chevron_left शान्ति पर्व अध्याय २९८
युधिष्ठिर उवाच:
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रय़ात् |
१ क
युधिष्ठिर उवाच:
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापय़ोः ||
१ ख
युधिष्ठिर उवाच:
यच्छिवं नित्यमभय़ं नित्यं चाक्षरमव्ययम् |
२ क
युधिष्ठिर उवाच:
शुचि नित्यमनाय़ासं तद्भवान्वक्तुमर्हति ||
२ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्येऽहमितिहासं पुरातनम् |
३ क
भीष्म उवाच:
याज्ञवल्क्यस्य संवादं जनकस्य च भारत ||
३ ख
भीष्म उवाच:
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महाय़शाः |
४ क
भीष्म उवाच:
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ||
४ ख
भीष्म उवाच:
कतीन्द्रिय़ाणि विप्रर्षे कति प्रकृतय़ः स्मृताः |
५ क
भीष्म उवाच:
किमव्यक्तं परं व्रह्म तस्माच्च परतस्तु किम् ||
५ ख
भीष्म उवाच:
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च |
६ क
भीष्म उवाच:
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ||
६ ख
भीष्म उवाच:
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमय़ो निधिः |
७ क
भीष्म उवाच:
तदहं श्रोतुमिच्छामि सर्वमेतदसंशय़म् ||
७ ख
याज्ञवल्क्य उवाच:
श्रूय़तामवनीपाल यदेतदनुपृच्छसि |
८ क
याज्ञवल्क्य उवाच:
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ||
८ ख
याज्ञवल्क्य उवाच:
न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् |
९ क
याज्ञवल्क्य उवाच:
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ||
९ ख
याज्ञवल्क्य उवाच:
अष्टौ प्रकृतय़ः प्रोक्ता विकाराश्चापि षोडश |
१० क
याज्ञवल्क्य उवाच:
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ||
१० ख
याज्ञवल्क्य उवाच:
अव्यक्तं च महांश्चैव तथाहङ्कार एव च |
११ क
याज्ञवल्क्य उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिश्च पञ्चमम् ||
११ ख
याज्ञवल्क्य उवाच:
एताः प्रकृतय़स्त्वष्टौ विकारानपि मे शृणु |
१२ क
याज्ञवल्क्य उवाच:
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ||
१२ ख
याज्ञवल्क्य उवाच:
शव्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च |
१३ क
याज्ञवल्क्य उवाच:
वाक्च हस्तौ च पादौ च पाय़ुर्मेढ्रं तथैव च ||
१३ ख
याज्ञवल्क्य उवाच:
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु |
१४ क
याज्ञवल्क्य उवाच:
वुद्धीन्द्रिय़ाण्यथैतानि सविशेषाणि मैथिल ||
१४ ख
याज्ञवल्क्य उवाच:
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः |
१५ क
याज्ञवल्क्य उवाच:
त्वं चैवान्ये च विद्वांसस्तत्त्ववुद्धिविशारदाः ||
१५ ख
याज्ञवल्क्य उवाच:
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव |
१६ क
याज्ञवल्क्य उवाच:
प्रथमं सर्गमित्येतदाहुः प्राधानिकं वुधाः ||
१६ ख
याज्ञवल्क्य उवाच:
महतश्चाप्यहङ्कार उत्पद्यति नराधिप |
१७ क
याज्ञवल्क्य उवाच:
द्वितीय़ं सर्गमित्याहुरेतद्वुद्ध्यात्मकं स्मृतम् ||
१७ ख
याज्ञवल्क्य उवाच:
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् |
१८ क
याज्ञवल्क्य उवाच:
तृतीय़ः सर्ग इत्येष आहङ्कारिक उच्यते ||
१८ ख
याज्ञवल्क्य उवाच:
मनसस्तु समुद्भूता महाभूता नराधिप |
१९ क
याज्ञवल्क्य उवाच:
चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ||
१९ ख
याज्ञवल्क्य उवाच:
शव्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च |
२० क
याज्ञवल्क्य उवाच:
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ||
२० ख
याज्ञवल्क्य उवाच:
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् |
२१ क
याज्ञवल्क्य उवाच:
सर्गं तु षष्ठमित्याहुर्वहुचिन्तात्मकं स्मृतम् ||
२१ ख
याज्ञवल्क्य उवाच:
अधः श्रोत्रेन्द्रिय़ग्राम उत्पद्यति नराधिप |
२२ क
याज्ञवल्क्य उवाच:
सप्तमं सर्गमित्याहुरेतदैन्द्रिय़कं स्मृतम् ||
२२ ख
याज्ञवल्क्य उवाच:
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप |
२३ क
याज्ञवल्क्य उवाच:
अष्टमं सर्गमित्याहुरेतदार्जवकं वुधाः ||
२३ ख
याज्ञवल्क्य उवाच:
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप |
२४ क
याज्ञवल्क्य उवाच:
नवमं सर्गमित्याहुरेतदार्जवकं वुधाः ||
२४ ख
याज्ञवल्क्य उवाच:
एतानि नव सर्गाणि तत्त्वानि च नराधिप |
२५ क
याज्ञवल्क्य उवाच:
चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् ||
२५ ख
याज्ञवल्क्य उवाच:
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः |
२६ क
याज्ञवल्क्य उवाच:
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निवोध मे ||
२६ ख