chevron_left शान्ति पर्व अध्याय २९९
याज्ञवल्क्य उवाच:
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निवोध मे |
१ क
याज्ञवल्क्य उवाच:
पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ||
१ ख
याज्ञवल्क्य उवाच:
रात्रिरेतावती चास्य प्रतिवुद्धो नराधिप |
२ क
याज्ञवल्क्य उवाच:
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ||
२ ख
याज्ञवल्क्य उवाच:
ततो व्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् |
३ क
याज्ञवल्क्य उवाच:
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ||
३ ख
याज्ञवल्क्य उवाच:
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः |
४ क
याज्ञवल्क्य उवाच:
सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ||
४ ख
याज्ञवल्क्य उवाच:
द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते |
५ क
याज्ञवल्क्य उवाच:
तय़ोः शकलय़ोर्मध्यमाकाशमकरोत्प्रभुः ||
५ ख
याज्ञवल्क्य उवाच:
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः |
६ क
याज्ञवल्क्य उवाच:
दश कल्पसहस्राणि पादोनान्यहरुच्यते |
६ ख
याज्ञवल्क्य उवाच:
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ||
६ ग
याज्ञवल्क्य उवाच:
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा |
७ क
याज्ञवल्क्य उवाच:
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः |
७ ख
याज्ञवल्क्य उवाच:
ते वै पितृभ्यः पितरः श्रूय़न्ते राजसत्तम ||
७ ग
याज्ञवल्क्य उवाच:
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः |
८ क
याज्ञवल्क्य उवाच:
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ||
८ ख
याज्ञवल्क्य उवाच:
परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा |
९ क
याज्ञवल्क्य उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिश्च पञ्चमम् ||
९ ख
याज्ञवल्क्य उवाच:
एतस्यापि निशामाहुस्तृतीय़मिह कुर्वतः |
१० क
याज्ञवल्क्य उवाच:
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ||
१० ख
याज्ञवल्क्य उवाच:
शव्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
११ क
याज्ञवल्क्य उवाच:
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु |
११ ख
याज्ञवल्क्य उवाच:
यैराविष्टानि भूतानि अहन्यहनि पार्थिव ||
११ ग
याज्ञवल्क्य उवाच:
अन्योन्यं स्पृहय़न्त्येते अन्योन्यस्य हिते रताः |
१२ क
याज्ञवल्क्य उवाच:
अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ||
१२ ख
याज्ञवल्क्य उवाच:
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः |
१३ क
याज्ञवल्क्य उवाच:
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ||
१३ ख
याज्ञवल्क्य उवाच:
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते |
१४ क
याज्ञवल्क्य उवाच:
रत्रिरेतावती चैव मनसश्च नराधिप ||
१४ ख
याज्ञवल्क्य उवाच:
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रिय़ैः |
१५ क
याज्ञवल्क्य उवाच:
न चेन्द्रिय़ाणि पश्यन्ति मन एवात्र पश्यति ||
१५ ख
याज्ञवल्क्य उवाच:
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा |
१६ क
याज्ञवल्क्य उवाच:
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति |
१६ ख
याज्ञवल्क्य उवाच:
तथेन्द्रिय़ाणि सर्वाणि पश्यन्तीत्यभिचक्षते ||
१६ ग
याज्ञवल्क्य उवाच:
मनस्युपरते राजन्निन्द्रिय़ोपरमो भवेत् |
१७ क
याज्ञवल्क्य उवाच:
न चेन्द्रिय़व्युपरमे मनस्युपरमो भवेत् |
१७ ख
याज्ञवल्क्य उवाच:
एवं मनःप्रधानानि इन्द्रिय़ाणि विभावय़ेत् ||
१७ ग
याज्ञवल्क्य उवाच:
इन्द्रिय़ाणां हि सर्वेषामीश्वरं मन उच्यते |
१८ क
याज्ञवल्क्य उवाच:
एतद्विशन्ति भूतानि सर्वाणीह महाय़शाः ||
१८ ख