वसिष्ठ उवाच:
एवमप्रतिवुद्धत्वादवुद्धमनुवर्तते |
१ क
वसिष्ठ उवाच:
देहाद्देहसहस्राणि तथा समभिपद्यते ||
१ ख
वसिष्ठ उवाच:
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि |
२ क
वसिष्ठ उवाच:
उपपद्यति संय़ोगाद्गुणैः सह गुणक्षय़ात् ||
२ ख
वसिष्ठ उवाच:
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च |
३ क
वसिष्ठ उवाच:
मानुष्यान्निरय़स्थानमानन्त्यं प्रतिपद्यते ||
३ ख
वसिष्ठ उवाच:
कोशकारो यथात्मानं कीटः समनुरुन्धति |
४ क
वसिष्ठ उवाच:
सूत्रतन्तुगुणैर्नित्यं तथाय़मगुणो गुणैः ||
४ ख
वसिष्ठ उवाच:
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु |
५ क
वसिष्ठ उवाच:
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ||
५ ख
वसिष्ठ उवाच:
जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके |
६ क
वसिष्ठ उवाच:
श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारय़ोरपि ||
६ ख
वसिष्ठ उवाच:
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु |
७ क
वसिष्ठ उवाच:
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते |
७ ख
वसिष्ठ उवाच:
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ||
७ ग
वसिष्ठ उवाच:
एकवासाश्च दुर्वासाः शाय़ी नित्यमधस्तथा |
८ क
वसिष्ठ उवाच:
मण्डूकशाय़ी च तथा वीरासनगतस्तथा ||
८ ख
वसिष्ठ उवाच:
चीरधारणमाकाशे शय़नं स्थानमेव च |
९ क
वसिष्ठ उवाच:
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ||
९ ख
वसिष्ठ उवाच:
भस्मप्रस्तरशाय़ी च भूमिशय़्यानुलेपनः |
१० क
वसिष्ठ उवाच:
वीरस्थानाम्वुपङ्के च शय़नं फलकेषु च ||
१० ख
वसिष्ठ उवाच:
विविधासु च शय़्यासु फलगृद्ध्यान्वितोऽफलः |
११ क
वसिष्ठ उवाच:
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ||
११ ख
वसिष्ठ उवाच:
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः |
१२ क
वसिष्ठ उवाच:
सिंहचर्मपरीधानः पट्टवासास्तथैव च ||
१२ ख
वसिष्ठ उवाच:
कीटकावसनश्चैव चीरवासास्तथैव च |
१३ क
वसिष्ठ उवाच:
वस्त्राणि चान्यानि वहून्यभिमन्यत्यवुद्धिमान् ||
१३ ख
वसिष्ठ उवाच:
भोजनानि विचित्राणि रत्नानि विविधानि च |
१४ क
वसिष्ठ उवाच:
एकवस्त्रान्तराशित्वमेककालिकभोजनम् ||
१४ ख
वसिष्ठ उवाच:
चतुर्थाष्टमकालश्च षष्ठकालिक एव च |
१५ क
वसिष्ठ उवाच:
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ||
१५ ख
वसिष्ठ उवाच:
सप्तरात्रदशाहारो द्वादशाहार एव च |
१६ क
वसिष्ठ उवाच:
मासोपवासी मूलाशी फलाहारस्तथैव च ||
१६ ख
वसिष्ठ उवाच:
वाय़ुभक्षोऽम्वुपिण्याकगोमय़ादन एव च |
१७ क
वसिष्ठ उवाच:
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ||
१७ ख
वसिष्ठ उवाच:
शैवालभोजनश्चैव तथाचामेन वर्तय़न् |
१८ क
वसिष्ठ उवाच:
वर्तय़ञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ||
१८ ख
वसिष्ठ उवाच:
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षय़ा |
१९ क
वसिष्ठ उवाच:
चान्द्राय़णानि विधिवल्लिङ्गानि विविधानि च ||
१९ ख
वसिष्ठ उवाच:
चातुराश्रम्यपन्थानमाश्रय़त्याश्रमानपि |
२० क
वसिष्ठ उवाच:
उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च ||
२० ख
वसिष्ठ उवाच:
विविक्ताश्च शिलाछाय़ास्तथा प्रस्रवणानि च |
२१ क
वसिष्ठ उवाच:
विविधानि च जप्यानि विविधानि व्रतानि च ||
२१ ख
वसिष्ठ उवाच:
निय़मान्सुविचित्रांश्च विविधानि तपांसि च |
२२ क
वसिष्ठ उवाच:
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ||
२२ ख
वसिष्ठ उवाच:
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च |
२३ क
वसिष्ठ उवाच:
दानं च विविधाकारं दीनान्धकृपणेष्वपि ||
२३ ख
वसिष्ठ उवाच:
अभिमन्यत्यसम्वोधात्तथैव त्रिविधान्गुणान् |
२४ क
वसिष्ठ उवाच:
सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च |
२४ ख
वसिष्ठ उवाच:
प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ||
२४ ग
वसिष्ठ उवाच:
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रिय़ाः |
२५ क
वसिष्ठ उवाच:
