chevron_left वन पर्व अध्याय २९४
वैशम्पाय़न उवाच:
देवराजमनुप्राप्तं व्राह्मणच्छद्मना वृषः |
१ क
वैशम्पाय़न उवाच:
दृष्ट्वा स्वागतमित्याह न वुवोधास्य मानसम् ||
१ ख
वैशम्पाय़न उवाच:
हिरण्यकण्ठीः प्रमदा ग्रामान्वा वहुगोकुलान् |
२ क
वैशम्पाय़न उवाच:
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ||
२ ख
व्राह्मण उवाच:
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् |
३ क
व्राह्मण उवाच:
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीय़ताम् ||
३ ख
व्राह्मण उवाच:
यदेतत्सहजं वर्म कुण्डले च तवानघ |
४ क
व्राह्मण उवाच:
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ||
४ ख
व्राह्मण उवाच:
एतदिच्छाम्यहं क्षिप्रं त्वय़ा दत्तं परन्तप |
५ क
व्राह्मण उवाच:
एष मे सर्वलाभानां लाभः परमको मतः ||
५ ख
कर्ण उवाच:
अवनिं प्रमदा गाश्च निर्वापं वहुवार्षिकम् |
६ क
कर्ण उवाच:
तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ||
६ ख
वैशम्पाय़न उवाच:
एवं वहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः |
७ क
वैशम्पाय़न उवाच:
कर्णेन भरतश्रेष्ठ नान्यं वरमय़ाचत ||
७ ख
वैशम्पाय़न उवाच:
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि |
८ क
वैशम्पाय़न उवाच:
नैवान्यं स द्विजश्रेष्ठः कामय़ामास वै वरम् ||
८ ख
वैशम्पाय़न उवाच:
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः |
९ क
वैशम्पाय़न उवाच:
तदैनमव्रवीद्भूय़ो राधेय़ः प्रहसन्निव ||
९ ख
वैशम्पाय़न उवाच:
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे |
१० क
वैशम्पाय़न उवाच:
तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ||
१० ख
वैशम्पाय़न उवाच:
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् |
११ क
वैशम्पाय़न उवाच:
प्रतिगृह्णीष्व मत्तस्त्वं साधु व्राह्मणपुङ्गव ||
११ ख
वैशम्पाय़न उवाच:
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च |
१२ क
वैशम्पाय़न उवाच:
गमनीय़ो भविष्यामि शत्रूणां द्विजसत्तम ||
१२ ख
वैशम्पाय़न उवाच:
यदा नान्यं वरं वव्रे भगवान्पाकशासनः |
१३ क
वैशम्पाय़न उवाच:
ततः प्रहस्य कर्णस्तं पुनरित्यव्रवीद्वचः ||
१३ ख
वैशम्पाय़न उवाच:
विदितो देवदेवेश प्रागेवासि मम प्रभो |
१४ क
वैशम्पाय़न उवाच:
न तु न्याय़्यं मय़ा दातुं तव शक्र वृथा वरम् ||
१४ ख
वैशम्पाय़न उवाच:
त्वं हि देवेश्वरः साक्षात्त्वय़ा देय़ो वरो मम |
१५ क
वैशम्पाय़न उवाच:
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ||
१५ ख
वैशम्पाय़न उवाच:
यदि दास्यामि ते देव कुण्डले कवचं तथा |
१६ क
वैशम्पाय़न उवाच:
वध्यतामुपय़ास्यामि त्वं च शक्रावहास्यताम् ||
१६ ख
वैशम्पाय़न उवाच:
तस्माद्विनिमय़ं कृत्वा कुण्डले वर्म चोत्तमम् |
१७ क
वैशम्पाय़न उवाच:
हरस्व शक्र कामं मे न दद्यामहमन्यथा ||
१७ ख
शक्र उवाच:
विदितोऽहं रवेः पूर्वमाय़न्नेव तवान्तिकम् |
१८ क
शक्र उवाच:
तेन ते सर्वमाख्यातमेवमेतन्न संशय़ः ||
१८ ख
शक्र उवाच:
काममस्तु तथा तात तव कर्ण यथेच्छसि |
१९ क
शक्र उवाच:
वर्जय़ित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ||
१९ ख
वैशम्पाय़न उवाच:
ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् |
२० क
वैशम्पाय़न उवाच:
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ||
२० ख
कर्ण उवाच:
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव |
२१ क
कर्ण उवाच:
अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे ||
२१ ख
वैशम्पाय़न उवाच:
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः |
२२ क
वैशम्पाय़न उवाच:
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाव्रवीत् ||
२२ ख
वैशम्पाय़न उवाच:
कुण्डले मे प्रय़च्छस्व वर्म चैव शरीरजम् |
२३ क
वैशम्पाय़न उवाच:
