chevron_left शान्ति पर्व अध्याय २९३
वसिष्ठ उवाच:
एवमप्रतिवुद्धत्वादवुद्धजनसेवनात् |
१ क
वसिष्ठ उवाच:
सर्गकोटिसहस्राणि पतनान्तानि गच्छति ||
१ ख
वसिष्ठ उवाच:
धाम्ना धामसहस्राणि मरणान्तानि गच्छति |
२ क
वसिष्ठ उवाच:
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ||
२ ख
वसिष्ठ उवाच:
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः |
३ क
वसिष्ठ उवाच:
लीय़तेऽप्रतिवुद्धत्वादेवमेष ह्यवुद्धिमान् ||
३ ख
वसिष्ठ उवाच:
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते |
४ क
वसिष्ठ उवाच:
नित्यमेतद्विजानीहि सोमः षोडशमी कला ||
४ ख
वसिष्ठ उवाच:
कलाय़ां जाय़तेऽजस्रं पुनः पुनरवुद्धिमान् |
५ क
वसिष्ठ उवाच:
धाम तस्योपय़ुञ्जन्ति भूय़ एव तु जाय़ते ||
५ ख
वसिष्ठ उवाच:
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् |
६ क
वसिष्ठ उवाच:
न तूपय़ुज्यते देवैर्देवानुपय़ुनक्ति सा ||
६ ख
वसिष्ठ उवाच:
एवं तां क्षपय़ित्वा हि जाय़ते नृपसत्तम |
७ क
वसिष्ठ उवाच:
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षय़ान्मोक्ष उच्यते ||
७ ख
वसिष्ठ उवाच:
तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञकम् |
८ क
वसिष्ठ उवाच:
ममाय़मिति मन्वानस्तत्रैव परिवर्तते ||
८ ख
वसिष्ठ उवाच:
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिवोधनात् |
९ क
वसिष्ठ उवाच:
विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् ||
९ ख
वसिष्ठ उवाच:
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव |
१० क
वसिष्ठ उवाच:
अवुद्धसेवनाच्चापि वुद्धोऽप्यवुधतां व्रजेत् ||
१० ख
वसिष्ठ उवाच:
तथैवाप्रतिवुद्धोऽपि ज्ञेय़ो नृपतिसत्तम |
११ क
वसिष्ठ उवाच:
प्रकृतेस्त्रिगुणाय़ास्तु सेवनात्प्राकृतो भवेत् ||
११ ख
करालजनक उवाच:
अक्षरक्षरय़ोरेष द्वय़ोः सम्वन्ध इष्यते |
१२ क
करालजनक उवाच:
स्त्रीपुंसोर्वापि भगवन्सम्वन्धस्तद्वदुच्यते ||
१२ ख
करालजनक उवाच:
ऋते न पुरुषेणेह स्त्री गर्भं धारय़त्युत |
१३ क
करालजनक उवाच:
ऋते स्त्रिय़ं न पुरुषो रूपं निर्वर्तय़ेत्तथा ||
१३ ख
करालजनक उवाच:
अन्योन्यस्याभिसम्वन्धादन्योन्यगुणसंश्रय़ात् |
१४ क
करालजनक उवाच:
रूपं निर्वर्तय़त्येतदेवं सर्वासु योनिषु ||
१४ ख
करालजनक उवाच:
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रय़ात् |
१५ क
करालजनक उवाच:
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ||
१५ ख
करालजनक उवाच:
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा |
१६ क
करालजनक उवाच:
अस्थि स्नाय़ु च मज्जा च जानीमः पितृतो द्विज ||
१६ ख
करालजनक उवाच:
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम |
१७ क
करालजनक उवाच:
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ||
१७ ख
करालजनक उवाच:
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते |
१८ क
करालजनक उवाच:
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ||
१८ ख
करालजनक उवाच:
एवमेवाभिसम्वद्धौ नित्यं प्रकृतिपूरुषौ |
१९ क
करालजनक उवाच:
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ||
१९ ख
करालजनक उवाच:
अथ वानन्तरकृतं किञ्चिदेव निदर्शनम् |
२० क
करालजनक उवाच:
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ||
२० ख
करालजनक उवाच:
मोक्षकामा वय़ं चापि काङ्क्षामो यदनामय़म् |
२१ क
करालजनक उवाच:
अदेहमजरं दिव्यमतीन्द्रिय़मनीश्वरम् ||
२१ ख
वसिष्ठ उवाच:
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् |
२२ क
वसिष्ठ उवाच:
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ||
२२ ख
वसिष्ठ उवाच:
धार्यते हि त्वय़ा ग्रन्थ उभय़ोर्वेदशास्त्रय़ोः |
२३ क
वसिष्ठ उवाच:
न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ||
२३ ख
वसिष्ठ उवाच:
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः |
२४ क
वसिष्ठ उवाच:
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ||
२४ ख
वसिष्ठ उवाच:
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः |
२५ क
वसिष्ठ उवाच:
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ||
२५ ख
वसिष्ठ उवाच:
