chevron_left शान्ति पर्व अध्याय २९५
वसिष्ठ उवाच:
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम |
१ क
वसिष्ठ उवाच:
विद्याविद्ये त्विदानीं मे त्वं निवोधानुपूर्वशः ||
१ ख
वसिष्ठ उवाच:
अविद्यामाहुरव्यक्तं सर्गप्रलय़धर्मि वै |
२ क
वसिष्ठ उवाच:
सर्गप्रलय़निर्मुक्तं विद्यां वै पञ्चविंशकम् ||
२ ख
वसिष्ठ उवाच:
परस्परमविद्यां वै तन्निवोधानुपूर्वशः |
३ क
वसिष्ठ उवाच:
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ||
३ ख
वसिष्ठ उवाच:
कर्मेन्द्रिय़ाणां सर्वेषां विद्या वुद्धीन्द्रिय़ं स्मृतम् |
४ क
वसिष्ठ उवाच:
वुद्धीन्द्रिय़ाणां च तथा विशेषा इति नः श्रुतम् ||
४ ख
वसिष्ठ उवाच:
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः |
५ क
वसिष्ठ उवाच:
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ||
५ ख
वसिष्ठ उवाच:
अहङ्कारस्तु भूतानां पञ्चानां नात्र संशय़ः |
६ क
वसिष्ठ उवाच:
अहङ्कारस्य च तथा वुद्धिर्विद्या नरेश्वर ||
६ ख
वसिष्ठ उवाच:
वुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् |
७ क
वसिष्ठ उवाच:
विद्या ज्ञेय़ा नरश्रेष्ठ विधिश्च परमः स्मृतः ||
७ ख
वसिष्ठ उवाच:
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् |
८ क
वसिष्ठ उवाच:
सर्वस्य सर्वमित्युक्तं ज्ञेय़ं ज्ञानस्य पार्थिव ||
८ ख
वसिष्ठ उवाच:
ज्ञानमव्यक्तमित्युक्तं ज्ञेय़ं वै पञ्चविंशकम् |
९ क
वसिष्ठ उवाच:
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ||
९ ख
वसिष्ठ उवाच:
विद्याविद्यार्थतत्त्वेन मय़ोक्तं ते विशेषतः |
१० क
वसिष्ठ उवाच:
अक्षरं च क्षरं चैव यदुक्तं तन्निवोध मे ||
१० ख
वसिष्ठ उवाच:
उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ |
११ क
वसिष्ठ उवाच:
कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः ||
११ ख
वसिष्ठ उवाच:
अनादिनिधनावेतावुभावेवेश्वरौ मतौ |
१२ क
वसिष्ठ उवाच:
तत्त्वसञ्ज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः ||
१२ ख
वसिष्ठ उवाच:
सर्गप्रलय़धर्मित्वादव्यक्तं प्राहुरक्षरम् |
१३ क
वसिष्ठ उवाच:
तदेतद्गुणसर्गाय़ विकुर्वाणं पुनः पुनः ||
१३ ख
वसिष्ठ उवाच:
गुणानां महदादीनामुत्पद्यति परस्परम् |
१४ क
वसिष्ठ उवाच:
अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ||
१४ ख
वसिष्ठ उवाच:
यदा तु गुणजालं तदव्यक्तात्मनि सङ्क्षिपेत् |
१५ क
वसिष्ठ उवाच:
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीय़ते ||
१५ ख
वसिष्ठ उवाच:
गुणा गुणेषु लीय़न्ते तदैका प्रकृतिर्भवेत् |
१६ क
वसिष्ठ उवाच:
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीय़ते ||
१६ ख
वसिष्ठ उवाच:
तदाक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता |
१७ क
वसिष्ठ उवाच:
निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् ||
१७ ख
वसिष्ठ उवाच:
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षय़े |
१८ क
वसिष्ठ उवाच:
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ||
१८ ख
वसिष्ठ उवाच:
क्षरो भवत्येष यदा तदा गुणवतीमथ |
१९ क
वसिष्ठ उवाच:
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः ||
१९ ख
वसिष्ठ उवाच:
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् |
२० क
वसिष्ठ उवाच:
अन्योऽहमन्येय़मिति यदा वुध्यति वुद्धिमान् ||
२० ख
वसिष्ठ उवाच:
तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत् |
२१ क
वसिष्ठ उवाच:
प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते ||
२१ ख
वसिष्ठ उवाच:
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते |
२२ क
वसिष्ठ उवाच:
पश्यते चापरं पश्यं तदा पश्यन्न सञ्ज्वरेत् ||
२२ ख
वसिष्ठ उवाच:
किं मय़ा कृतमेतावद्योऽहं कालमिमं जनम् |
२३ क
वसिष्ठ उवाच:
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा ||
२३ ख
वसिष्ठ उवाच:
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् |
२४ क
वसिष्ठ उवाच:
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ||
२४ ख
वसिष्ठ उवाच:
मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते |
२५ क
वसिष्ठ उवाच:
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ||
२५ ख
वसिष्ठ उवाच:
ममास्तु धिगवुद्धस्य योऽहं मग्नमिमं पुनः |
२६ क
वसिष्ठ उवाच:
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ||
२६ ख
वसिष्ठ उवाच:
अय़मत्र भवेद्वन्धुरनेन सह मोक्षणम् |
२७ क
वसिष्ठ उवाच:
साम्यमेकत्वमाय़ातो यादृशस्तादृशस्त्वहम् ||
२७ ख
वसिष्ठ उवाच:
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै |
२८ क
वसिष्ठ उवाच:
अय़ं हि विमलो व्यक्तमहमीदृशकस्तथा ||
२८ ख
वसिष्ठ उवाच:
योऽहमज्ञानसंमोहादज्ञय़ा सम्प्रवृत्तवान् |
२९ क
वसिष्ठ उवाच:
ससङ्गय़ाहं निःसङ्गः स्थितः कालमिमं त्वहम् ||
२९ ख
वसिष्ठ उवाच:
अनय़ाहं वशीभूतः कालमेतं न वुद्धवान् |
३० क
वसिष्ठ उवाच:
उच्चमध्यमनीचानां तामहं कथमावसे ||
३० ख
वसिष्ठ उवाच:
समानय़ानय़ा चेह सहवासमहं कथम् |
३१ क
वसिष्ठ उवाच:
गच्छाम्यवुद्धभावत्वादेषेदानीं स्थिरो भवे ||
३१ ख
वसिष्ठ उवाच:
सहवासं न यास्यामि कालमेतद्धि वञ्चनात् |
३२ क
वसिष्ठ उवाच:
वञ्चितोऽस्म्यनय़ा यद्धि निर्विकारो विकारय़ा ||
३२ ख
वसिष्ठ उवाच:
न चाय़मपराधोऽस्या अपराधो ह्ययं मम |
३३ क
वसिष्ठ उवाच:
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ||
३३ ख
वसिष्ठ उवाच:
ततोऽस्मि वहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् |
३४ क
वसिष्ठ उवाच:
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ||
३४ ख
वसिष्ठ उवाच:
प्रकृतेरनय़त्वेन तासु तास्विह योनिषु |
३५ क
वसिष्ठ उवाच:
निर्ममस्य ममत्वेन किं कृतं तासु तासु च |
३५ ख
वसिष्ठ उवाच:
योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा ||
३५ ग
वसिष्ठ उवाच:
न ममात्रानय़ा कार्यमहङ्कारकृतात्मय़ा |
३६ क
वसिष्ठ उवाच:
आत्मानं वहुधा कृत्वा येय़ं भूय़ो युनक्ति माम् |
३६ ख
वसिष्ठ उवाच:
इदानीमेष वुद्धोऽस्मि निर्ममो निरहङ्कृतः ||
३६ ग
वसिष्ठ उवाच:
ममत्वमनय़ा नित्यमहङ्कारकृतात्मकम् |
३७ क
वसिष्ठ उवाच:
अपेत्याहमिमां हित्वा संश्रय़िष्ये निरामय़म् ||
३७ ख
वसिष्ठ उवाच:
अनेन साम्यं यास्यामि नानय़ाहमचेतसा |
३८ क
वसिष्ठ उवाच:
क्षमं मम सहानेन नैकत्वमनय़ा सह |
३८ ख
वसिष्ठ उवाच:
एवं परमसम्वोधात्पञ्चविंशोऽनुवुद्धवान् ||
३८ ग
वसिष्ठ उवाच:
अक्षरत्वं निय़च्छेत त्यक्त्वा क्षरमनामय़म् |
३९ क
वसिष्ठ उवाच:
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा |
३९ ख
वसिष्ठ उवाच:
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ||
३९ ग
वसिष्ठ उवाच:
अक्षरक्षरय़ोरेतदुक्तं तव निदर्शनम् |
४० क
वसिष्ठ उवाच:
मय़ेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात् ||
४० ख
वसिष्ठ उवाच:
निःसन्दिग्धं च सूक्ष्मं च विवुद्धं विमलं तथा |
४१ क
वसिष्ठ उवाच:
प्रवक्ष्यामि तु ते भूय़स्तन्निवोध यथाश्रुतम् ||
४१ ख
वसिष्ठ उवाच:
साङ्ख्ययोगौ मय़ा प्रोक्तौ शास्त्रद्वय़निदर्शनात् |
४२ क
वसिष्ठ उवाच:
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ||
४२ ख
वसिष्ठ उवाच:
प्रवोधनकरं ज्ञानं साङ्ख्यानामवनीपते |
४३ क
वसिष्ठ उवाच:
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ||
४३ ख
वसिष्ठ उवाच:
वृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः |
४४ क
वसिष्ठ उवाच:
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ||
४४ ख
वसिष्ठ उवाच:
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप |
४५ क
वसिष्ठ उवाच:
साङ्ख्यानां तु परं तत्र यथावदनुवर्णितम् ||
४५ ख
वसिष्ठ उवाच:
वुद्धमप्रतिवुद्धं च वुध्यमानं च तत्त्वतः |
४६ क
वसिष्ठ उवाच:
वुध्यमानं च वुद्धं च प्राहुर्योगनिदर्शनम् ||
४६ ख