गृहाण कर्ण शक्तिं त्वमनेन समय़ेन मे ||
२३ ख
वैशम्पाय़न उवाच:
अमोघा हन्ति शतशः शत्रून्मम करच्युता |
२४ क
वैशम्पाय़न उवाच:
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ||
२४ ख
वैशम्पाय़न उवाच:
सेय़ं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् |
२५ क
वैशम्पाय़न उवाच:
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ||
२५ ख
कर्ण उवाच:
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे |
२६ क
कर्ण उवाच:
गर्जन्तं प्रतपन्तं च यतो मम भय़ं भवेत् ||
२६ ख
इन्द्र उवाच:
एकं हनिष्यसि रिपुं गर्जन्तं वलिनं रणे |
२७ क
इन्द्र उवाच:
त्वं तु यं प्रार्थय़स्येकं रक्ष्यते स महात्मना ||
२७ ख
इन्द्र उवाच:
यमाहुर्वेदविद्वांसो वराहमजितं हरिम् |
२८ क
इन्द्र उवाच:
नाराय़णमचिन्त्यं च तेन कृष्णेन रक्ष्यते ||
२८ ख
कर्ण उवाच:
एवमप्यस्तु भगवन्नेकवीरवधे मम |
२९ क
कर्ण उवाच:
अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ||
२९ ख
कर्ण उवाच:
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते |
३० क
कर्ण उवाच:
निकृत्तेषु च गात्रेषु न मे वीभत्सता भवेत् ||
३० ख
इन्द्र उवाच:
न ते वीभत्सता कर्ण भविष्यति कथञ्चन |
३१ क
इन्द्र उवाच:
व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ||
३१ ख
इन्द्र उवाच:
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर |
३२ क
इन्द्र उवाच:
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ||
३२ ख
इन्द्र उवाच:
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशय़े |
३३ क
इन्द्र उवाच:
प्रमत्तो मोक्ष्यसे चापि त्वय़्येवैषा पतिष्यति ||
३३ ख
कर्ण उवाच:
संशय़ं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् |
३४ क
कर्ण उवाच:
यथा मामात्थ शक्र त्वं सत्यमेतद्व्रवीमि ते ||
३४ ख
वैशम्पाय़न उवाच:
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते |
३५ क
वैशम्पाय़न उवाच:
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ||
३५ ख
वैशम्पाय़न उवाच:
ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् |
३६ क
वैशम्पाय़न उवाच:
दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदु; र्न ह्यस्यासीद्दुःखजो वै विकारः ||
३६ ख
वैशम्पाय़न उवाच:
ततो दिव्या दुन्दुभय़ः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् |
३७ क
वैशम्पाय़न उवाच:
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं; मुहुश्चापि स्मय़मानं नृवीरम् ||
३७ ख
वैशम्पाय़न उवाच:
ततश्छित्त्वा कवचं दिव्यमङ्गा; त्तथैवार्द्रं प्रददौ वासवाय़ |
३८ क
वैशम्पाय़न उवाच:
तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ||
३८ ख
वैशम्पाय़न उवाच:
ततः शक्रः प्रहसन्वञ्चय़ित्वा; कर्णं लोके यशसा योजय़ित्वा |
३९ क
वैशम्पाय़न उवाच:
कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात ||
३९ ख
वैशम्पाय़न उवाच:
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् |
४० क
वैशम्पाय़न उवाच:
तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः ||
४० ख
जनमेजय़ उवाच:
क्वस्था वीराः पाण्डवास्ते वभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रिय़ं ते |
४१ क
जनमेजय़ उवाच:
किं वाकार्षुर्द्वादशेऽव्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु ||
४१ ख
वैशम्पाय़न उवाच:
लव्ध्वा कृष्णां सैन्धवं द्रावय़ित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते |
४२ क
वैशम्पाय़न उवाच:
मार्कण्डेय़ाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ||
४२ ख
वैशम्पाय़न उवाच:
प्रत्याजग्मुः सरथाः सानुय़ात्राः; सर्वैः सार्धं सूदपौरोगवैश्च |
४३ क
वैशम्पाय़न उवाच:
ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् ||
४३ ख