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति |
२६ क
वसिष्ठ उवाच:
यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ||
२६ ख
वसिष्ठ उवाच:
यस्तु संसत्सु कथय़ेद्ग्रन्थार्थं स्थूलवुद्धिमान् |
२७ क
वसिष्ठ उवाच:
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णय़ात् ||
२७ ख
वसिष्ठ उवाच:
निर्णय़ं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः |
२८ क
वसिष्ठ उवाच:
सोपहासात्मतामेति यस्माच्चैवात्मवानपि ||
२८ ख
वसिष्ठ उवाच:
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते |
२९ क
वसिष्ठ उवाच:
याथातथ्येन साङ्ख्येषु योगेषु च महात्मसु ||
२९ ख
वसिष्ठ उवाच:
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदनुगम्यते |
३० क
वसिष्ठ उवाच:
एकं साङ्ख्यं च योगं च यः पश्यति स वुद्धिमान् ||
३० ख
वसिष्ठ उवाच:
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नाय़ु च |
३१ क
वसिष्ठ उवाच:
एतदैन्द्रिय़कं तात यद्भवानिदमाह वै ||
३१ ख
वसिष्ठ उवाच:
द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रिय़ादिन्द्रिय़ं तथा |
३२ क
वसिष्ठ उवाच:
देहाद्देहमवाप्नोति वीजाद्वीजं तथैव च ||
३२ ख
वसिष्ठ उवाच:
निरिन्द्रिय़स्यावीजस्य निर्द्रव्यस्यास्य देहिनः |
३३ क
वसिष्ठ उवाच:
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ||
३३ ख
वसिष्ठ उवाच:
गुणा गुणेषु जाय़न्ते तत्रैव निविशन्ति च |
३४ क
वसिष्ठ उवाच:
एवं गुणाः प्रकृतितो जाय़न्ते च न सन्ति च ||
३४ ख
वसिष्ठ उवाच:
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नाय़ु च |
३५ क
वसिष्ठ उवाच:
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ||
३५ ख
वसिष्ठ उवाच:
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् |
३६ क
वसिष्ठ उवाच:
नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीय़ते ||
३६ ख
वसिष्ठ उवाच:
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः |
३७ क
वसिष्ठ उवाच:
यथा पुष्पफलैर्नित्यमृतवो मूर्तय़स्तथा ||
३७ ख
वसिष्ठ उवाच:
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते |
३८ क
वसिष्ठ उवाच:
पञ्चविंशतिमस्तात लिङ्गेष्वनिय़तात्मकः ||
३८ ख
वसिष्ठ उवाच:
अनादिनिधनोऽनन्तः सर्वदर्शी निरामय़ः |
३९ क
वसिष्ठ उवाच:
केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ||
३९ ख
वसिष्ठ उवाच:
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः |
४० क
वसिष्ठ उवाच:
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ||
४० ख
वसिष्ठ उवाच:
यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते |
४१ क
वसिष्ठ उवाच:
तदा स गुणवानेव परमेणानुपश्यति ||
४१ ख
वसिष्ठ उवाच:
यत्तद्वुद्धेः परं प्राहुः साङ्ख्या योगाश्च सर्वशः |
४२ क
वसिष्ठ उवाच:
वुध्यमानं महाप्राज्ञमवुद्धपरिवर्जनात् ||
४२ ख
वसिष्ठ उवाच:
अप्रवुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् |
४३ क
वसिष्ठ उवाच:
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ||
४३ ख
वसिष्ठ उवाच:
प्रकृतेश्च गुणानां च पञ्चविंशतिकं वुधाः |
४४ क
वसिष्ठ उवाच:
साङ्ख्ययोगे च कुशला वुध्यन्ते परमैषिणः ||
४४ ख
वसिष्ठ उवाच:
यदा प्रवुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः |
४५ क
वसिष्ठ उवाच:
वुध्यमानं प्रवुध्यन्ति गमय़न्ति समं तदा ||
४५ ख
वसिष्ठ उवाच:
एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् |
४६ क
वसिष्ठ उवाच:
वुध्यमानाप्रवुद्धाभ्यां पृथक्पृथगरिन्दम ||
४६ ख
वसिष्ठ उवाच:
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् |
४७ क
वसिष्ठ उवाच:
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ||
४७ ख
वसिष्ठ उवाच:
पञ्चविंशतिनिष्ठोऽय़ं यदासम्यक्प्रवर्तते |
४८ क
वसिष्ठ उवाच:
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ||
४८ ख
वसिष्ठ उवाच:
तत्त्वनिस्तत्त्वय़ोरेतत्पृथगेव निदर्शनम् |
४९ क
वसिष्ठ उवाच:
पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ||
४९ ख
वसिष्ठ उवाच:
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् |
५० क
वसिष्ठ उवाच:
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ||
५० ख