chevron_left वन पर्व अध्याय २९३
वैशम्पाय़न उवाच:
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा |
१ क
वैशम्पाय़न उवाच:
सूतोऽधिरथ इत्येव सदारो जाह्नवीं यय़ौ ||
१ ख
वैशम्पाय़न उवाच:
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि |
२ क
वैशम्पाय़न उवाच:
राधा नाम महाभागा न सा पुत्रमविन्दत |
२ ख
वैशम्पाय़न उवाच:
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ||
२ ग
वैशम्पाय़न उवाच:
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छय़ा |
३ क
वैशम्पाय़न उवाच:
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् |
३ ख
वैशम्पाय़न उवाच:
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ||
३ ग
वैशम्पाय़न उवाच:
सा तां कौतूहलात्प्राप्तां ग्राहय़ामास भामिनी |
४ क
वैशम्पाय़न उवाच:
ततो निवेदय़ामास सूतस्याधिरथस्य वै ||
४ ख
वैशम्पाय़न उवाच:
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् |
५ क
वैशम्पाय़न उवाच:
यन्त्रैरुद्घाटय़ामास सोऽपश्यत्तत्र वालकम् ||
५ ख
वैशम्पाय़न उवाच:
तरुणादित्यसङ्काशं हेमवर्मधरं तथा |
६ क
वैशम्पाय़न उवाच:
मृष्टकुण्डलय़ुक्तेन वदनेन विराजता ||
६ ख
वैशम्पाय़न उवाच:
स सूतो भार्यया सार्धं विस्मय़ोत्फुल्ललोचनः |
७ क
वैशम्पाय़न उवाच:
अङ्कमारोप्य तं वालं भार्यां वचनमव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि |
८ क
वैशम्पाय़न उवाच:
दृष्टवान्देवगर्भोऽय़ं मन्येऽस्मान्समुपागतः ||
८ ख
वैशम्पाय़न उवाच:
अनपत्यस्य पुत्रोऽय़ं देवैर्दत्तो ध्रुवं मम |
९ क
वैशम्पाय़न उवाच:
इत्युक्त्वा तं ददौ पुत्रं राधाय़ै स महीपते ||
९ ख
वैशम्पाय़न उवाच:
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् |
१० क
वैशम्पाय़न उवाच:
पुत्रं कमलगर्भाभं देवगर्भं श्रिय़ा वृतम् ||
१० ख
वैशम्पाय़न उवाच:
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् |
११ क
वैशम्पाय़न उवाच:
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ||
११ ख
वैशम्पाय़न उवाच:
वसुवर्मधरं दृष्ट्वा तं वालं हेमकुण्डलम् |
१२ क
वैशम्पाय़न उवाच:
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातय़ः ||
१२ ख
वैशम्पाय़न उवाच:
एवं स सूतपुत्रत्वं जगामामितविक्रमः |
१३ क
वैशम्पाय़न उवाच:
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ||
१३ ख
वैशम्पाय़न उवाच:
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् |
१४ क
वैशम्पाय़न उवाच:
चारेण विदितश्चासीत्पृथाय़ा दिव्यवर्मभृत् ||
१४ ख
वैशम्पाय़न उवाच:
सूतस्त्वधिरथः पुत्रं विवृद्धं समय़े ततः |
१५ क
वैशम्पाय़न उवाच:
दृष्ट्वा प्रस्थापय़ामास पुरं वारणसाह्वय़म् ||
१५ ख
वैशम्पाय़न उवाच:
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि |
१६ क
वैशम्पाय़न उवाच:
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ||
१६ ख
वैशम्पाय़न उवाच:
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् |
१७ क
वैशम्पाय़न उवाच:
लव्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ||
१७ ख
वैशम्पाय़न उवाच:
सन्धाय़ धार्तराष्ट्रेण पार्थानां विप्रिय़े स्थितः |
१८ क
वैशम्पाय़न उवाच:
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ||
१८ ख
वैशम्पाय़न उवाच:
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते |
१९ क
वैशम्पाय़न उवाच:
अर्जुनस्य च कर्णेन यतो दृष्टो वभूव सः ||
१९ ख
वैशम्पाय़न उवाच:
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् |
२० क
वैशम्पाय़न उवाच:
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ||
२० ख
वैशम्पाय़न उवाच:
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् |
२१ क
वैशम्पाय़न उवाच:
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिले स्थितः ||
२१ ख
वैशम्पाय़न उवाच:
तत्रैनमुपतिष्ठन्ति व्राह्मणा धनहेतवः |
२२ क
वैशम्पाय़न उवाच:
नादेय़ं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ||
२२ ख
वैशम्पाय़न उवाच:
तमिन्द्रो व्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः |
२३ क
वैशम्पाय़न उवाच:
स्वागतं चेति राधेय़स्तमथ प्रत्यभाषत ||
२३ ख