वसिष्ठ उवाच:
अप्रवुद्धमथाव्यक्तमिमं गुणविधिं शृणु |
१ क
वसिष्ठ उवाच:
गुणान्धारय़ते ह्येषा सृजत्याक्षिपते तथा ||
१ ख
वसिष्ठ उवाच:
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप |
२ क
वसिष्ठ उवाच:
आत्मानं वहुधा कृत्वा तान्येव च विचक्षते ||
२ ख
वसिष्ठ उवाच:
एतदेवं विकुर्वाणां वुध्यमानो न वुध्यते |
३ क
वसिष्ठ उवाच:
अव्यक्तवोधनाच्चैव वुध्यमानं वदन्त्यपि ||
३ ख
वसिष्ठ उवाच:
न त्वेव वुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् |
४ क
वसिष्ठ उवाच:
कदाचित्त्वेव खल्वेतदाहुरप्रतिवुद्धकम् ||
४ ख
वसिष्ठ उवाच:
वुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् |
५ क
वसिष्ठ उवाच:
वुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ||
५ ख
वसिष्ठ उवाच:
अनेनाप्रतिवुद्धेति वदन्त्यव्यक्तमच्युतम् |
६ क
वसिष्ठ उवाच:
अव्यक्तवोधनाच्चैव वुध्यमानं वदन्त्युत ||
६ ख
वसिष्ठ उवाच:
पञ्चविंशं महात्मानं न चासावपि वुध्यते |
७ क
वसिष्ठ उवाच:
षड्विंशं विमलं वुद्धमप्रमेय़ं सनातनम् ||
७ ख
वसिष्ठ उवाच:
सततं पञ्चविंशं च चतुर्विंशं च वुध्यते |
८ क
वसिष्ठ उवाच:
दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ||
८ ख
वसिष्ठ उवाच:
अव्यक्तं न तु तद्व्रह्म वुध्यते तात केवलम् |
९ क
वसिष्ठ उवाच:
केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ||
९ ख
वसिष्ठ उवाच:
वुध्यमानो यदात्मानमन्योऽहमिति मन्यते |
१० क
वसिष्ठ उवाच:
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ||
१० ख
वसिष्ठ उवाच:
वुध्यते च परां वुद्धिं विशुद्धाममलां यदा |
११ क
वसिष्ठ उवाच:
षड्विंशो राजशार्दूल तदा वुद्धत्वमाव्रजेत् ||
११ ख
वसिष्ठ उवाच:
ततस्त्यजति सोऽव्यक्तं सर्गप्रलय़धर्मिणम् |
१२ क
वसिष्ठ उवाच:
निर्गुणः प्रकृतिं वेद गुणय़ुक्तामचेतनाम् ||
१२ ख
वसिष्ठ उवाच:
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् |
१३ क
वसिष्ठ उवाच:
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुय़ात् ||
१३ ख
वसिष्ठ उवाच:
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् |
१४ क
वसिष्ठ उवाच:
तत्त्वसंश्रय़णादेतत्तत्त्ववन्न च मानद |
१४ ख
वसिष्ठ उवाच:
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ||
१४ ग
वसिष्ठ उवाच:
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष वुद्धिमान् |
१५ क
वसिष्ठ उवाच:
एष मुञ्चति तत्त्वं हि क्षिप्रं वुद्धस्य लक्षणम् ||
१५ ख
वसिष्ठ उवाच:
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः |
१६ क
वसिष्ठ उवाच:
केवलेन वलेनैव समतां यात्यसंशय़म् ||
१६ ख
वसिष्ठ उवाच:
षड्विंशेन प्रवुद्धेन वुध्यमानोऽप्यवुद्धिमान् |
१७ क
वसिष्ठ उवाच:
एतन्नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ||
१७ ख
वसिष्ठ उवाच:
चेतनेन समेतस्य पञ्चविंशतिकस्य च |
१८ क
वसिष्ठ उवाच:
एकत्वं वै भवत्यस्य यदा वुद्ध्या न वुध्यते ||
१८ ख
वसिष्ठ उवाच:
वुध्यमानोऽप्रवुद्धेन समतां याति मैथिल |
१९ क
वसिष्ठ उवाच:
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ||
१९ ख
वसिष्ठ उवाच:
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः |
२० क
वसिष्ठ उवाच:
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विवुध्यते |
२० ख
वसिष्ठ उवाच:
चतुर्विंशमगाधं च षड्विंशस्य प्रवोधनात् ||
२० ग
वसिष्ठ उवाच:
एष ह्यप्रतिवुद्धश्च वुध्यमानश्च तेऽनघ |
२१ क
वसिष्ठ उवाच:
प्रोक्तो वुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् |
२१ ख
वसिष्ठ उवाच:
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ||
२१ ग
वसिष्ठ उवाच:
मशकोदुम्वरे यद्वदन्यत्वं तद्वदेतय़ोः |
२२ क
वसिष्ठ उवाच:
मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ||
२२ ख
वसिष्ठ उवाच:
एवमेवावगन्तव्यं नानात्वैकत्वमेतय़ोः |
२३ क
वसिष्ठ उवाच:
एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ||
२३ ख
वसिष्ठ उवाच:
पञ्चविंशतिकस्यास्य योऽय़ं देहेषु वर्तते |
२४ क
वसिष्ठ उवाच:
एष मोक्षय़ितव्येति प्राहुरव्यक्तगोचरात् ||
२४ ख
वसिष्ठ उवाच:
सोऽय़मेवं विमुच्येत नान्यथेति विनिश्चय़ः |
२५ क
वसिष्ठ उवाच:
