chevron_left कर्ण पर्व अध्याय ५१
सञ्जय़ उवाच:
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ||
४८ ख
सञ्जय़ उवाच:
विध्वस्ता हि रणे पार्थ सेनेय़ं भीमविक्रमात् |
४९ क
सञ्जय़ उवाच:
आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ||
४९ ख
सञ्जय़ उवाच:
तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः |
५० क
सञ्जय़ उवाच:
अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ||
५० ख
सञ्जय़ उवाच:
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् |
५१ क
सञ्जय़ उवाच:
हतामित्रः प्रय़च्छोर्वीं राज्ञः सद्वीपपत्तनाम् ||
५१ ख
सञ्जय़ उवाच:
साकाशजलपातालां सपर्वतमहावनाम् |
५२ क
सञ्जय़ उवाच:
प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुन्धराम् ||
५२ ख
सञ्जय़ उवाच:
एतां पुरा विष्णुरिव हत्वा दैतेय़दानवान् |
५३ क
सञ्जय़ उवाच:
प्रय़च्छ मेदिनीं राज्ञे शक्राय़ेव यथा हरिः ||
५३ ख
सञ्जय़ उवाच:
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वय़ा |
५४ क
सञ्जय़ उवाच:
विष्णुना निहतेष्वेव दानवेय़ेषु देवताः ||
५४ ख
सञ्जय़ उवाच:
यदि वा द्विपदां श्रेष्ठ द्रोणं मानय़तो गुरुम् |
५५ क
सञ्जय़ उवाच:
अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ||
५५ ख
सञ्जय़ उवाच:
अत्यन्तोपचितान्वा त्वं मानय़न्भ्रातृवान्धवान् |
५६ क
सञ्जय़ उवाच:
कृतवर्माणमासाद्य न नेष्यसि यमक्षय़म् ||
५६ ख
सञ्जय़ उवाच:
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् |
५७ क
सञ्जय़ उवाच:
यदि त्वमरविन्दाक्ष दय़ावान्न जिघांससि ||
५७ ख
सञ्जय़ उवाच:
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति |
५८ क
सञ्जय़ उवाच:
कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ||
५८ ख
सञ्जय़ उवाच:
एतत्ते सुकृतं कर्म नात्र किञ्चिन्न युज्यते |
५९ क
सञ्जय़ उवाच:
वय़मप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ||
५९ ख
सञ्जय़ उवाच:
दहने यत्सपुत्राय़ा निशि मातुस्तवानघ |
६० क
सञ्जय़ उवाच:
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुय़ोधनः |
६० ख
सञ्जय़ उवाच:
तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ||
६० ग
सञ्जय़ उवाच:
कर्णाद्धि मन्यते त्राणं नित्यमेव सुय़ोधनः |
६१ क
सञ्जय़ उवाच:
ततो मामपि संरव्धो निग्रहीतुं प्रचक्रमे ||
६१ ख
सञ्जय़ उवाच:
स्थिरा वुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद |
६२ क
सञ्जय़ उवाच:
कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशय़ः ||
६२ ख
सञ्जय़ उवाच:
कर्णमाश्रित्य कौन्तेय़ धार्तराष्ट्रेण विग्रहः |
६३ क
सञ्जय़ उवाच:
रोचितो भवता सार्धं जानतापि वलं तव ||
६३ ख
सञ्जय़ उवाच:
कर्णो हि भाषते नित्यमहं पार्थान्समागतान् |
६४ क
सञ्जय़ उवाच:
वासुदेवं सराजानं विजेष्यामि महारणे ||
६४ ख
सञ्जय़ उवाच:
प्रोत्साहय़न्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः |
६५ क
सञ्जय़ उवाच:
समितौ गर्जते कर्णस्तमद्य जहि भारत ||
६५ ख
सञ्जय़ उवाच:
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रय़ुक्तवान् |
६६ क
सञ्जय़ उवाच:
तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ||
६६ ख
सञ्जय़ उवाच:
यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः |
६७ क
सञ्जय़ उवाच:
अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ||
६७ ख
सञ्जय़ उवाच:
द्रोणद्रौणिकृपान्वीरान्कम्पय़न्तो महारथान् |
६८ क
सञ्जय़ उवाच:
निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ||
६८ ख
सञ्जय़ उवाच:
व्यश्वारोहांश्च तुरगान्पत्तीन्व्याय़ुधजीवितान् |
६९ क
सञ्जय़ उवाच:
कुर्वन्तमृषभस्कन्धं कुरुवृष्णिय़शस्करम् ||
६९ ख
सञ्जय़ उवाच:
विधमन्तमनीकानि व्यथय़न्तं महारथान् |
७० क
सञ्जय़ उवाच:
मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षय़म् ||
७० ख
सञ्जय़ उवाच:
शरैः सौभद्रमाय़स्तं दहन्तमिव वाहिनीम् |
७१ क
सञ्जय़ उवाच:
तन्मे दहति गात्राणि सखे सत्येन ते शपे ||
७१ ख
सञ्जय़ उवाच:
यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो |
७२ क
सञ्जय़ उवाच:
अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ||
७२ ख
सञ्जय़ उवाच:
सौभद्रशरनिर्भिन्नो विसञ्ज्ञः शोणितोक्षितः |
७३ क
सञ्जय़ उवाच:
निःश्वसन्क्रोधसन्दीप्तो विमुखः साय़कार्दितः ||
७३ ख
सञ्जय़ उवाच:
अपय़ानकृतोत्साहो निराशश्चापि जीविते |
७४ क
सञ्जय़ उवाच:
तस्थौ सुविह्वलः सङ्ख्ये प्रहारजनितश्रमः ||
७४ ख
सञ्जय़ उवाच:
अथ द्रोणस्य समरे तत्कालसदृशं तदा |
७५ क
सञ्जय़ उवाच:
श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ||
७५ ख
सञ्जय़ उवाच:
ततश्छिन्नाय़ुधं तेन रणे पञ्च महारथाः |
७६ क
सञ्जय़ उवाच:
स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ||
७६ ख
सञ्जय़ उवाच:
यच्च कर्णोऽव्रवीत्कृष्णां सभाय़ां परुषं वचः |
७७ क
सञ्जय़ उवाच:
प्रमुखे पाण्डवेय़ानां कुरूणां च नृशंसवत् ||
७७ ख
सञ्जय़ उवाच:
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः |
७८ क
सञ्जय़ उवाच:
पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ||
७८ ख
सञ्जय़ उवाच:
लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् |
७९ क
सञ्जय़ उवाच:
प्रविशारालपक्ष्माक्षि न सन्ति पतय़स्तव ||
७९ ख
सञ्जय़ उवाच:
इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः |
८० क
सञ्जय़ उवाच:
पापः पापं वचः कर्णः शृण्वतस्तव भारत ||
८० ख
सञ्जय़ उवाच:
तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः |
८१ क
सञ्जय़ उवाच:
शमय़न्तु शिलाधौतास्त्वय़ास्ता जीवितच्छिदः ||
८१ ख
सञ्जय़ उवाच:
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वय़ि |
८२ क
सञ्जय़ उवाच:
तान्यद्य जीवितं चास्य शमय़न्तु शरास्तव ||
८२ ख
सञ्जय़ उवाच:
गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् |
८३ क
सञ्जय़ उवाच:
कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मय़ोः ||
८३ ख
सञ्जय़ उवाच:
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः |
८४ क
सञ्जय़ उवाच:
त्वय़ास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ||
८४ ख
सञ्जय़ उवाच:
उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः |
८५ क
सञ्जय़ उवाच:
अद्य कर्णं महावेगाः प्रेषय़न्तु यमक्षय़म् ||
८५ ख
सञ्जय़ उवाच:
अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः |
८६ क
सञ्जय़ उवाच:
प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ||
८६ ख
सञ्जय़ उवाच:
अद्य स्वशोणिते मग्नं शय़ानं पतितं भुवि |
८७ क
सञ्जय़ उवाच:
अपविद्धाय़ुधं कर्णं पश्यन्तु सुहृदो निजाः ||
८७ ख
सञ्जय़ उवाच:
हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वय़ा |
८८ क
सञ्जय़ उवाच:
प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ||
८८ ख
सञ्जय़ उवाच:
त्वय़ा शरशतैश्छिन्नं रथं हेमविभूषितम् |
८९ क
सञ्जय़ उवाच:
हतय़ोधं समुत्सृज्य भीतः शल्यः पलाय़ताम् ||
८९ ख
सञ्जय़ उवाच:
ततः सुय़ोधनो दृष्ट्वा हतमाधिरथिं त्वय़ा |
९० क
सञ्जय़ उवाच:
निराशो जीविते त्वद्य राज्ये चैव धनञ्जय़ ||
९० ख
सञ्जय़ उवाच:
एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः |
९१ क
सञ्जय़ उवाच:
कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ||
९१ ख
सञ्जय़ उवाच:
पाञ्चालान्द्रौपदेय़ांश्च धृष्टद्युम्नशिखण्डिनौ |
९२ क
सञ्जय़ उवाच:
धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ||
९२ ख
सञ्जय़ उवाच:
नकुलं सहदेवं च दुर्मुखं जनमेजय़म् |
९३ क
सञ्जय़ उवाच:
सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ||
९३ ख
सञ्जय़ उवाच:
अभ्याहतानां कर्णेन पाञ्चालानां महारणे |
९४ क
सञ्जय़ उवाच:
श्रूय़ते निनदो घोरस्त्वद्वन्धूनां परन्तप ||
९४ ख
सञ्जय़ उवाच:
न त्वेव भीताः पाञ्चालाः कथञ्चित्स्युः पराङ्मुखाः |
९५ क
सञ्जय़ उवाच:
न हि मृत्युं महेष्वासा गणय़न्ति महारथाः ||
९५ ख
सञ्जय़ उवाच:
य एकः पाण्डवीं सेनां शरौघैः समवेष्टय़त् |
९६ क
सञ्जय़ उवाच:
तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ||
९६ ख
सञ्जय़ उवाच:
तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् |
९७ क
सञ्जय़ उवाच:
निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ||
९७ ख