जनमेजय़ उवाच:
एवं हृताय़ां कृष्णाय़ां प्राप्य क्लेशमनुत्तमम् |
१ क
जनमेजय़ उवाच:
प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ||
१ ख
वैशम्पाय़न उवाच:
एवं हृताय़ां कृष्णाय़ां प्राप्य क्लेशमनुत्तमम् |
२ क
वैशम्पाय़न उवाच:
विहाय़ काम्यकं राजा सह भ्रातृभिरच्युतः ||
२ ख
वैशम्पाय़न उवाच:
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
स्वादुमूलफलं रम्यं मार्कण्डेय़ाश्रमं प्रति ||
३ ख
वैशम्पाय़न उवाच:
अनुगुप्तफलाहाराः सर्व एव मिताशनाः |
४ क
वैशम्पाय़न उवाच:
न्यवसन्पाण्डवास्तत्र कृष्णय़ा सह भारत ||
४ ख
वैशम्पाय़न उवाच:
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः |
५ क
वैशम्पाय़न उवाच:
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||
५ ख
वैशम्पाय़न उवाच:
व्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः |
६ क
वैशम्पाय़न उवाच:
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ||
६ ख
वैशम्पाय़न उवाच:
अजातशत्रुमासीनं भ्रातृभिः सहितं वने |
७ क
वैशम्पाय़न उवाच:
आगम्य व्राह्मणस्तूर्णं सन्तप्त इदमव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
अरणीसहितं मह्यं समासक्तं वनस्पतौ |
८ क
वैशम्पाय़न उवाच:
मृगस्य घर्षमाणस्य विषाणे समसज्जत ||
८ ख
वैशम्पाय़न उवाच:
तदादाय़ गतो राजंस्त्वरमाणो महामृगः |
९ क
वैशम्पाय़न उवाच:
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ||
९ ख
वैशम्पाय़न उवाच:
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् |
१० क
वैशम्पाय़न उवाच:
अग्निहोत्रं न लुप्येत तदानय़त पाण्डवाः ||
१० ख
वैशम्पाय़न उवाच:
व्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः |
११ क
वैशम्पाय़न उवाच:
धनुरादाय़ कौन्तेय़ः प्राद्रवद्भ्रातृभिः सह ||
११ ख
वैशम्पाय़न उवाच:
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः |
१२ क
वैशम्पाय़न उवाच:
व्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ||
१२ ख
वैशम्पाय़न उवाच:
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः |
१३ क
वैशम्पाय़न उवाच:
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ||
१३ ख
वैशम्पाय़न उवाच:
तेषां प्रय़तमानानां नादृश्यत महामृगः |
१४ क
वैशम्पाय़न उवाच:
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ||
१४ ख
वैशम्पाय़न उवाच:
शीतलच्छाय़मासाद्य न्यग्रोधं गहने वने |
१५ क
वैशम्पाय़न उवाच:
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ||
१५ ख
वैशम्पाय़न उवाच:
तेषां समुपविष्टानां नकुलो दुःखितस्तदा |
१६ क
वैशम्पाय़न उवाच:
अव्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ||
१६ ख
वैशम्पाय़न उवाच:
नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो वभूव |
१७ क
वैशम्पाय़न उवाच:
अनुत्तराः सर्वभूतेषु भूय़ः; सम्प्राप्ताः स्मः संशय़ं केन राजन् ||
१७ ख