chevron_left शान्ति पर्व अध्याय २९४
करालजनक उवाच:
नानात्वैकत्वमित्युक्तं त्वय़ैतदृषिसत्तम |
१ क
करालजनक उवाच:
पश्यामि चाभिसन्दिग्धमेतय़ोर्वै निदर्शनम् ||
१ ख
करालजनक उवाच:
तथाप्रवुद्धवुद्धाभ्यां वुध्यमानस्य चानघ |
२ क
करालजनक उवाच:
स्थूलवुद्ध्या न पश्यामि तत्त्वमेतन्न संशय़ः ||
२ ख
करालजनक उवाच:
अक्षरक्षरय़ोरुक्तं त्वय़ा यदपि कारणम् |
३ क
करालजनक उवाच:
तदप्यस्थिरवुद्धित्वात्प्रनष्टमिव मेऽनघ ||
३ ख
करालजनक उवाच:
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् |
४ क
करालजनक उवाच:
वुद्धमप्रतिवुद्धं च वुध्यमानं च तत्त्वतः ||
४ ख
करालजनक उवाच:
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च |
५ क
करालजनक उवाच:
साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ||
५ ख
वसिष्ठ उवाच:
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि |
६ क
वसिष्ठ उवाच:
योगकृत्यं महाराज पृथगेव शृणुष्व मे ||
६ ख
वसिष्ठ उवाच:
योगकृत्यं तु योगानां ध्यानमेव परं वलम् |
७ क
वसिष्ठ उवाच:
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ||
७ ख
वसिष्ठ उवाच:
एकाग्रता च मनसः प्राणाय़ामस्तथैव च |
८ क
वसिष्ठ उवाच:
प्राणाय़ामस्तु सगुणो निर्गुणो मनसस्तथा ||
८ ख
वसिष्ठ उवाच:
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप |
९ क
वसिष्ठ उवाच:
त्रिकालं नाभिय़ुञ्जीत शेषं युञ्जीत तत्परः ||
९ ख
वसिष्ठ उवाच:
इन्द्रिय़ाणीन्द्रिय़ार्थेभ्यो निवर्त्य मनसा मुनिः |
१० क
वसिष्ठ उवाच:
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ||
१० ख
वसिष्ठ उवाच:
तं चोदनाभिर्मतिमानात्मानं चोदय़ेदथ |
११ क
वसिष्ठ उवाच:
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ||
११ ख
वसिष्ठ उवाच:
तैश्चात्मा सततं ज्ञेय़ इत्येवमनुशुश्रुम |
१२ क
वसिष्ठ उवाच:
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चय़ः ||
१२ ख
वसिष्ठ उवाच:
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रिय़ः |
१३ क
वसिष्ठ उवाच:
पूर्वरात्रे परे चैव धारय़ेत मनोऽऽत्मनि ||
१३ ख
वसिष्ठ उवाच:
स्थिरीकृत्येन्द्रिय़ग्रामं मनसा मिथिलेश्वर |
१४ क
वसिष्ठ उवाच:
मनो वुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ||
१४ ख
वसिष्ठ उवाच:
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः |
१५ क
वसिष्ठ उवाच:
वुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ||
१५ ख
वसिष्ठ उवाच:
न शृणोति न चाघ्राति न रस्यति न पश्यति |
१६ क
वसिष्ठ उवाच:
न च स्पर्शं विजानाति न सङ्कल्पय़ते मनः ||
१६ ख
वसिष्ठ उवाच:
न चाभिमन्यते किञ्चिन्न च वुध्यति काष्ठवत् |
१७ क
वसिष्ठ उवाच:
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ||
१७ ख
वसिष्ठ उवाच:
निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते |
१८ क
वसिष्ठ उवाच:
निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुय़ात् ||
१८ ख
वसिष्ठ उवाच:
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते |
१९ क
वसिष्ठ उवाच:
हृदय़स्थोऽन्तरात्मेति ज्ञेय़ो ज्ञस्तात मद्विधैः ||
१९ ख
वसिष्ठ उवाच:
विधूम इव सप्तार्चिरादित्य इव रश्मिमान् |
२० क
वसिष्ठ उवाच:
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि ||
२० ख
वसिष्ठ उवाच:
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः |
२१ क
वसिष्ठ उवाच:
व्राह्मणा व्रह्मय़ोनिष्ठा ह्ययोनिममृतात्मकम् ||
२१ ख
वसिष्ठ उवाच:
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् |
२२ क
वसिष्ठ उवाच:
तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ||
२२ ख
वसिष्ठ उवाच:
वुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् |
२३ क
वसिष्ठ उवाच:
महतस्तमसस्तात पारे तिष्ठन्नतामसः ||
२३ ख
वसिष्ठ उवाच:
स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः |
२४ क
वसिष्ठ उवाच:
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसञ्ज्ञितः ||
२४ ख
वसिष्ठ उवाच:
योगमेतद्धि योगानां मन्ये योगस्य लक्षणम् |
२५ क
वसिष्ठ उवाच:
एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम् ||
२५ ख
वसिष्ठ उवाच:
योगदर्शनमेतावदुक्तं ते तत्त्वतो मय़ा |
२६ क
वसिष्ठ उवाच:
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानिदर्शनम् ||
२६ ख
वसिष्ठ उवाच:
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः |
२७ क
वसिष्ठ उवाच:
तस्मान्महत्समुत्पन्नं द्वितीय़ं राजसत्तम ||
२७ ख
वसिष्ठ उवाच:
अहङ्कारस्तु महतस्तृतीय़मिति नः श्रुतम् |
२८ क
वसिष्ठ उवाच:
पञ्च भूतान्यहङ्कारादाहुः साङ्ख्यानुदर्शिनः ||
२८ ख
वसिष्ठ उवाच:
एताः प्रकृतय़स्त्वष्टौ विकाराश्चापि षोडश |
२९ क
वसिष्ठ उवाच:
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रिय़ाणि च ||
२९ ख
वसिष्ठ उवाच:
एतावदेव तत्त्वानां साङ्ख्यमाहुर्मनीषिणः |
३० क
वसिष्ठ उवाच:
साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ||
३० ख
वसिष्ठ उवाच:
यस्माद्यदभिजाय़ेत तत्तत्रैव प्रलीय़ते |
३१ क
वसिष्ठ उवाच:
लीय़न्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ||
३१ ख
वसिष्ठ उवाच:
अनुलोमेन जाय़न्ते लीय़न्ते प्रतिलोमतः |
३२ क
वसिष्ठ उवाच:
गुणा गुणेषु सततं सागरस्योर्मय़ो यथा ||
३२ ख
वसिष्ठ उवाच:
सर्गप्रलय़ एतावान्प्रकृतेर्नृपसत्तम |
३३ क
वसिष्ठ उवाच:
एकत्वं प्रलय़े चास्य वहुत्वं च यदासृजत् |
३३ ख
वसिष्ठ उवाच:
एवमेव च राजेन्द्र विज्ञेय़ं ज्ञेय़चिन्तकैः ||
३३ ग
वसिष्ठ उवाच:
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् |
३४ क
वसिष्ठ उवाच:
एकत्वं च वहुत्वं च प्रकृतेरनु तत्त्ववान् |
३४ ख
वसिष्ठ उवाच:
एकत्वं प्रलय़े चास्य वहुत्वं च प्रवर्तनात् ||
३४ ग
वसिष्ठ उवाच:
वहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् |
३५ क
वसिष्ठ उवाच:
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ||
३५ ख
वसिष्ठ उवाच:
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः |
३६ क
वसिष्ठ उवाच:
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ||
३६ ख
वसिष्ठ उवाच:
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते |
३७ क
वसिष्ठ उवाच:
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ||
३७ ख
वसिष्ठ उवाच:
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते |
३८ क
वसिष्ठ उवाच:
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ||
३८ ख
वसिष्ठ उवाच:
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेय़ं तदुच्यते |
३९ क
वसिष्ठ उवाच:
ज्ञानमव्यक्तमित्युक्तं ज्ञेय़ो वै पञ्चविंशकः ||
३९ ख
वसिष्ठ उवाच:
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् |
४० क
वसिष्ठ उवाच:
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ||
४० ख
वसिष्ठ उवाच:
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् |
४१ क
वसिष्ठ उवाच:
साङ्ख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते ||
४१ ख
वसिष्ठ उवाच:
तत्त्वानि च चतुर्विंशत्परिसङ्ख्याय़ तत्त्वतः |
४२ क
वसिष्ठ उवाच:
साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ||
४२ ख
वसिष्ठ उवाच:
पञ्चविंशोऽप्रवुद्धात्मा वुध्यमान इति स्मृतः |
४३ क
वसिष्ठ उवाच:
यदा तु वुध्यतेऽऽत्मानं तदा भवति केवलः ||
४३ ख
वसिष्ठ उवाच:
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः |
४४ क
वसिष्ठ उवाच:
एवमेतद्विजानन्तः साम्यतां प्रतिय़ान्त्युत ||
४४ ख
वसिष्ठ उवाच:
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा |
४५ क
वसिष्ठ उवाच:
गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ||
४५ ख
वसिष्ठ उवाच:
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः |
४६ क
वसिष्ठ उवाच:
विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् ||
४६ ख
वसिष्ठ उवाच:
पश्येरन्नेकमतय़ो न सम्यक्तेषु दर्शनम् |
४७ क
वसिष्ठ उवाच:
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिन्दम ||
४७ ख
वसिष्ठ उवाच:
सर्वमेतद्विजानन्तो न सर्वस्य प्रवोधनात् |
४८ क
वसिष्ठ उवाच:
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ||
४८ ख
वसिष्ठ उवाच:
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः |
४९ क
वसिष्ठ उवाच:
य एनमभिजानन्ति न भय़ं तेषु विद्यते ||
४९ ख