भीष्म उवाच:
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् |
९७ क
भीष्म उवाच:
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ||
९७ ख
भीष्म उवाच:
यतः सर्वाः प्रवर्तन्ते सर्गप्रलय़विक्रिय़ाः |
९८ क
भीष्म उवाच:
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षय़ः ||
९८ ख
भीष्म उवाच:
सर्वे विप्राश्च देवाश्च तथागमविदो जनाः |
९९ क
भीष्म उवाच:
व्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् ||
९९ ख
भीष्म उवाच:
प्रार्थय़न्तश्च तं विप्रा वदन्ति गुणवुद्धय़ः |
१०० क
भीष्म उवाच:
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ||
१०० ख
भीष्म उवाच:
अमूर्तेस्तस्य कौन्तेय़ साङ्ख्यं मूर्तिरिति श्रुतिः |
१०१ क
भीष्म उवाच:
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ||
१०१ ख
भीष्म उवाच:
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते |
१०२ क
भीष्म उवाच:
जङ्गमागमसञ्ज्ञानि जङ्गमं तु विशिष्यते ||
१०२ ख
भीष्म उवाच:
ज्ञानं महद्यद्धि महत्सु राज; न्वेदेषु साङ्ख्येषु तथैव योगे |
१०३ क
भीष्म उवाच:
यच्चापि दृष्टं विविधं पुराणं; साङ्ख्यागतं तन्निखिलं नरेन्द्र ||
१०३ ख
भीष्म उवाच:
यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे |
१०४ क
भीष्म उवाच:
ज्ञानं च लोके यदिहास्ति किं चि; त्साङ्ख्यागतं तच्च महन्महात्मन् ||
१०४ ख
भीष्म उवाच:
शमश्च दृष्टः परमं वलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम् |
१०५ क
भीष्म उवाच:
तपांसि सूक्ष्माणि सुखानि चैव; साङ्ख्ये यथावद्विहितानि राजन् ||
१०५ ख
भीष्म उवाच:
विपर्यये तस्य हि पार्थ देवा; न्गच्छन्ति साङ्ख्याः सततं सुखेन |
१०६ क
भीष्म उवाच:
तांश्चानुसञ्चार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूय़ः ||
१०६ ख
भीष्म उवाच:
हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ साङ्ख्याः |
१०७ क
भीष्म उवाच:
ततोऽधिकं तेऽभिरता महार्हे; साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ||
१०७ ख
भीष्म उवाच:
तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः |
१०८ क
भीष्म उवाच:
न चावुधानामपि ते द्विजातय़ो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः ||
१०८ ख
भीष्म उवाच:
साङ्क्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम् |
१०९ क
भीष्म उवाच:
कृत्स्नं च साङ्ख्यं नृपते महात्मा; नाराय़णो धारय़तेऽप्रमेय़म् ||
१०९ ख
भीष्म उवाच:
एतन्मय़ोक्तं नरदेव तत्त्वं; नाराय़णो विश्वमिदं पुराणम् |
११० क
भीष्म उवाच:
स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूय़ः ||
११० ख