युधिष्ठिर उवाच:
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ||
४९ ख
यक्ष उवाच:
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा |
५० क
यक्ष उवाच:
उपजीवनं किं स्विदस्य किं स्विदस्य पराय़णम् ||
५० ख
युधिष्ठिर उवाच:
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा |
५१ क
युधिष्ठिर उवाच:
उपजीवनं च पर्जन्यो दानमस्य पराय़णम् ||
५१ ख
यक्ष उवाच:
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् |
५२ क
यक्ष उवाच:
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ||
५२ ख
युधिष्ठिर उवाच:
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् |
५३ क
युधिष्ठिर उवाच:
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ||
५३ ख
यक्ष उवाच:
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः |
५४ क
यक्ष उवाच:
किं निय़म्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ||
५४ ख
युधिष्ठिर उवाच:
आनृशंस्यं परो धर्मस्त्रय़ीधर्मः सदाफलः |
५५ क
युधिष्ठिर उवाच:
मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ||
५५ ख
यक्ष उवाच:
किं नु हित्वा प्रिय़ो भवति किं नु हित्वा न शोचति |
५६ क
यक्ष उवाच:
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ||
५६ ख
युधिष्ठिर उवाच:
मानं हित्वा प्रिय़ो भवति क्रोधं हित्वा न शोचति |
५७ क
युधिष्ठिर उवाच:
कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ||
५७ ख
यक्ष उवाच:
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् |
५८ क
यक्ष उवाच:
श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ||
५८ ख
युधिष्ठिर उवाच:
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् |
५९ क
युधिष्ठिर उवाच:
मृतमश्रोत्रिय़ं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ||
५९ ख
यक्ष उवाच:
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् |
६० क
यक्ष उवाच:
श्राद्धस्य कालमाख्याहि ततः पिव हरस्व च ||
६० ख
युधिष्ठिर उवाच:
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् |
६१ क
युधिष्ठिर उवाच:
श्राद्धस्य व्राह्मणः कालः कथं वा यक्ष मन्यसे ||
६१ ख
यक्ष उवाच:
व्याख्याता मे त्वय़ा प्रश्ना याथातथ्यं परन्तप |
६२ क
यक्ष उवाच:
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ||
६२ ख
युधिष्ठिर उवाच:
दिवं स्पृशति भूमिं च शव्दः पुण्यस्य कर्मणः |
६३ क
युधिष्ठिर उवाच:
यावत्स शव्दो भवति तावत्पुरुष उच्यते ||
६३ ख
युधिष्ठिर उवाच:
तुल्ये प्रिय़ाप्रिय़े यस्य सुखदुःखे तथैव च |
६४ क
युधिष्ठिर उवाच:
अतीतानागते चोभे स वै सर्वधनी नरः ||
६४ ख
यक्ष उवाच:
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः |
६५ क
यक्ष उवाच:
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ||
६५ ख
युधिष्ठिर उवाच:
श्यामो य एष रक्ताक्षो वृहच्छाल इवोद्गतः |
६६ क
युधिष्ठिर उवाच:
व्यूढोरस्को महावाहुर्नकुलो यक्ष जीवतु ||
६६ ख
यक्ष उवाच:
प्रिय़स्ते भीमसेनोऽय़मर्जुनो वः पराय़णम् |
६७ क
यक्ष उवाच:
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ||
६७ ख
यक्ष उवाच:
यस्य नागसहस्रेण दशसङ्ख्येन वै वलम् |
६८ क
यक्ष उवाच:
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ||
६८ ख
यक्ष उवाच:
तथैनं मनुजाः प्राहुर्भीमसेनं प्रिय़ं तव |
६९ क
यक्ष उवाच:
अथ केनानुभावेन सापत्नं जीवमिच्छसि ||
६९ ख
यक्ष उवाच:
यस्य वाहुवलं सर्वे पाण्डवाः समुपाश्रिताः |
७० क
यक्ष उवाच:
अर्जुनं तमपाहाय़ नकुलं जीवमिच्छसि ||
७० ख
युधिष्ठिर उवाच:
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् |
७१ क
युधिष्ठिर उवाच:
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ||
७१ ख
युधिष्ठिर उवाच:
धर्मशीलः सदा राजा इति मां मानवा विदुः |
७२ क
युधिष्ठिर उवाच:
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ||
७२ ख
युधिष्ठिर उवाच:
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तय़ोः |
७३ क
युधिष्ठिर उवाच:
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ||
७३ ख
यक्ष उवाच:
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् |
७४ क
यक्ष उवाच:
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ||
७४ ख