सञ्जय़ उवाच:
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् |
१ क
सञ्जय़ उवाच:
अश्वत्थामा महाराज दुःखशोकसमन्वितः ||
१ ख
सञ्जय़ उवाच:
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा |
२ क
सञ्जय़ उवाच:
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ||
२ ख
सञ्जय़ उवाच:
पुरुषे पुरुषे वुद्धिः सा सा भवति शोभना |
३ क
सञ्जय़ उवाच:
तुष्यन्ति च पृथक्सर्वे प्रज्ञय़ा ते स्वय़ा स्वय़ा ||
३ ख
सञ्जय़ उवाच:
सर्वो हि मन्यते लोक आत्मानं वुद्धिमत्तरम् |
४ क
सञ्जय़ उवाच:
सर्वस्यात्मा वहुमतः सर्वात्मानं प्रशंसति ||
४ ख
सञ्जय़ उवाच:
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता |
५ क
सञ्जय़ उवाच:
परवुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ||
५ ख
सञ्जय़ उवाच:
कारणान्तरय़ोगेन योगे येषां समा मतिः |
६ क
सञ्जय़ उवाच:
तेऽन्योन्येन च तुष्यन्ति वहु मन्यन्ति चासकृत् ||
६ ख
सञ्जय़ उवाच:
तस्यैव तु मनुष्यस्य सा सा वुद्धिस्तदा तदा |
७ क
सञ्जय़ उवाच:
कालय़ोगविपर्यासं प्राप्यान्योन्यं विपद्यते ||
७ ख
सञ्जय़ उवाच:
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः |
८ क
सञ्जय़ उवाच:
चित्तवैकल्यमासाद्य सा सा वुद्धिः प्रजाय़ते ||
८ ख
सञ्जय़ उवाच:
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि |
९ क
सञ्जय़ उवाच:
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ||
९ ख
सञ्जय़ उवाच:
एवं कार्यस्य योगार्थं वुद्धिं कुर्वन्ति मानवाः |
१० क
सञ्जय़ उवाच:
प्रज्ञय़ा हि स्वय़ा युक्तास्तां च निन्दन्ति मानवाः ||
१० ख
सञ्जय़ उवाच:
अन्यया यौवने मर्त्यो वुद्ध्या भवति मोहितः |
११ क
सञ्जय़ उवाच:
मध्येऽन्यया जराय़ां तु सोऽन्यां रोचय़ते मतिम् ||
११ ख
सञ्जय़ उवाच:
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् |
१२ क
सञ्जय़ उवाच:
अवाप्य पुरुषो भोज कुरुते वुद्धिवैकृतम् ||
१२ ख
सञ्जय़ उवाच:
एकस्मिन्नेव पुरुषे सा सा वुद्धिस्तदा तदा |
१३ क
सञ्जय़ उवाच:
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ||
१३ ख
सञ्जय़ उवाच:
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति |
१४ क
सञ्जय़ उवाच:
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ||
१४ ख
सञ्जय़ उवाच:
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः |
१५ क
सञ्जय़ उवाच:
कर्तुमारभते प्रीतो मरणादिषु कर्मसु ||
१५ ख
सञ्जय़ उवाच:
सर्वे हि युक्तिं विज्ञाय़ प्रज्ञां चापि स्वकां नराः |
१६ क
सञ्जय़ उवाच:
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ||
१६ ख
सञ्जय़ उवाच:
उपजाता व्यसनजा येय़मद्य मतिर्मम |
१७ क
सञ्जय़ उवाच:
युवय़ोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ||
१७ ख
सञ्जय़ उवाच:
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय़ च |
१८ क
सञ्जय़ उवाच:
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ||
१८ ख
सञ्जय़ उवाच:
व्राह्मणे दममव्यग्रं क्षत्रिय़े तेज उत्तमम् |
१९ क
सञ्जय़ उवाच:
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ||
१९ ख
सञ्जय़ उवाच:
अदान्तो व्राह्मणोऽसाधुर्निस्तेजाः क्षत्रिय़ोऽधमः |
२० क
सञ्जय़ उवाच:
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ||
२० ख
सञ्जय़ उवाच:
सोऽस्मि जातः कुले श्रेष्ठे व्राह्मणानां सुपूजिते |
२१ क
सञ्जय़ उवाच:
मन्दभाग्यतय़ास्म्येतं क्षत्रधर्ममनु ष्ठितः ||
२१ ख
सञ्जय़ उवाच:
क्षत्रधर्मं विदित्वाहं यदि व्राह्मण्यसंश्रितम् |
२२ क
सञ्जय़ उवाच:
प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ||
२२ ख
सञ्जय़ उवाच:
धारय़ित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे |
२३ क
सञ्जय़ उवाच:
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ||
२३ ख
सञ्जय़ उवाच:
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् |
२४ क
सञ्जय़ उवाच:
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ||
२४ ख
सञ्जय़ उवाच:
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः |
२५ क
सञ्जय़ उवाच:
विमुक्तय़ुग्यकवचा हर्षेण च समन्विताः |
२५ ख
सञ्जय़ उवाच:
वय़ं जिता मताश्चैषां श्रान्ता व्याय़मनेन च ||
२५ ग
सञ्जय़ उवाच:
तेषां निशि प्रसुप्तानां स्वस्थानां शिविरे स्वके |
२६ क
सञ्जय़ उवाच:
अवस्कन्दं करिष्यामि शिविरस्याद्य दुष्करम् ||
२६ ख
सञ्जय़ उवाच:
तानवस्कन्द्य शिविरे प्रेतभूतान्विचेतसः |
२७ क
सञ्जय़ उवाच:
सूदय़िष्यामि विक्रम्य मघवानिव दानवान् ||
२७ ख
सञ्जय़ उवाच:
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् |
२८ क
सञ्जय़ उवाच:
सूदय़िष्यामि विक्रम्य कक्षं दीप्त इवानलः |
२८ ख
सञ्जय़ उवाच:
निहत्य चैव पाञ्चालाञ्शान्तिं लव्धास्मि सत्तम ||
२८ ग
सञ्जय़ उवाच:
पाञ्चालेषु चरिष्यामि सूदय़न्नद्य संय़ुगे |
२९ क
सञ्जय़ उवाच:
पिनाकपाणिः सङ्क्रुद्धः स्वय़ं रुद्रः पशुष्विव ||
२९ ख
सञ्जय़ उवाच:
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च |
३० क
सञ्जय़ उवाच:
अर्दय़िष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा ||
३० ख
सञ्जय़ उवाच:
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् |
३१ क
सञ्जय़ उवाच:
प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ||
३१ ख
सञ्जय़ उवाच:
दुर्योधनस्य कर्णस्य भीष्मसैन्धवय़ोरपि |
३२ क
सञ्जय़ उवाच:
गमय़िष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ||
३२ ख
सञ्जय़ उवाच:
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि |
३३ क
सञ्जय़ उवाच:
विरात्रे प्रमथिष्यामि पशोरिव शिरो वलात् ||
३३ ख
सञ्जय़ उवाच:
अद्य पाञ्चालपाण्डूनां शय़ितानात्मजान्निशि |
३४ क
सञ्जय़ उवाच:
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ||
३४ ख
सञ्जय़ उवाच:
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके |
३५ क
सञ्जय़ उवाच:
कृतकृत्यः सुखी चैव भविष्यामि महामते ||
३५ ख