chevron_left वन पर्व अध्याय २९०
वैशम्पाय़न उवाच:
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये |
१ क
वैशम्पाय़न उवाच:
चिन्तय़ामास सा कन्या मन्त्रग्रामवलावलम् ||
१ ख
वैशम्पाय़न उवाच:
अय़ं वै कीदृशस्तेन मम दत्तो महात्मना |
२ क
वैशम्पाय़न उवाच:
मन्त्रग्रामो वलं तस्य ज्ञास्ये नातिचिरादिव ||
२ ख
वैशम्पाय़न उवाच:
एवं सञ्चिन्तय़न्ती सा ददर्शर्तुं यदृच्छय़ा |
३ क
वैशम्पाय़न उवाच:
व्रीडिता साभवद्वाला कन्याभावे रजस्वला ||
३ ख
वैशम्पाय़न उवाच:
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह |
४ क
वैशम्पाय़न उवाच:
न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा ||
४ ख
वैशम्पाय़न उवाच:
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् |
५ क
वैशम्पाय़न उवाच:
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ||
५ ख
वैशम्पाय़न उवाच:
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप |
६ क
वैशम्पाय़न उवाच:
आह्वानमकरोत्साथ तस्य देवस्य भामिनी ||
६ ख
वैशम्पाय़न उवाच:
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् |
७ क
वैशम्पाय़न उवाच:
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ||
७ ख
वैशम्पाय़न उवाच:
मधुपिङ्गो महावाहुः कम्वुग्रीवो हसन्निव |
८ क
वैशम्पाय़न उवाच:
अङ्गदी वद्धमुकुटो दिशः प्रज्वालय़न्निव ||
८ ख
वैशम्पाय़न उवाच:
योगात्कृत्वा द्विधात्मानमाजगाम तताप च |
९ क
वैशम्पाय़न उवाच:
आवभाषे ततः कुन्तीं साम्ना परमवल्गुना ||
९ ख
वैशम्पाय़न उवाच:
आगतोऽस्मि वशं भद्रे तव मन्त्रवलात्कृतः |
१० क
वैशम्पाय़न उवाच:
किं करोम्यवशो राज्ञि व्रूहि कर्ता तदस्मि ते ||
१० ख
कुन्त्यु उवाच:
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः |
११ क
कुन्त्यु उवाच:
कौतूहलात्समाहूतः प्रसीद भगवन्निति ||
११ ख
सूर्य उवाच:
गमिष्येऽहं यथा मां त्वं व्रवीषि तनुमध्यमे |
१२ क
सूर्य उवाच:
न तु देवं समाहूय़ न्याय़्यं प्रेषय़ितुं वृथा ||
१२ ख
सूर्य उवाच:
तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति |
१३ क
सूर्य उवाच:
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ||
१३ ख
सूर्य उवाच:
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि |
१४ क
सूर्य उवाच:
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने ||
१४ ख
सूर्य उवाच:
अथ गच्छाम्यहं भद्रे त्वय़ासङ्गम्य सुस्मिते |
१५ क
सूर्य उवाच:
शप्स्यामि त्वामहं क्रुद्धो व्राह्मणं पितरं च ते ||
१५ ख
सूर्य उवाच:
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशय़ः |
१६ क
सूर्य उवाच:
पितरं चैव ते मूढं यो न वेत्ति तवानय़म् ||
१६ ख
सूर्य उवाच:
तस्य च व्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव |
१७ क
सूर्य उवाच:
शीलवृत्तमविज्ञाय़ धास्यामि विनय़ं परम् ||
१७ ख
सूर्य उवाच:
एते हि विवुधाः सर्वे पुरन्दरमुखा दिवि |
१८ क
सूर्य उवाच:
त्वय़ा प्रलव्धं पश्यन्ति स्मय़न्त इव भामिनि ||
१८ ख
सूर्य उवाच:
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते |
१९ क
सूर्य उवाच:
पूर्वमेव मय़ा दत्तं दृष्टवत्यसि येन माम् ||
१९ ख
वैशम्पाय़न उवाच:
ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् |
२० क
वैशम्पाय़न उवाच:
प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव ||
२० ख
वैशम्पाय़न उवाच:
सा तान्दृष्ट्वा व्रीडमानेव वाला; सूर्यं देवी वचनं प्राह भीता |
२१ क
वैशम्पाय़न उवाच:
गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः ||
२१ ख
वैशम्पाय़न उवाच:
पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने |
२२ क
वैशम्पाय़न उवाच:
नाहं धर्मं लोपय़िष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा ||
२२ ख
वैशम्पाय़न उवाच:
मय़ा मन्त्रवलं ज्ञातुमाहूतस्त्वं विभावसो |
२३ क
वैशम्पाय़न उवाच:
वाल्याद्वालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ||
२३ ख
सूर्य उवाच:
वालेति कृत्वानुनय़ं तवाहं; ददानि नान्यानुनय़ं लभेत |
२४ क
सूर्य उवाच:
आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु ||
२४ ख
सूर्य उवाच:
न चापि युक्तं गन्तुं हि मय़ा मिथ्याकृतेन वै |
२५ क
सूर्य उवाच:
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् |
२५ ख
सूर्य उवाच:
सर्वेषां विवुधानां च वक्तव्यः स्यामहं शुभे ||
२५ ग
सूर्य उवाच:
सा त्वं मय़ा समागच्छ पुत्रं लप्स्यसि मादृशम् |
२६ क
सूर्य उवाच:
विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ||
२६ ख