chevron_left वन पर्व अध्याय २९८
वैशम्पाय़न उवाच:
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः |
१ क
वैशम्पाय़न उवाच:
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ||
१ ख
युधिष्ठिर उवाच:
सरस्येकेन पादेन तिष्ठन्तमपराजितम् |
२ क
युधिष्ठिर उवाच:
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ||
२ ख
युधिष्ठिर उवाच:
वसूनां वा भवानेको रुद्राणामथ वा भवान् |
३ क
युधिष्ठिर उवाच:
अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ||
३ ख
युधिष्ठिर उवाच:
मम हि भ्रातर इमे सहस्रशतय़ोधिनः |
४ क
युधिष्ठिर उवाच:
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ||
४ ख
युधिष्ठिर उवाच:
सुखं प्रतिविवुद्धानामिन्द्रिय़ाण्युपलक्षय़े |
५ क
युधिष्ठिर उवाच:
स भवान्सुहृदस्माकमथ वा नः पिता भवान् ||
५ ख
यक्ष उवाच:
अहं ते जनकस्तात धर्मो मृदुपराक्रम |
६ क
यक्ष उवाच:
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ||
६ ख
यक्ष उवाच:
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् |
७ क
यक्ष उवाच:
दानं तपो व्रह्मचर्यमित्येतास्तनवो मम ||
७ ख
यक्ष उवाच:
अहिंसा समता शान्तिस्तपः शौचममत्सरः |
८ क
यक्ष उवाच:
द्वाराण्येतानि मे विद्धि प्रिय़ो ह्यसि सदा मम ||
८ ख
यक्ष उवाच:
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता |
९ क
यक्ष उवाच:
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्पराय़िके ||
९ ख
यक्ष उवाच:
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः |
१० क
यक्ष उवाच:
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ||
१० ख
यक्ष उवाच:
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ |
११ क
यक्ष उवाच:
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ||
११ ख
युधिष्ठिर उवाच:
अरणीसहितं यस्य मृग आदाय़ गच्छति |
१२ क
युधिष्ठिर उवाच:
तस्याग्नय़ो न लुप्येरन्प्रथमोऽस्तु वरो मम ||
१२ ख
धर्म उवाच:
अरणीसहितं तस्य व्राह्मणस्य हृतं मय़ा |
१३ क
धर्म उवाच:
मृगवेषेण कौन्तेय़ जिज्ञासार्थं तव प्रभो ||
१३ ख
वैशम्पाय़न उवाच:
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |
१४ क
वैशम्पाय़न उवाच:
अन्यं वरय़ भद्रं ते वरं त्वममरोपम ||
१४ ख
युधिष्ठिर उवाच:
वर्षाणि द्वादशारण्ये त्रय़ोदशमुपस्थितम् |
१५ क
युधिष्ठिर उवाच:
तत्र नो नाभिजानीय़ुर्वसतो मनुजाः क्वचित् ||
१५ ख
वैशम्पाय़न उवाच:
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |
१६ क
वैशम्पाय़न उवाच:
भूय़श्चाश्वासय़ामास कौन्तेय़ं सत्यविक्रमम् ||
१६ ख
वैशम्पाय़न उवाच:
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् |
१७ क
वैशम्पाय़न उवाच:
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ||
१७ ख
वैशम्पाय़न उवाच:
वर्षं त्रय़ोदशं चेदं मत्प्रसादात्कुरूद्वहाः |
१८ क
वैशम्पाय़न उवाच:
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ||
१८ ख
वैशम्पाय़न उवाच:
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् |
१९ क
वैशम्पाय़न उवाच:
तादृशं तादृशं सर्वे छन्दतो धारय़िष्यथ ||
१९ ख
वैशम्पाय़न उवाच:
अरणीसहितं चेदं व्राह्मणाय़ प्रय़च्छत |
२० क
वैशम्पाय़न उवाच:
जिज्ञासार्थं मय़ा ह्येतदाहृतं मृगरूपिणा ||
२० ख
वैशम्पाय़न उवाच:
तृतीय़ं गृह्यतां पुत्र वरमप्रतिमं महत् |
२१ क
वैशम्पाय़न उवाच:
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ||
२१ ख
युधिष्ठिर उवाच:
देवदेवो मय़ा दृष्टो भवान्साक्षात्सनातनः |
२२ क
युधिष्ठिर उवाच:
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ||
२२ ख
युधिष्ठिर उवाच:
जय़ेय़ं लोभमोहौ च क्रोधं चाहं सदा विभो |
२३ क
युधिष्ठिर उवाच:
दाने तपसि सत्ये च मनो मे सततं भवेत् ||
२३ ख
धर्म उवाच:
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव |
२४ क
धर्म उवाच:
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ||
२४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः |
२५ क
वैशम्पाय़न उवाच:
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ||
२५ ख
वैशम्पाय़न उवाच:
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः |
२६ क
वैशम्पाय़न उवाच:
आरणेय़ं ददुस्तस्मै व्राह्मणाय़ तपस्विने ||
२६ ख
वैशम्पाय़न उवाच:
इदं समुत्थानसमागमं मह; त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् |
२७ क
वैशम्पाय़न उवाच:
पठन्नरः स्याद्विजितेन्द्रिय़ो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ||
२७ ख
वैशम्पाय़न उवाच:
न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने |
२८ क
वैशम्पाय़न उवाच:
कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ||
२८ ख