chevron_left अनुशासन पर्व अध्याय ३
युधिष्ठिर उवाच:
व्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप |
१ क
युधिष्ठिर उवाच:
कथं प्राप्तं महाराज क्षत्रिय़ेण महात्मना ||
१ ख
युधिष्ठिर उवाच:
विश्वामित्रेण धर्मात्मन्व्राह्मणत्वं नरर्षभ |
२ क
युधिष्ठिर उवाच:
श्रोतुमिच्छामि तत्त्वेन तन्मे व्रूहि पितामह ||
२ ख
युधिष्ठिर उवाच:
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः |
३ क
युधिष्ठिर उवाच:
हतं पुत्रशतं सद्यस्तपसा प्रपितामह ||
३ ख
युधिष्ठिर उवाच:
यातुधानाश्च वहवो राक्षसास्तिग्मतेजसः |
४ क
युधिष्ठिर उवाच:
मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः ||
४ ख
युधिष्ठिर उवाच:
महान्कुशिकवंशश्च व्रह्मर्षिशतसङ्कुलः |
५ क
युधिष्ठिर उवाच:
स्थापितो नरलोकेऽस्मिन्विद्वान्व्राह्मणसंस्तुतः ||
५ ख
युधिष्ठिर उवाच:
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः |
६ क
युधिष्ठिर उवाच:
विमोक्षितो महासत्रात्पशुतामभ्युपागतः ||
६ ख
युधिष्ठिर उवाच:
हरिश्चन्द्रक्रतौ देवांस्तोषय़ित्वात्मतेजसा |
७ क
युधिष्ठिर उवाच:
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ||
७ ख
युधिष्ठिर उवाच:
नाभिवादय़ते ज्येष्ठं देवरातं नराधिप |
८ क
युधिष्ठिर उवाच:
पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ||
८ ख
युधिष्ठिर उवाच:
त्रिशङ्कुर्वन्धुसन्त्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् |
९ क
युधिष्ठिर उवाच:
अवाक्षिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ||
९ ख
युधिष्ठिर उवाच:
विश्वामित्रस्य विपुला नदी राजर्षिसेविता |
१० क
युधिष्ठिर उवाच:
कौशिकीति शिवा पुण्या व्रह्मर्षिगणसेविता ||
१० ख
युधिष्ठिर उवाच:
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता |
११ क
युधिष्ठिर उवाच:
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ||
११ ख
युधिष्ठिर उवाच:
तथैवास्य भय़ाद्वद्ध्वा वसिष्ठः सलिले पुरा |
१२ क
युधिष्ठिर उवाच:
आत्मानं मज्जय़ामास विपाशः पुनरुत्थितः ||
१२ ख
युधिष्ठिर उवाच:
तदाप्रभृति पुण्या हि विपाशाभून्महानदी |
१३ क
युधिष्ठिर उवाच:
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ||
१३ ख
युधिष्ठिर उवाच:
वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः |
१४ क
युधिष्ठिर उवाच:
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचय़त् ||
१४ ख
युधिष्ठिर उवाच:
ध्रुवस्यौत्तानपादस्य व्रह्मर्षीणां तथैव च |
१५ क
युधिष्ठिर उवाच:
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ||
१५ ख
युधिष्ठिर उवाच:
तस्यैतानि च कर्माणि तथान्यानि च कौरव |
१६ क
युधिष्ठिर उवाच:
क्षत्रिय़स्येत्यतो जातमिदं कौतूहलं मम ||
१६ ख
युधिष्ठिर उवाच:
किमेतदिति तत्त्वेन प्रव्रूहि भरतर्षभ |
१७ क
युधिष्ठिर उवाच:
देहान्तरमनासाद्य कथं स व्राह्मणोऽभवत् ||
१७ ख
युधिष्ठिर उवाच:
एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि |
१८ क
युधिष्ठिर उवाच:
मतङ्गस्य यथातत्त्वं तथैवैतद्व्रवीहि मे ||
१८ ख
युधिष्ठिर उवाच:
स्थाने मतङ्गो व्राह्मण्यं नालभद्भरतर्षभ |
१९ क
युधिष्ठिर उवाच:
चण्डालय़ोनौ जातो हि कथं व्राह्मण्यमाप्नुय़ात् ||
१९ ख