chevron_left सभा पर्व अध्याय ३
वैशम्पाय़न उवाच:
अथाव्रवीन्मय़ः पार्थमर्जुनं जय़तां वरम् |
१ क
वैशम्पाय़न उवाच:
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ||
१ ख
वैशम्पाय़न उवाच:
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति |
२ क
वैशम्पाय़न उवाच:
यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मय़ा |
२ ख
वैशम्पाय़न उवाच:
कृतं मणिमय़ं भाण्डं रम्यं विन्दुसरः प्रति ||
२ ग
वैशम्पाय़न उवाच:
सभाय़ां सत्यसन्धस्य यदासीद्वृषपर्वणः |
३ क
वैशम्पाय़न उवाच:
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ||
३ ख
वैशम्पाय़न उवाच:
ततः सभां करिष्यामि पाण्डवाय़ यशस्विने |
४ क
वैशम्पाय़न उवाच:
मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ||
४ ख
वैशम्पाय़न उवाच:
अस्ति विन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह |
५ क
वैशम्पाय़न उवाच:
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् |
५ ख
वैशम्पाय़न उवाच:
सुवर्णविन्दुभिश्चित्रा गुर्वी भारसहा दृढा ||
५ ग
वैशम्पाय़न उवाच:
सा वै शतसहस्रस्य संमिता सर्वघातिनी |
६ क
वैशम्पाय़न उवाच:
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ||
६ ख
वैशम्पाय़न उवाच:
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् |
७ क
वैशम्पाय़न उवाच:
सर्वमेतत्प्रदास्यामि भवते नात्र संशय़ः |
७ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ||
७ ग
वैशम्पाय़न उवाच:
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति |
८ क
वैशम्पाय़न उवाच:
हिरण्यशृङ्गो भगवान्महामणिमय़ो गिरिः ||
८ ख
वैशम्पाय़न उवाच:
रम्यं विन्दुसरो नाम यत्र राजा भगीरथः |
९ क
वैशम्पाय़न उवाच:
दृष्ट्वा भागीरथीं गङ्गामुवास वहुलाः समाः ||
९ ख
वैशम्पाय़न उवाच:
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना |
१० क
वैशम्पाय़न उवाच:
आहृताः क्रतवो मुख्याः शतं भरतसत्तम ||
१० ख
वैशम्पाय़न उवाच:
यत्र यूपा मणिमय़ाश्चित्याश्चापि हिरण्मय़ाः |
११ क
वैशम्पाय़न उवाच:
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ||
११ ख
वैशम्पाय़न उवाच:
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः |
१२ क
वैशम्पाय़न उवाच:
यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः |
१२ ख
वैशम्पाय़न उवाच:
उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ||
१२ ग
वैशम्पाय़न उवाच:
नरनाराय़णौ व्रह्मा यमः स्थाणुश्च पञ्चमः |
१३ क
वैशम्पाय़न उवाच:
उपासते यत्र सत्रं सहस्रय़ुगपर्यये ||
१३ ख
वैशम्पाय़न उवाच:
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः |
१४ क
वैशम्पाय़न उवाच:
श्रद्दधानेन सततं शिष्टसम्प्रतिपत्तय़े ||
१४ ख
वैशम्पाय़न उवाच:
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः |
१५ क
वैशम्पाय़न उवाच:
ददौ यत्र सहस्राणि प्रय़ुतानि च केशवः ||
१५ ख
वैशम्पाय़न उवाच:
तत्र गत्वा स जग्राह गदां शङ्खं च भारत |
१६ क
वैशम्पाय़न उवाच:
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः |
१६ ख
वैशम्पाय़न उवाच:
किङ्करैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ||
१६ ग
वैशम्पाय़न उवाच:
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् |
१७ क
वैशम्पाय़न उवाच:
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमय़ीं शुभाम् ||
१७ ख
वैशम्पाय़न उवाच:
गदां च भीमसेनाय़ प्रवरां प्रददौ तदा |
१८ क
वैशम्पाय़न उवाच:
देवदत्तं च पार्थाय़ ददौ शङ्खमनुत्तमम् ||
१८ ख
वैशम्पाय़न उवाच:
सभा तु सा महाराज शातकुम्भमय़द्रुमा |
१९ क
वैशम्पाय़न उवाच:
दश किष्कुसहस्राणि समन्तादाय़ताभवत् ||
१९ ख
वैशम्पाय़न उवाच:
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा |
२० क
वैशम्पाय़न उवाच:
भ्राजमाना तथा दिव्या वभार परमं वपुः ||
२० ख
वैशम्पाय़न उवाच:
प्रतिघ्नतीव प्रभय़ा प्रभामर्कस्य भास्वराम् |
२१ क
वैशम्पाय़न उवाच:
प्रवभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ||
२१ ख
वैशम्पाय़न उवाच:
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता |
२२ क
वैशम्पाय़न उवाच:
आय़ता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ||
२२ ख
वैशम्पाय़न उवाच:
उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी |
२३ क
वैशम्पाय़न उवाच:
वहुरत्ना वहुधना सुकृता विश्वकर्मणा ||
२३ ख
वैशम्पाय़न उवाच:
न दाशार्ही सुधर्मा वा व्रह्मणो वापि तादृशी |
२४ क
वैशम्पाय़न उवाच:
आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मय़ः ||
२४ ख
वैशम्पाय़न उवाच:
तां स्म तत्र मय़ेनोक्ता रक्षन्ति च वहन्ति च |
२५ क
वैशम्पाय़न उवाच:
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ||
२५ ख
वैशम्पाय़न उवाच:
अन्तरिक्षचरा घोरा महाकाय़ा महावलाः |
२६ क
वैशम्पाय़न उवाच:
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ||
२६ ख
वैशम्पाय़न उवाच:
तस्यां सभाय़ां नलिनीं चकाराप्रतिमां मय़ः |
२७ क
वैशम्पाय़न उवाच:
वैडूर्यपत्रविततां मणिनालमय़ाम्वुजाम् ||
२७ ख
वैशम्पाय़न उवाच:
पद्मसौगन्धिकवतीं नानाद्विजगणाय़ुताम् |
२८ क
वैशम्पाय़न उवाच:
पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ||
२८ ख
वैशम्पाय़न उवाच:
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् |
२९ क
वैशम्पाय़न उवाच:
मारुतेनैव चोद्धूतैर्मुक्ताविन्दुभिराचिताम् ||
२९ ख
वैशम्पाय़न उवाच:
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः |
३० क
वैशम्पाय़न उवाच:
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ||
३० ख
वैशम्पाय़न उवाच:
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः |
३१ क
वैशम्पाय़न उवाच:
आसन्नानाविधा नीलाः शीतच्छाय़ा मनोरमाः ||
३१ ख
वैशम्पाय़न उवाच:
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः |
३२ क
वैशम्पाय़न उवाच:
हंसकारण्डवय़ुताश्चक्रवाकोपशोभिताः ||
३२ ख
वैशम्पाय़न उवाच:
जलजानां च माल्यानां स्थलजानां च सर्वशः |
३३ क
वैशम्पाय़न उवाच:
मारुतो गन्धमादाय़ पाण्डवान्स्म निषेवते ||
३३ ख
वैशम्पाय़न उवाच:
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः |
३४ क
वैशम्पाय़न उवाच:
निष्ठितां धर्मराजाय़ मय़ो राज्ञे न्यवेदय़त् ||
३४ ख