chevron_left महाप्रस्थानिक पर्व अध्याय ३
वैशम्पाय़न उवाच:
ततः संनादय़ञ्शक्रो दिवं भूमिं च सर्वशः |
१ क
वैशम्पाय़न उवाच:
रथेनोपय़यौ पार्थमारोहेत्यव्रवीच्च तम् ||
१ ख
वैशम्पाय़न उवाच:
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः |
२ क
वैशम्पाय़न उवाच:
अव्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः ||
२ ख
वैशम्पाय़न उवाच:
भ्रातरः पतिता मेऽत्र आगच्छेय़ुर्मय़ा सह |
३ क
वैशम्पाय़न उवाच:
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ||
३ ख
वैशम्पाय़न उवाच:
सुकुमारी सुखार्हा च राजपुत्री पुरन्दर |
४ क
वैशम्पाय़न उवाच:
सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ||
४ ख
इन्द्र उवाच:
भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् |
५ क
इन्द्र उवाच:
कृष्णय़ा सहितान्सर्वान्मा शुचो भरतर्षभ ||
५ ख
इन्द्र उवाच:
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ |
६ क
इन्द्र उवाच:
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशय़ः ||
६ ख
युधिष्ठिर उवाच:
अय़ं श्वा भूतभव्येश भक्तो मां नित्यमेव ह |
७ क
युधिष्ठिर उवाच:
स गच्छेत मय़ा सार्धमानृशंस्या हि मे मतिः ||
७ ख
इन्द्र उवाच:
अमर्त्यत्वं मत्समत्वं च राज; ञ्श्रिय़ं कृत्स्नां महतीं चैव कीर्तिम् |
८ क
इन्द्र उवाच:
सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति ||
८ ख
युधिष्ठिर उवाच:
अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य |
९ क
युधिष्ठिर उवाच:
मा मे श्रिय़ा सङ्गमनं तय़ास्तु; यस्याः कृते भक्तजनं त्यजेय़म् ||
९ ख
इन्द्र उवाच:
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य; मिष्टापूर्तं क्रोधवशा हरन्ति |
१० क
इन्द्र उवाच:
ततो विचार्य क्रिय़तां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति ||
१० ख
युधिष्ठिर उवाच:
भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके व्रह्मवध्याकृतेन |
११ क
युधिष्ठिर उवाच:
तस्मान्नाहं जातु कथञ्चनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ||
११ ख
इन्द्र उवाच:
शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च |
१२ क
इन्द्र उवाच:
तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम् ||
१२ ख
इन्द्र उवाच:
त्यक्त्वा भ्रातॄन्दय़ितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर |
१३ क
इन्द्र उवाच:
श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ||
१३ ख
युधिष्ठिर उवाच:
न विद्यते सन्धिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा |
१४ क
युधिष्ठिर उवाच:
न ते मय़ा जीवय़ितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम् ||
१४ ख
युधिष्ठिर उवाच:
प्रतिप्रदानं शरणागतस्य; स्त्रिय़ा वधो व्राह्मणस्वापहारः |
१५ क
युधिष्ठिर उवाच:
मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे ||
१५ ख
वैशम्पाय़न उवाच:
तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच |
१६ क
वैशम्पाय़न उवाच:
युधिष्ठिरं प्रीतिय़ुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रय़ुक्तैः ||
१६ ख
वैशम्पाय़न उवाच:
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधय़ा |
१७ क
वैशम्पाय़न उवाच:
अनुक्रोशेन चानेन सर्वभूतेषु भारत ||
१७ ख
वैशम्पाय़न उवाच:
पुरा द्वैतवने चासि मय़ा पुत्र परीक्षितः |
१८ क
वैशम्पाय़न उवाच:
पानीय़ार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ||
१८ ख
वैशम्पाय़न उवाच:
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ |
१९ क
वैशम्पाय़न उवाच:
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ||
१९ ख
वैशम्पाय़न उवाच:
अय़ं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वय़ा |
२० क
वैशम्पाय़न उवाच:
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ||
२० ख
वैशम्पाय़न उवाच:
अतस्तवाक्षय़ा लोकाः स्वशरीरेण भारत |
२१ क
वैशम्पाय़न उवाच:
प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ||
२१ ख
वैशम्पाय़न उवाच:
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि |
२२ क
वैशम्पाय़न उवाच:
देवा देवर्षय़श्चैव रथमारोप्य पाण्डवम् ||
२२ ख
वैशम्पाय़न उवाच:
प्रय़युः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः |
२३ क
वैशम्पाय़न उवाच:
सर्वे विरजसः पुण्याः पुण्यवाग्वुद्धिकर्मिणः ||
२३ ख
वैशम्पाय़न उवाच:
स तं रथं समास्थाय़ राजा कुरुकुलोद्वहः |
२४ क
वैशम्पाय़न उवाच:
ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ||
२४ ख
वैशम्पाय़न उवाच:
ततो देवनिकाय़स्थो नारदः सर्वलोकवित् |
२५ क
वैशम्पाय़न उवाच:
उवाचोच्चैस्तदा वाक्यं वृहद्वादी वृहत्तपाः ||
२५ ख
वैशम्पाय़न उवाच:
येऽपि राजर्षय़ः सर्वे ते चापि समुपस्थिताः |
२६ क
वैशम्पाय़न उवाच:
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ||
२६ ख
वैशम्पाय़न उवाच:
लोकानावृत्य यशसा तेजसा वृत्तसम्पदा |
२७ क
वैशम्पाय़न उवाच:
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् ||
२७ ख
वैशम्पाय़न उवाच:
नारदस्य वचः श्रुत्वा राजा वचनमव्रवीत् |
२८ क
वैशम्पाय़न उवाच:
देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ||
२८ ख
वैशम्पाय़न उवाच:
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे |
२९ क
वैशम्पाय़न उवाच:
तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामय़े ||
२९ ख
वैशम्पाय़न उवाच:
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरन्दरः |
३० क
वैशम्पाय़न उवाच:
आनृशंस्यसमाय़ुक्तं प्रत्युवाच युधिष्ठिरम् ||
३० ख
वैशम्पाय़न उवाच:
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः |
३१ क
वैशम्पाय़न उवाच:
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ||
३१ ख
वैशम्पाय़न उवाच:
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् |
३२ क
वैशम्पाय़न उवाच:
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ||
३२ ख
वैशम्पाय़न उवाच:
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप |
३३ क
वैशम्पाय़न उवाच:
स्वर्गोऽय़ं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालय़ान् ||
३३ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् |
३४ क
वैशम्पाय़न उवाच:
पुनरेवाव्रवीद्धीमानिदं वचनमर्थवत् ||
३४ ख
वैशम्पाय़न उवाच:
तैर्विना नोत्सहे वस्तुमिह दैत्यनिवर्हण |
३५ क
वैशम्पाय़न उवाच:
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ||
३५ ख
वैशम्पाय़न उवाच:
यत्र सा वृहती श्यामा वुद्धिसत्त्वगुणान्विता |
३६ क
वैशम्पाय़न उवाच:
द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिय़ा मम ||
३६ ख