परेण परधर्मा च भवत्येष समेत्य वै ||
२५ ख
वसिष्ठ उवाच:
विशुद्धधर्मा शुद्धेन वुद्धेन च स वुद्धिमान् |
२६ क
वसिष्ठ उवाच:
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ||
२६ ख
वसिष्ठ उवाच:
निय़ोगधर्मिणा चैव निय़ोगात्मा भवत्यपि |
२७ क
वसिष्ठ उवाच:
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ||
२७ ख
वसिष्ठ उवाच:
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् |
२८ क
वसिष्ठ उवाच:
विमलात्मा च भवति समेत्य विमलात्मना ||
२८ ख
वसिष्ठ उवाच:
केवलात्मा तथा चैव केवलेन समेत्य वै |
२९ क
वसिष्ठ उवाच:
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ||
२९ ख
वसिष्ठ उवाच:
एतावदेतत्कथितं मय़ा ते; तथ्यं महाराज यथार्थतत्त्वम् |
३० क
वसिष्ठ उवाच:
अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं व्रह्म विशुद्धमाद्यम् ||
३० ख
वसिष्ठ उवाच:
न वेदनिष्ठस्य जनस्य राज; न्प्रदेय़मेतत्परमं त्वय़ा भवेत् |
३१ क
वसिष्ठ उवाच:
विवित्समानाय़ विवोधकारकं; प्रवोधहेतोः प्रणतस्य शासनम् ||
३१ ख
वसिष्ठ उवाच:
न देय़मेतच्च तथानृतात्मने; शठाय़ क्लीवाय़ न जिह्मवुद्धय़े |
३२ क
वसिष्ठ उवाच:
न पण्डितज्ञानपरोपतापिने; देय़ं त्वय़ेदं विनिवोध यादृशे ||
३२ ख
वसिष्ठ उवाच:
श्रद्धान्विताय़ाथ गुणान्विताय़; परापवादाद्विरताय़ नित्यम् |
३३ क
वसिष्ठ उवाच:
विशुद्धय़ोगाय़ वुधाय़ चैव; क्रिय़ावतेऽथ क्षमिणे हिताय़ ||
३३ ख
वसिष्ठ उवाच:
विविक्तशीलाय़ विधिप्रिय़ाय़; विवादहीनाय़ वहुश्रुताय़ |
३४ क
वसिष्ठ उवाच:
विजानते चैव न चाहितक्षमे; दमे च शक्ताय़ शमे च देहिनाम् ||
३४ ख
वसिष्ठ उवाच:
एतैर्गुणैर्हीनतमे न देय़; मेतत्परं व्रह्म विशुद्धमाहुः |
३५ क
वसिष्ठ उवाच:
न श्रेय़सा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात् ||
३५ ख
वसिष्ठ उवाच:
पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेय़ं त्विदमव्रताय़ |
३६ क
वसिष्ठ उवाच:
जितेन्द्रिय़ाय़ैतदसंशय़ं ते; भवेत्प्रदेय़ं परमं नरेन्द्र ||
३६ ख
वसिष्ठ उवाच:
कराल मा ते भय़मस्तु किं चि; देतच्छ्रुतं व्रह्म परं त्वय़ाद्य |
३७ क
वसिष्ठ उवाच:
यथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम् ||
३७ ख
वसिष्ठ उवाच:
अगाधजन्मामरणं च राज; न्निरामय़ं वीतभय़ं शिवं च |
३८ क
वसिष्ठ उवाच:
समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा ||
३८ ख
वसिष्ठ उवाच:
अवाप्तमेतद्धि पुरा सनातना; द्धिरण्यगर्भाद्गदतो नराधिप |
३९ क
वसिष्ठ उवाच:
प्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं व्रह्म यथाद्य वै त्वय़ा ||
३९ ख
वसिष्ठ उवाच:
पृष्टस्त्वय़ा चास्मि यथा नरेन्द्र; तथा मय़ेदं त्वय़ि चोक्तमद्य |
४० क
वसिष्ठ उवाच:
तथावाप्तं व्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम् ||
४० ख
भीष्म उवाच:
एतदुक्तं परं व्रह्म यस्मान्नावर्तते पुनः |
४१ क
भीष्म उवाच:
पञ्चविंशो महाराज परमर्षिनिदर्शनात् ||
४१ ख
भीष्म उवाच:
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च |
४२ क
भीष्म उवाच:
नाववुध्यति तत्त्वेन वुध्यमानोऽजरामरः ||
४२ ख
भीष्म उवाच:
एतन्निःश्रेय़सकरं ज्ञानानां ते परं मय़ा |
४३ क
भीष्म उवाच:
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ||
४३ ख
भीष्म उवाच:
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना |
४४ क
भीष्म उवाच:
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ||
४४ ख
भीष्म उवाच:
नारदाद्विदितं मह्यमेतद्व्रह्म सनातनम् |
४५ क
भीष्म उवाच:
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ||
४५ ख
भीष्म उवाच:
येन क्षराक्षरे वित्ते न भय़ं तस्य विद्यते |
४६ क
भीष्म उवाच:
विद्यते तु भय़ं तस्य यो नैतद्वेत्ति पार्थिव ||
४६ ख
भीष्म उवाच:
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् |
४७ क
भीष्म उवाच:
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ||
४७ ख
भीष्म उवाच:
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते |
४८ क
भीष्म उवाच:
यदि शुध्यति कालेन तस्मादज्ञानसागरात् ||
४८ ख
भीष्म उवाच:
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते |
४९ क