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् |
२५ ख
वसिष्ठ उवाच:
यजनाध्ययने चैव यच्चान्यदपि किञ्चन ||
२५ ग
वसिष्ठ उवाच:
जन्ममृत्युविवादे च तथा विशसनेऽपि च |
२६ क
वसिष्ठ उवाच:
शुभाशुभमय़ं सर्वमेतदाहुः क्रिय़ापथम् ||
२६ ख
वसिष्ठ उवाच:
प्रकृतिः कुरुते देवी महाप्रलय़मेव च |
२७ क
वसिष्ठ उवाच:
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति ||
२७ ख
वसिष्ठ उवाच:
रश्मिजालमिवादित्यस्तत्कालेन निय़च्छति |
२८ क
वसिष्ठ उवाच:
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ||
२८ ख
वसिष्ठ उवाच:
आत्मरूपगुणानेतान्विविधान्हृदय़प्रिय़ान् |
२९ क
वसिष्ठ उवाच:
एवमेव विकुर्वाणः सर्गप्रलय़कर्मणी ||
२९ ख
वसिष्ठ उवाच:
क्रिय़ाक्रिय़ा पथे रक्तस्त्रिगुणस्त्रिगुणातिगः |
३० क
वसिष्ठ उवाच:
क्रिय़ाक्रिय़ापथोपेतस्तथा तदिति मन्यते ||
३० ख
वसिष्ठ उवाच:
एवं द्वन्द्वान्यथैतानि वर्तन्ते मम नित्यशः |
३१ क
वसिष्ठ उवाच:
ममैवैतानि जाय़न्ते वाधन्ते तानि मामिति ||
३१ ख
वसिष्ठ उवाच:
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप |
३२ क
वसिष्ठ उवाच:
मन्यतेऽय़ं ह्यवुद्धित्वात्तथैव सुकृतान्यपि ||
३२ ख
वसिष्ठ उवाच:
भोक्तव्यानि मय़ैतानि देवलोकगतेन वै |
३३ क
वसिष्ठ उवाच:
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदय़म् ||
३३ ख
वसिष्ठ उवाच:
सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम |
३४ क
वसिष्ठ उवाच:
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ||
३४ ख
वसिष्ठ उवाच:
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् |
३५ क
वसिष्ठ उवाच:
महद्दुःखं हि मानुष्यं निरय़े चापि मज्जनम् ||
३५ ख
वसिष्ठ उवाच:
निरय़ाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः |
३६ क
वसिष्ठ उवाच:
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः |
३६ ख
वसिष्ठ उवाच:
मनुष्यत्वाच्च निरय़ं पर्याय़ेणोपगच्छति ||
३६ ग
वसिष्ठ उवाच:
य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः |
३७ क
वसिष्ठ उवाच:
तेन देवमनुष्येषु निरय़े चोपपद्यते ||
३७ ख
वसिष्ठ उवाच:
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते |
३८ क
वसिष्ठ उवाच:
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ||
३८ ख
वसिष्ठ उवाच:
य एवं कुरुते कर्म शुभाशुभफलात्मकम् |
३९ क
वसिष्ठ उवाच:
स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् ||
३९ ख
वसिष्ठ उवाच:
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् |
४० क
वसिष्ठ उवाच:
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ||
४० ख
वसिष्ठ उवाच:
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च |
४१ क
वसिष्ठ उवाच:
त्रीणि स्थानानि चैतानि जानीय़ात्प्राकृतानि ह ||
४१ ख
वसिष्ठ उवाच:
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे |
४२ क
वसिष्ठ उवाच:
तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति ||
४२ ख
वसिष्ठ उवाच:
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् |
४३ क
वसिष्ठ उवाच:
व्रणद्वाराण्यधिष्ठाय़ कर्माण्यात्मनि मन्यते ||
४३ ख
वसिष्ठ उवाच:
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रिय़ाणि च |
४४ क
वसिष्ठ उवाच:
वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह |
४४ ख
वसिष्ठ उवाच:
अहमेतानि वै कुर्वन्ममैतानीन्द्रिय़ाणि च ||
४४ ग
वसिष्ठ उवाच:
निरिन्द्रिय़ोऽभिमन्येत व्रणवानस्मि निर्व्रणः |
४५ क
वसिष्ठ उवाच:
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ||
४५ ख
वसिष्ठ उवाच:
असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः |
४६ क
वसिष्ठ उवाच:
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ||
४६ ख
वसिष्ठ उवाच:
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः |
४७ क
वसिष्ठ उवाच:
अतपास्तप आत्मानमगतिर्गतिमात्मनः ||
४७ ख
वसिष्ठ उवाच:
अभवो भवमात्मानमभय़ो भय़मात्मनः |
४८ क