
१६ क
दुर्योधन उवाच:
अस्मासु च परा भक्तिर्न तु कालः पराक्रमे ||
१६ ख
दुर्योधन उवाच:
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे |
१७ क
दुर्योधन उवाच:
प्रतिय़ोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशय़ः ||
१७ ख
सञ्जय़ उवाच:
एवमुक्तोऽव्रवीद्द्रौणी राजानं युद्धदुर्मदम् |
१८ क
सञ्जय़ उवाच:
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् ||
१८ ख
सञ्जय़ उवाच:
इष्टापूर्तेन दानेन सत्येन च जपेन च |
१९ क
सञ्जय़ उवाच:
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ||
१९ ख
सञ्जय़ उवाच:
मा स्म यज्ञकृतां प्रीतिं प्राप्नुय़ां सज्जनोचिताम् |
२० क
सञ्जय़ उवाच:
यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे ||
२० ख
सञ्जय़ उवाच:
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो |
२१ क
सञ्जय़ उवाच:
इति सत्यं व्रवीम्येतत्तन्मे शृणु जनाधिप ||
२१ ख
सञ्जय़ उवाच:
तेषु सम्भाषमाणेषु व्याधास्तं देशमाय़युः |
२२ क
सञ्जय़ उवाच:
मांसभारपरिश्रान्ताः पानीय़ार्थं यदृच्छय़ा ||
२२ ख
सञ्जय़ उवाच:
ते हि नित्यं महाराज भीमसेनस्य लुव्धकाः |
२३ क
सञ्जय़ उवाच:
मांसभारानुपाजह्रुर्भक्त्या परमय़ा विभो ||
२३ ख
सञ्जय़ उवाच:
ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः |
२४ क
सञ्जय़ उवाच:
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ||
२४ ख
सञ्जय़ उवाच:
तेऽपि सर्वे महेष्वासा अय़ुद्धार्थिनि कौरवे |
२५ क
सञ्जय़ उवाच:
निर्वन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ||
२५ ख
सञ्जय़ उवाच:
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् |
२६ क
सञ्जय़ उवाच:
अय़ुद्धमनसं चैव राजानं स्थितमम्भसि ||
२६ ख
सञ्जय़ उवाच:
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः |
२७ क
सञ्जय़ उवाच:
व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुय़ोधनम् ||
२७ ख
सञ्जय़ उवाच:
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव |
२८ क
सञ्जय़ उवाच:
यदृच्छोपगतास्तत्र राजानं परिमार्गिताः ||
२८ ख
सञ्जय़ उवाच:
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा |
२९ क
सञ्जय़ उवाच:
अन्योन्यमव्रुवन्राजन्मृगव्याधाः शनैरिदम् ||
२९ ख
सञ्जय़ उवाच:
दुर्योधनं ख्यापय़ामो धनं दास्यति पाण्डवः |
३० क
सञ्जय़ उवाच:
सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः ||
३० ख
सञ्जय़ उवाच:
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः |
३१ क
सञ्जय़ उवाच:
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ||
३१ ख
सञ्जय़ उवाच:
धृतराष्ट्रात्मजं तस्मै भीमसेनाय़ धीमते |
३२ क
सञ्जय़ उवाच:
शय़ानं सलिले सर्वे कथय़ामो धनुर्भृते ||
३२ ख
सञ्जय़ उवाच:
स नो दास्यति सुप्रीतो धनानि वहुलान्युत |
३३ क
सञ्जय़ उवाच:
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ||
३३ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो व्याधाः सम्प्रहृष्टा धनार्थिनः |
३४ क
सञ्जय़ उवाच:
मांसभारानुपादाय़ प्रय़युः शिविरं प्रति ||
३४ ख
सञ्जय़ उवाच:
पाण्डवाश्च महाराज लव्धलक्षाः प्रहारिणः |
३५ क
सञ्जय़ उवाच:
अपश्यमानाः समरे दुर्योधनमवस्थितम् ||
३५ ख
सञ्जय़ उवाच:
निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः |
३६ क
सञ्जय़ उवाच:
चारान्सम्प्रेषय़ामासुः समन्तात्तद्रणाजिरम् ||
३६ ख
सञ्जय़ उवाच:
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् |
३७ क
सञ्जय़ उवाच:
न्यवेदय़न्त सहिता धर्मराजस्य सैनिकाः ||
३७ ख
सञ्जय़ उवाच:
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ |
३८ क
सञ्जय़ उवाच:
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ||
३८ ख
सञ्जय़ उवाच:
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ |
३९ क
सञ्जय़ उवाच:
तस्माद्देशादपक्रम्य त्वरिता लुव्धका विभो ||
३९ ख
सञ्जय़ उवाच:
आजग्मुः शिविरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् |
४० क
सञ्जय़ उवाच:
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ||
४० ख
सञ्जय़ उवाच:
ते तु पाण्डवमासाद्य भीमसेनं महावलम् |
४१ क
सञ्जय़ उवाच:
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ||
४१ ख
सञ्जय़ उवाच:
ततो वृकोदरो राजन्दत्त्वा तेषां धनं वहु |
४२ क
सञ्जय़ उवाच:
धर्मराजाय़ तत्सर्वमाचचक्षे परन्तपः ||
४२ ख
सञ्जय़ उवाच:
असौ दुर्योधनो राजन्विज्ञातो मम लुव्धकैः |
४३ क
सञ्जय़ उवाच:
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ||
४३ ख
सञ्जय़ उवाच:
तद्वचो भीमसेनस्य प्रिय़ं श्रुत्वा विशां पते |
४४ क
सञ्जय़ उवाच:
अजातशत्रुः कौन्तेय़ो हृष्टोऽभूत्सह सोदरैः ||
४४ ख
सञ्जय़ उवाच:
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् |
४५ क
सञ्जय़ उवाच:
क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् ||
४५ ख
सञ्जय़ उवाच:
ततः किलकिलाशव्दः प्रादुरासीद्विशां पते |
४६ क
सञ्जय़ उवाच:
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ||
४६ ख
सञ्जय़ उवाच:
सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ |
४७ क
सञ्जय़ उवाच:
त्वरिताः क्षत्रिय़ा राजञ्जग्मुर्द्वैपाय़नं ह्रदम् ||
४७ ख
सञ्जय़ उवाच:
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे |
४८ क
सञ्जय़ उवाच:
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ||
४८ ख
सञ्जय़ उवाच:
तेषामाशु प्रय़ातानां रथानां तत्र वेगिनाम् |
४९ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दो दिवस्पृक्पृथिवीपते ||
४९ ख